तमः (tamaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindiअंधेरे (पु) अज्ञान,
Apte Hindi
Hindiतमः
- -
राहु का विशेषण
तमः
- -
तमाल वृक्ष
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit तमोगुणः, तमः
प्रकृतेः त्रिषु गुणेषु तृतीयः गुणः यः निकृष्टः अस्ति इति मन्यते।
"तमोगुणात् रक्षतु।"
राहुः, तमः, स्वर्भानुः, सैंहिकेयः, विधुन्तुदः, अस्रपिशाचः, ग्रहकल्लोलः, सैंहिकः, उपप्लवः, शीर्षकः, उपरागः, सिंहिकासूनुः, कृष्णवर्णः, कबन्धः, अगुः, असुरः
शास्त्रेषु वर्णितः नवग्रहेषु एकः ग्रहः।
"भवतः पुत्रस्य जन्मपत्रिकायां सप्तमे स्थाने राहुः अस्ति।"
अज्ञानम्, अविद्या, अहम्मतिः, तमः, मोहः, महामोहः, तामिस्रम्, अन्धतामिस्रम्
सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं भावरूपं ज्ञानविरोधि यत्किञ्चित्।
"गुरुः अज्ञानं हरति जीवनं विद्यया प्रकाशयति च।/ अज्ञानात् वारुणीं पीत्वा संस्कारेणैव शुद्धति।"
अन्धःकारः, तमः, तिमिरम्, तिमिस्रम्, तमसम्, ध्वान्तम्, निरालोकता, सान्धःकारत्वम्, निष्प्रभता, अन्धम्, शार्वरम्, रात्रिवासः, निशाचरम्, भूच्छाया, खलुक्
प्रकाशस्य अभावः।
"सूर्यास्ताद् अनन्तरम् अन्धःकारः भवति।"
Sanskrit Tibetan
Tibetanmun khrod
तमः
शब्दकल्पद्रुमः
Sanskritतमः, (ताम्यत्यनेनेति । तम + संज्ञायां घः ।)तमोगुणः । इत्यमरटीकायां रायमुकुटः ॥
तमालवृक्षः । इति शब्दचन्द्रिका ॥
(राहुः ।इत्यमरः । १ । ३ । २६ । यथा, ज्योतिषे होरायाम् ।“भृगुतमबुधजीवैरिति । कितवस्तमस्येतिवराहः ॥
” इति उणादिवृत्तिटीकायां उज्-ज्वलदत्तः । ४ । १८८ ॥
)
तमः, [स्] (ताम्यत्यनेनेति । तम + “सर्व्व-धातुभ्योऽसुन् ।” उणां । ४ । १८८ । इतिअसुन् ।) प्रकृतेर्गुणविशेषः । यथा, --“सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः ।कालसञ्चोदितास्तेऽपि परिवर्त्तन्त आत्मनि ॥
प्रभूतञ्च यदा सत्त्वं मनोबुद्धीन्द्रियाणि च ।तदा कृतयुगं विद्याद्दाने तपसि यद्रतिः ॥
यदा कर्म्मसु कार्य्येषु शक्तिर्यशसि देहिनाम् ।तदा त्रेता रजोवृत्तिरिति जानीहि शौनक ! ॥
यदा लोभस्त्वसन्तोषो मानो दम्भोऽथ मत्सरः ।कर्म्मणाञ्चापि काम्यानां द्बापरस्तद्रजस्तमः ॥
यदा सदानृतं तन्द्री निद्राहिंसादिसाघनम् ।शोकमोहभयं दैन्यं स कलिस्तु तदा स्मृतः ॥
”इति गारुडे २२७ अध्यायः ॥
* ॥
अपि च ।“तमस्त्वज्ञानजं विद्धि मोहनं सर्व्वदेहिनाम् ।प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ! ॥
सत्त्वं सुखे सञ्जयति रजः कर्म्मणि भारत ! ।ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥
रजस्तमश्चाभिभूय सत्त्वं भवति भारत ! ।रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥
”“अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।तमस्यतानि जायन्ते विवृद्धे कुरुनन्दन ! ॥
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।तदोत्तमविदां लोकानमलान् प्रतिपद्यते ॥
रजसि प्रलयं गत्वा कर्म्मसङ्गिषु जायते ।तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥
कर्म्मणः सुकृतस्याहुः सात्त्विकं निर्म्मलं फलम् ।रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥
सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च ।प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥
ऊर्द्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः ॥
”इति श्रीभगवद्गीतायाम् । १४ । ८१८ ॥
तत्तु आवरकं मोहहेतुः । इत्यमरभरतौ ॥
अस्य कार्य्यं संहारः । इति श्रीधरस्वामी ॥
तस्य धर्म्मो यथा । प्रमादः १ मोहः २ भयम् ३क्लान्तिः ४ विषादः ५ शोकः ६ अरतिः ७अनार्य्यता ८ । इति मोक्षधर्म्मः ॥
श्रमः ९तन्द्रा १० । इत्याश्वमेधिकपर्व्व ॥
अन्धकारः ।(यथा, महाभारते । १ । १०५ । १० ।“तमसा लोकमावृत्य नौगतामेव भारत ! ॥
”)तत्पर्य्यायः । तमसम् २ निशाचर्म्म ३ नीलपङ्कम् ४रजोबलम् ५ दिवान्तकः ६ वियद्भूतिः ७ खलुक् ८वृत्रः ९ । इति त्रिकाण्डशेषः ॥
रजोरसम् १०दिनान्तरम् ११ अन्धकम् १२ । इति शब्दरत्नावली ॥
अमरोक्तपर्य्यायोऽन्धकारशब्दे द्रष्टव्यः ॥
शोकः ।इति मेदिनी । से, २४ ॥
पापम् । इति हेमचन्द्रः ॥
(राहुः । इति मेदिनी । से, २४ ॥
यथा, रषुः ।८ । ३७ ।“निमिमील नरोत्तमप्रियाहृतचन्द्रा तमसेव कौमुदी ॥
”)
कृदन्तरूपमाला
Sanskrit1 {@“तमु काङ्क्षायाम्”@} 2 शमादिः।
घटादिः।
3 ‘ग्लानावेव 4 प्रयोगः।
मुरारिस्तु ‘द्रष्टुं बहूत्ताम्यति।’ इति काङ्क्षाया- मेवाह।’ इति धातुकाव्यव्याख्याने 5।]] 6 तमकः-मिका, 7 तमकः-मिका, तितमिषकः-षिका, 8 तन्तमकः-तंतमकः-मिका
तमिता-त्री, तमयिता-त्री, तितमिषिता-त्री, तन्तमिता-त्री
9 ताम्यन्-न्ती, तमयन्-न्ती, तितमिषन्-न्ती
-- 10 तमिष्यन्-न्ती-ती, तमयिष्यन्-न्ती-ती, तितमिषिष्यन्-न्ती-ती
-- तमयमानः, तमयिष्यमाणः, तन्तम्यमानः, तन्तमिष्यमाणः
11 प्रतान्-प्रतामौ-प्रतामः
-- -- -- 12 तान्तः, तमितः, तितमिषितः, तन्तमितः-तवान्
-- तमः, 13 तमी 14, तमः, तितमिषुः, तन्तमः
तमितव्यम्, तमयितव्यम्, तितमिषितव्यम्, तन्तमितव्यम्
तमनीयम्, तमनीयम्, तितमिषणीयम्, तन्तमनीयम्
15 तम्यम्, तम्यम्, तितमिष्यम्, तन्तम्यम्
ईषत्तमः-दुस्तमः-सुतमः
-- -- -- तम्यमानः, तम्यमानः, तितमिष्यमाणः, तन्तम्यमानः, तमः, तमः, तितमिषः, तन्तमः
तमितुम्, तमयितुम्, तितमिषितुम्, तन्तमितुम्
16 तान्तिः, तमना, तितमिषा, तन्तमा
तमनम्, तमनम्, तितमिषणम्, तन्तमनम्
17 तमित्वा-तान्त्वा, तमयित्वा, तितमिषित्वा, तन्तमित्वा
प्रतम्य, 18 प्रतमय्य, प्रतितमिष्य, प्रतन्तम्य
19 तमम् २, तमित्वा२, तान्त्वा २, 20 तमम् २ -तामम् २, तमित्वा २ -तान्त्वा २, तितमिषम् २, तितमिषित्वा २, तन्तमम् २
तन्तमित्वा २
21 इत्यसुन् प्रत्ययः।]] तमः, 22 असच्प्रत्यये रूपम्।]] तमसा 23, 24 इति रक्प्रत्ययः, दीर्घश्च।
तम्यते जनैरिति ताम्रम् = लोहविशेषः।]] ताम्रम् 25।
01 (७०६)
02 (४-दिवादिः-१२०२। सक। सेट्। पर।)
03 [[[अ]
04 [अस्य]
05 [२-६५]
06 [[१। ‘नोदात्तोपदेशस्य मान्तस्यानाचमेः’ (७-३-३४) इति वृद्धिनिषेधः। एवं घञि, णमुलि च ज्ञेयम्।]]
07 [[२। ‘जनीजॄष्क्रसुरञ्जोऽमन्ताश्च’ (ग। सू। भ्वादौ) इति मित्संज्ञायाम्, ‘मितां ह्रस्वः’ (६-४-९२) इति णौ उपधाया ह्रस्वः। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
08 [[३। यङन्ते, ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८४) इत्यभ्यासस्य नुगागमः। तस्य ‘पदान्तवद्वाच्यः’ (वा। ७-४-८४) इति वचनात् पदान्तवद्भावे, ‘वा पदान्तस्य’ (८-४-५९) इति परसवर्णविकल्पः। एवं यङन्ते सर्वत्र रूपद्वयं ज्ञेयम्।]]
09 [[४। ‘शमामष्टानां दीर्घः श्यनि’ (७-३-७४) इति दीर्घः।]]
10 [पृष्ठम्०६५२+ २५]
11 [[१। क्विपि, ‘अनुनासिकस्य क्विझलोः क्ङिति’ (६-४-१५) इति दीर्घे, ‘मो नो धातोः’ (८-२-६४) इति नकारः पदान्ते। तस्य नकारस्य त्रैपादिकत्वात् ‘न लोपः प्राति- पदिकान्तस्य’ (८-२-७) इति लोपो न।]]
12 [[२। उदित्त्वेन क्त्वायामिड्विकल्पनात्, निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधः। ‘अनुनासिकस्य क्वि--’ (६-४-१५) इति दीर्घः। ‘मोऽनुस्वारः’ (८-३-२३) इत्यनुस्वारः। ‘अनुस्वारस्यययि--’ (८-४-५८) इति परसवर्णः।]]
13 [[आ। ‘अशाम्यदात्माऽपि तमी नमामि दमिप्रियं श्रान्तिहरं भवन्तम्।’ धा। का। २। ६५।]]
14 [[३। ‘शमित्यष्टाभ्यो घिनुण् (३-२-१४१) इति तच्छीलादिषु कर्तषु घिनुण्। ‘नोदात्तो- पदेशस्य--’ (७-३-३४) इति वृद्धिनिषेधः।]]
15 [[४। ‘पोरदुपधात्’ (३-१-९३) इति यत्।]]
16 [[५। ‘तितुत्र--’ (७-२-९) इतीण्णिषेधः। अनुस्वारपरसवर्णौ।]]
17 [[६। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इडभावपक्षे, दीर्घानुस्वार- परसवर्णाः।]]
18 [[७। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
19 [पृष्ठम्०६५३+ २४]
20 [[१। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ दीर्घविकल्पः।]]
21 [[२। ‘असुन्’ [द। उ। ९-४९]
22 [[३। औणादिके [द। उ। ९-४४]
23 [नदी]
24 [[४। ‘असितम्योर्दीर्घश्च’ [द। उ। ८-३६]
25 [[आ। ‘मधुरिपोरभिताम्रमुखी मुदं दिवि तदा विततान शुकावलिः।’ शि। व। ६। ५३।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
