तप्तमुद्रा (taptamudrA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiतप्तमुद्रा
तप्त-मुद्रा -
किसी गर्म धातु की छाप से शरीर पर किसी दिव्य शस्त्र के रूप में अधिकार चिह्न अंकित करना
Shabdartha Kaustubha
Kannadaतप्तमुद्रा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ತಪ್ತಾಂಕನ /ವೈಷ್ಣವರು ದೇಹದ ಮೇಲೆ ಧರಿಸುವ ಶಂಖ ಚಕ್ರಗಳ ಲಾಂಛನ / ತಪ್ತವಾದ ಲೋಹಮಯ ಭಗವದಾಯುಧಗಳ ಚಿಹ್ನೆ
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritतप्तमुद्रा, (तप्ता अग्निसन्तप्ता मुद्रा ।) शरीर-धार्य्याग्नितप्तधातुमयभगवदायुधचिह्नम् । यथा, “आषाढशुक्लद्बादश्यां हरौ शिशयिषौ सति ।वैष्णवः पारणं कृत्वा तप्तमुद्राश्च धारयेत् ॥
ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रश्चैकान्तितर्द्धये ।कुर्व्वन्नात्मार्पणं तप्तमुद्राभिर्देहमङ्कयेत् ॥
* ॥
तप्तमुद्राधारणं वाराहे तप्तमुद्राप्रसङ्गे ।चक्रादिधारणं पुंसां परं सम्बन्धवेदनम् ।पातिव्रत्यनिमित्तं हि बलयादिविभूषणमिति ॥
*अथ तप्तमुद्राधारणनित्यता । वायुपुराणे ।अग्निनैव च सन्तप्तं चक्रमादाय वैष्णवः ।धारयेत् सर्व्ववर्णानां हरिसालोक्यसिद्धये ॥
”ब्रह्माण्डे ।कृत्वा धातुमयीं मुद्रां तापयित्वा स्वकां तनूम् ।चक्रादिचिह्नितां भूप ! धारयेद्वैष्णवो नरः ॥
नारदीयपञ्चरात्रे ।द्बादशारन्तु षट्कोणं बलयत्रयसंयुतम् ।हरेः सुदर्शनं तप्तं धारयेत्तद्बिचक्षणः ॥
सौपर्णे च श्रीभगवद्गरुडसम्बादे तप्तमुद्राप्रकरणे ।गरुत्मन्नविशेषेण सर्व्ववर्णेष्वयं विधिः ।विप्रो वा क्षत्त्रियो वापि वैश्यः शूद्रस्तथैव च ॥
पाद्मे ।अग्निहोत्रं यथा नित्यं वेदस्याध्ययनं यथा ।ब्राह्मणस्य तथैवेदं तप्तचक्रादिधारणम् ॥
किञ्च । तत्रैवोत्तरखण्डे श्रीशिवोमासम्बादे ।शङ्खचक्राङ्कनं कुर्य्याद्ब्राह्मणो बाहुमूलयोः ।हुताग्निनैव सन्तप्य सर्व्वपापापनुत्तये ॥
चक्रं वा शङ्खचक्रे वा तथा पञ्चायुधानि वा ।धारयित्वैव विधिवद्ब्रह्मकर्म्म समारभेत् ॥
* ॥
किञ्च । तत्प्रसङ्ग एव ।अधृत्वा विधिना चक्रं ब्राह्मणः प्राकृतो भवेत् ॥
किञ्च ।न तस्य किञ्चिदश्नीयादपि कृत्यसहस्रिणः ।सर्व्ववेदविदो वापि सर्व्वशास्त्रविशारदः ॥
अधृत्वा विधिना चक्रं ब्राह्मणः पतितो भवेत् ॥
किञ्च ।तप्तेनैवाङ्कनं कुर्य्यात् ब्राह्मणस्य विधानतः ।श्रौतस्मार्त्तादिसिद्ध्यर्थं मन्त्रसिद्ध्यै तथैवच ॥
हरेः पूजाधिकारार्थं चक्रं धार्य्यं विधानतः ।वैष्णवत्वस्य सिद्ध्यर्थं भक्तिसिद्ध्यै विशेषतः ॥
किञ्च ।उपवीतादिवद्धार्य्याः शङ्खचक्रादयस्तथा ।ब्राह्मणस्य विशेषेण वैष्णवस्य विशेषतः ॥
* ॥
श्रुतयश्च । यो ह वै सुश्लोकमौलेर्धर्म्माननुतिष्ठ-मानोऽग्निनाचक्रं धत्ते । अग्निर्व्वै सहस्रारः सह-स्रारो नेमिर्न्नेमिना तप्ततनुः सायुज्यं सलोक-तामाप्नोतीति ॥
चक्रं विभर्त्ति वपुषाभितप्तंबलं देवानाममृतस्य विष्णोः ।स एति नाकं दुरितं विधूयविशन्ति यद्यतयो वीतरागा इति ॥
”ऋक्परिशिष्टे । अतप्ततनुर्नतदामो अश्नुतेऽश्नुतासह इद्वहन्तस्तत्समासतेति यजुः ॥
ऋग्वेदीया-श्वलायनशाखायाञ्च ।प्रतद्बिष्णोरब्जचक्रे सुतप्तेजन्माम्भोधिं वर्त्तते चर्षणीन्द्राः ।मूले बाह्वोर्द्दधतेऽन्ये पुराणालिङ्गान्यन्ये तप्तायुधान्यर्पयन्ते इति ॥
छन्दोगपरिशिष्टे । सहोवाच यज्ञवल्क्यस्तत्-पुमानात्महिताय प्रेम्णा हरिम्भजेत् । सुश्लो-कमौलेर्धर्म्माण्यङ्गेष्वग्निनाधत्ते इति शतपथीश्रुतिः ॥
अथर्व्वपरिशिष्टे तप्तचक्रादिप्रकरणे ।देवासो यत्र वितनेन बाहुनासुदर्शनेन प्रयताः स्वर्गमायन् ।येनाङ्किता मनवो लोकसृष्टिंवितन्वते ब्राह्मणास्तद्बहन्तीति ॥
* ॥
किञ्च । पाद्मे श्रीशिवेन तप्तमुद्राप्रसङ्गे ।विष्णुचक्राङ्कितं विप्रं पूजयेत् सर्व्वकर्म्मणि ।विष्णुचक्रविहीनन्तु प्रयत्नेन विवर्ज्जयेत् ॥
नारदीये तप्तमुद्राप्रसङ्गे ।श्रीकृष्णचक्राङ्कविहीनगात्रःश्मशानतुल्यः पुरुषोऽथ नारी ।दृष्ट्वा नरस्तं नृपते ! सवासाःस्नात्वा समर्च्चेद्धरिमङ्ग सद्य इति ॥
* ॥
बह्व्यश्च वेङ्कटाचार्य्यपादप्रभृतिभिर्ब्बुधैः ।श्रुतयः स्मृतयोऽप्यत्र विख्याता लिखिताः पराः ॥
अतएव तदनादरे दोषाः । पाद्मे ।तप्तचक्राङ्कितं दृष्ट्वा ये निन्दति नराधमाः ।अवलोक्य मुखं तेषामादित्यमवलोकयेत् ॥
अग्निपुराणे च । दशरथहतपुत्त्रविप्रविलापे ।शिलाबुद्धिः कृता किंवा प्रतिमायां हरेर्म्मया ।किं मया पथि दृष्टस्य विष्णुभक्तस्य कर्हिचित् ॥
तन्मद्राङ्कितदेहस्य चेतसा नादरः कृतः ।येन कर्म्मविपाकेन पुत्त्रशोको ममेदृशः ॥
* ॥
अथ तप्तमुद्राधारणमाहात्म्यं सौपर्णे ।अशुचिर्व्वाप्यनाचारः सर्व्वधर्म्मबहिष्कृतः ।प्रतप्तशङ्खचक्राभ्यामङ्कितः पङ्क्तिपावनः ॥
वाराहे तप्तमुद्राधारणप्रसङ्गे ।म्लेच्छदेशे शुभे वापि चक्राङ्को यत्र तिष्ठति ।योजनानि तथा त्रीणि मम क्षेत्रं वसुन्धरे ! ॥
ब्रह्माण्डे ।आयुधैर्व्वैष्णवैः सर्व्वैस्तापितैः स्वतनुं यदि ।चिह्नयेद्वैष्णवो यस्तु स याति परमां गतिम् ॥
पाद्मे च तत्रैव ।अग्नितप्तं पवित्रञ्च धृत्वा तु बाहुमूलयोः ।त्यक्त्रा यमपुरं घोरं यान्ति विष्णोः परं पदम् ॥
हुताग्नितप्तचक्रेण शरीरं यस्य चिह्नितम् ।तेन तीर्थानि यज्ञाश्च लभ्यन्ते नात्र संशयः ॥
अग्नितप्तेन चक्रेण ब्राह्मणो बाहुमूलयोः ।अङ्कयित्वा जपन्मन्त्रं संसारान्मोक्षभाग्भवेत् ॥
अग्नितप्तेन चक्रेण बाहुमूलेषु लाञ्छिताः ।ते सर्व्वे पापनिर्म्मुक्ता यान्ति विष्णोः परं पदम् ॥
किञ्च ।अप्राकृता महात्मानो विष्णुचक्रेण लाञ्छिताः ।विष्णुचिह्नविहीनास्तु प्राकृताः पतिताः स्मृताः ॥
इति ॥
इत्थं निषेधवचनं निर्मूलं सदनादृतम् ।समूलं यच्च तत् सम्यग्विध्यभावादितत्परम् ॥
* ॥
अथ तप्तमुद्राधारणविधिः ।तप्तमुद्राधारणार्थमुपचारैस्तु पञ्चभिः ।कृष्णमभ्यर्च्च्य संपूज्य चक्रशङ्खौ तथा नमेत् ॥
तत्र मन्त्रः ।सुदर्शन ! नमस्तेऽस्तु पाञ्चजन्य नमोऽस्तु ते इति ।अग्निमभ्यर्च्च्य मूलेन हुत्वा चाज्याहुतीः कृती ।चक्रशङ्खगदादीनि शस्त्राण्यग्नौ प्रतापयेत् ॥
तत्तम्मन्त्रैरथावाह्य तान्यभ्यर्च्च्य प्रणम्य च ।गुरुं कृष्णञ्च संवन्द्य भक्त्या विज्ञापयेदिदम् ॥
उच्छिष्टभोजनादेव किङ्करः शरणागतः ।तप्तचक्रगदादीनि तवाङ्कानीश ! धारये ॥
इति ॥
अथ चक्रादीनामावाहनादिमन्त्रः ।ओम् नमो भगवते सुदर्शनाय निर्णाशितसकल-रिपुध्वजाय भगवन्नारायणकराम्भोरुहस्पर्श-दुर्ललिताय ।एह्येहि त्वं सहस्रार चक्रराज सुदर्शन ! ।यज्ञभागं प्रगृह्णस्व पूजाञ्चैव नमो नमः ॥
ओम् नमो भगवते पाञ्चजन्याय विष्णुशङ्खायगम्भीरधीरध्वन्याकुलीकृतकौरववाहिनीनाथायत्रिरेखादक्षिणावर्त्ताय त्रिप्रशस्ताय ।एह्येहि पाञ्चजन्य ! त्वं नारायणकरास्थत ! ।यज्ञभागं प्रगृह्णस्व पूजाञ्चैव नमो नमः ॥
ओम् रं णं मं नं पाञ्चजन्याय नमः ॥
ओम्भगवते खड्गाय नन्दकाय त्रैलोक्यपावित्र्यायजयिने सकलसुरासुरसुन्दरीनेत्रोत्पलार्च्चिताय ॥
एह्येहि खड्गरत्न ! त्वं नन्दकाख्य सुरार्च्चित ! ।यज्ञभागं प्रगृह्णस्व पूजाञ्चैव नमो नमः ॥
ओम् खड्गाय नमः ॥
ओम् नमो भगवत्यैकौमोदक्यै गदायै दानवेन्द्रनिसूदनायै भगवद्-भट्टारकवासुदेवलालितायै ।एह्ये हि त्वं गदे ! देवि कौमोदक्यायुधेश्वरि ! ।यज्ञभागं प्रगृह्णस्व पूजाञ्चैव नमो नमः ॥
ओम् रं खं चं कं सं गदायै नमः ॥
एवं पद्मायनमः । सशराय शार्ङ्गाय नमः । इति ॥
* ॥
अथ धारणमन्त्रः ।सुदर्शन ! महाध्वान सूर्य्यकोटिसमप्रभ ! ।अज्ञानान्धस्य मे नित्यं विष्णोर्म्मार्गं प्रदर्शय ॥
तथा ।पाञ्चजन्य ! निजध्वानध्वस्तपातकसञ्चय ।पाहि मां पापिनं घोरसंसारार्णवपातिनमिति ॥
इत्थमुच्चारयन् मन्त्रं दक्षिणादिक्रमेण तु ।भुजयोश्चक्रपूर्व्वाणि कृष्णशस्त्राणि धारयेत् ॥
कलत्रादिपरीवारान् निजान् सर्व्वांश्च वैष्णवः ।भगवत्यर्पयन् तप्तमुद्राभिस्ताभिरङ्कयेत् ॥
तथा च । वाराहे ।अङ्कयेत्तप्तचक्राद्यैरात्मनो बाहुमूलयोः ।कलत्रापत्यभृत्येषु पश्वादिषु च सम्पदे ॥
किञ्च ।आयसं विधिवत् कृत्वा पञ्चायुधविधानतः ।तत्तन्मन्त्रेण मन्त्रज्ञः प्रतिष्ठाप्य पृथक् पृथक् ॥
ललाटे च गदा धार्य्या मूर्द्ध्नि चापं शरन्तथा ।नन्दकञ्चैव हृन्मध्ये शङ्खचक्रे भुजद्बये ॥
किञ्च ।दक्षिणे तु भुजे विप्रो विभृयाद्वै सुदर्शनम् ।सव्ये च शङ्खं विभृयादिति ब्रह्मविदो विदुः ॥
अथ चक्रादिप्रतिकृतिद्रव्यम् । नवप्रश्नपञ्च-रात्रे ।सौवर्णं राजतं ताम्रं कांस्यमायसमेव वा ।चक्रं कृत्वा तु मेधावी धारयेत विचक्षण इति ॥
एवमेव प्रबोधन्यां द्वादश्यां भगवत्परैः ।तप्तमुद्रा ध्रुवं धार्य्या द्बारकायां विशेषतः ॥
इति श्रीहरिभक्तिविलासे १५ विलासः ॥
वाचस्पत्यम्
Sanskritतप्तमुद्रा स्त्री वैष्णवैः शरीरधार्य्येऽग्नितप्तधातुमयमुद्राकृतभग-वदायुधचिह्ने तद्विधिः हरिभक्तिविलासे १५ विलासे ।“आषाढशुक्लद्वादश्यां हरौ शिशयिषौ सति । वैष्णवःपारणं कृत्वा तप्तमुद्राश्च धारयेत् । ब्राह्मणः क्षत्त्रियोवैश्यः शूद्रश्चैकान्तितर्द्धये । कुर्वन्नात्मार्पणं तप्तमुद्राभि-र्देहमङ्कयेत्” । तप्तमुद्राधारणं वाराहे तप्तमुद्राप्रसङ्गे“चक्रादिधारणं पुंसां परं सम्बन्धवेदनम् । पातिव्रत्य-निमित्तं हि वलयादिविभूषणमिति” । तप्तमुद्रा-धारणफलं वायुपुराणे “अग्निनैव च सन्तप्तं चक्र-मादाय वैष्णवः । धारयेत् सर्ववर्णानां हरिसालोक्यसिद्धये” । ब्रह्माण्डे “कृत्वा धातुमयीं मुद्रां तापयित्वास्विकां तनूम् । चक्रादिविहितां भूप धारयेद्वैष्णवो नरः” ।नारदीयपञ्चरात्रे “द्वादशारन्तु षट्कोणं वलयत्रय-संयुतम् । हरेः सुदर्शनं तप्नं धारयेत्तु विचक्षणः ।सौपर्णे च श्रीभगवद्गरुडसंवादे तप्तमुद्राप्रकरणे“गरुत्मन्नविशेषेण सर्ववर्णेष्वयं विधिः । विप्रो वाक्षत्रियोवापि वैश्यः शूद्रस्तथैव च” । पाद्मे “अग्निहीत्रंयथा नित्यं वेदस्याध्ययनं यथा । ब्राह्मणस्य तथैवेदंतप्तचक्रादिधारणम्” । किञ्च तत्रैवोत्तरखण्डे श्रीशिवोमासंवादे “शङ्खचक्राङ्कनं कुर्य्याद्ब्राह्मणो बाहु-मूलयोः । हुताग्निनैव सन्तप्य सर्वपापापनुत्तये” । “चक्रंवा शङ्खचक्रे वा तथा पञ्चायुधानि वा । धारयित्वैवविधिवद्ब्रह्मकर्म समारभेत्” । तदकरणे निन्दा तत्रैव“अधृत्वा विधिना चक्रं व्राह्मणः प्राकृतो भवेत् ।न तस्य किञ्चिदश्नीयादपि क्रतुसहस्रिणः ।र्सावेदविदोवापि सर्वशास्त्रविशारदः । अधृत्वाविधिना चक्रं ब्राह्मणः पतितो भवेत् । तप्ते-नैवाङ्कनं कुर्य्यात् ब्राह्मणस्य विघानतः । श्रौतस्मार्त्तादिसिद्ध्यर्थं मन्त्रसिद्ध्यै तथैव च । हरेः पजाधिकारार्थंचक्रं धार्य्यं विधानतः । वैष्णवत्वस्य सिद्ध्यर्थं भक्तिसिद्ध्यै विशेषतः । उपवीतादिवद्धार्य्याः शङ्ख-चक्रादयस्तथा । ब्राह्मणस्य विशेषेण वैष्णवस्य विशेषतः” ।श्रुतयश्च “यो हवै सुश्लोकमौलेर्धर्म्माननुतिष्ठमानोऽग्निनाचक्रं धत्ते । अग्निर्वे सहस्रारः सहस्रारो नेमिर्न्नेमिनातप्ततनुः सायुज्यं सलोकतामाप्नोतीति” । चक्रंबिभर्त्ति वपुषाभितप्त बलं देवानाममृतस्य विष्णोः ।स एति नाकं दुरितं विधूय विशन्ति यद्यतयो बीतरागाः”इति । ऋक्परिशिष्टे “अतप्ततनुर्नतदामो अश्नुतेऽश्नुतासह इद्वहन्तस्तत् समासतेति” यजुषि ऋग्वेदीयाश्वलायनशाखायाञ्च । “प्रतद्विष्णोरब्जचक्रे सुतप्ते जन्माम्भोधिंवर्त्तते चर्षणीन्द्राः । मूले वाह्वोर्द्दधतेऽन्ये पुराणालिङ्गा-न्यन्ये तप्तान्यायुधान्यर्पयन्ते” इति । छन्द ऋक् परि-शिष्टे “सहोवा च याज्ञबल्क्यस्तत् पुमानात्महितायप्रेम्णा हरिं भजेत् । सुश्लोकभं मौलेर्धर्म्माण्यङ्गेष्वग्नि-नाधत्ते” इति । शतपथी श्रुतिः अथर्वपरिशिष्टेतप्तचक्रादिप्रकरणे “देवासो एवैतेन बाहुनासुदर्शनेन प्रयताः स्वर्गमायन्” । “येनाङ्कितामनवो लोकसृष्टिं वितन्वते ब्राह्मणास्तद्वह-न्तीति” । पाद्मे तप्तमुद्राप्रसङ्गे “विष्णुचक्राडितंविप्रं पूजयेत् सर्वकर्म्मणि । विष्णुचक्रविही-नन्तु प्रयत्नेन विवर्जयेत्” । नारदीये “तप्तमुद्राप्रसङ्गे “श्रीकृष्णचक्राङ्कविहीनगात्रः श्मशानतुल्यःपुरुषोऽथ नारी, । दृष्ट्वा नरस्तं नृपते! सवासाःस्नात्वा समर्चेद्धरिमङ्ग सद्यः” इति । वह्व्यश्च वेङ्कटाचार्यपादप्रभृतिभिर्बुधैः । श्रुतयः स्मृतयोह्यत्र विख्यातालिखिताः पराः । अतएव तदनादरे दोषाः पाद्मे“तप्तचक्राङ्कितं दृष्ट्वा ये निन्दन्ति नराधमाः । अवलोक्यमुखं तेषां आदित्यमवलोकयेत्” । अग्निपुराणे च दशरथंप्रति हतपुत्रविप्रावलापे । “शिलाबुद्धिः कृता किंवा प्र-तिमायां हरेर्मया । किं मया पथि दृष्टस्य विष्णुभक्तस्यकर्हि चित् । तन्मुद्राङ्कितदेहस्य चेतसा नादरः कृतः ।येन कर्मविपाकेन पुत्रशोको ममेदृशः” । अथ तप्तमुद्राधारणमाहात्म्यं सौपर्णे “अशुचिर्वाप्यनाचारःसर्वधर्मवहिष्कृतः । प्रतप्तशङ्खचक्राभ्यामङ्कितः पङ्क्तिपावनः” । वाराहे तप्तमुद्राधारणप्रसङ्गे “म्लेच्छदेशेशुभे वापि चक्राङ्को यत्र तिष्ठति । योजनानि तथात्रीणि मम क्षेत्रं वसुन्धरे! । ब्रह्माण्डे “आयुधै-र्वैष्णवैः सर्वैस्तापितैः स्वतनुं यदि । चिह्नयेद्वैष्णवो यस्तुस याति परमां गतिम्” । पाद्मे च “अग्नि-तप्नं पवित्रञ्च धृत्वा तु बाहुमूलयोः । त्यक्त्वा यमपुरंघोरं याति विष्णोः परं पदम् । हुताग्नितप्तचक्रेणशरीरं यस्य चिह्नितम् । तेन तीर्थानि यज्ञाश्च लभ्यन्तेनात्र संशयः । अग्नितप्तेन चक्रेण ब्राह्मणो बाहुमू-लयोः । अङ्कयित्वा जपन्मन्त्रं संसारान् मोक्षभाग्भवेत् ।अग्नितप्तेन चक्रेण बाहुमूलेषु लाञ्छिताः । ते सर्वेपापनिर्मुक्ता यान्ति विष्णोः परं पदम्” ।किञ्च “अप्राकृता महात्मानी विष्णु चक्रेण लाञ्छिताः ।विष्णुचिह्नविहीनास्तु प्राकृताः पतिताः स्मृताः । इतिअत्र निषेधवचनं निर्मूलं सद्भिरनादृतम् । समूलं यच्चतत्सम्यग्विध्यभावादिना कृततत्परम् । अथ तद्धारणप्रकारः“तप्तमुद्राधारणार्थमुपचारैस्तु पञ्चभिः । कृष्णमभ्यर्च्च्यसंपूज्य चक्रशङ्खौ तथा तपेत् । तत्र मन्त्रः “सुदर्शन! नमस्तेऽस्तु पाञ्चजन्य! नमोऽस्तु ते इति । अग्निमभ्यर्च्य मूलेनहुत्वा चाज्याहुतीः कृती । चक्रशङ्खगदादीनि शस्त्रा-ण्यग्नौ प्रतापयेत् । तत्तन्मन्त्रैरथावाह्य तान्यभ्यर्च्यप्रणम्य च । गुरुं कृष्णञ्च संवन्द्य भक्त्या विज्ञापयेदिदम् ।उच्छिष्टो भोजनादेव किङ्करः शरणागतः । तप्तचक्र-गदादीनि तवाङानीश धारये” इति । अथ चक्रादीनामावाहनादिमन्त्रः । ॐ नतो भगवते वासुदेवायनिर्णाशितसकलरिपुध्वजाय भगवन्नारायणकराम्भो रुह-स्पर्शदुर्ल्ललिताय । “एह्येहि त्वं सहस्रार चक्रराज!सुदर्शन! । यज्ञभागं प्रगृह्णस्व पूजाञ्चैव नमो नसः ।ॐ नमो भगवते पाञ्चजन्याय विष्णुशङ्खाय गम्भीरधीर-ध्वन्याकुलीकृतकौरववाहिनीनाथाय त्रिरखादक्षिणावर्त्तायत्रिप्रशस्ताय । एह्येहि पाञ्चजन्य! त्वं नारायणकर-स्थित! । यज्ञभागं प्रगृह्णस्व पूजाञ्चैव नमो नमः ।ॐ रं णं मं नं पाञ्चजन्याय नमः । ॐ भगवतेखड्गाय नन्दकाय त्रैलोक्यपवित्राय जविने सकलसुरासुरसुन्दरीनेत्रोत्पलार्च्चिताय । एह्येहि खडगरत्न! त्वं नन्दकाख्य सुरार्च्चित । यज्ञभागं प्रगृह्णस्यपूजाञ्चैव नमो नमः । ॐ खड्गाय नमः । ॐनमी भगवत्यै कौमोदक्यै भगवद्भट्टारकवासुदेवलालि-तायै । एह्येहि त्वं गदे! देवि! कौमोदक्यायुधेश्वरि! ।यज्ञभागं प्रगृह्णस्व पूजाञ्चैव नमोनमः । सशरायशार्ङ्गाय नमः । इति । अथ धारणमन्त्रः । सुदर्शन!महाध्वान! सूर्य्यकोटिसमप्रभ! । अज्ञानान्धस्य मे नित्यंविष्णोर्म्मार्गं प्रदर्शय । तथा । पाञ्चजन्य! निजध्यानध्वस्तपातकसञ्चय! । पाहि मां पापिनं घोरं संसारार्णव-पातिनम् । इत्थमुच्चारयन् मन्त्रं दक्षिणादिक्रमेणतु । भुजयोश्चक्रपूर्वाणि कृष्णशस्त्राणि घारयेत्कलत्रादिपरीवारान् निजान् सर्वांश्च वैष्णवः । भगव-त्यर्पयन् तप्तमुद्राभिस्ताभिरङ्कयेत्” । तथा च वाराहे ।“अङ्कये तप्तचक्राद्यैरात्मनोबाहुमूलयोः । कलत्रापत्य-भृत्येषु पश्वादिषु च सम्पदे” “किञ्च आयसं विधिवत्कृत्वा षञ्चायुधविधानतः । तत्तन्मन्त्रेण मन्त्रज्ञःप्रतिष्ठाप्य पृथक् पृथक् । ललाटे च गदा धार्य्यामूर्घ्नि चापं शरन्तथा । नन्दकञ्चैव हृन्मध्ये शङ्खचक्रेभुजद्वये” । किञ्च । “दक्षिणे तु मुजे विप्रो विभृयाद्वैसुदर्शनम् । सव्ये च शङ्क्षं विभृयादिति ब्रह्मविदोविदुः” । अथ चक्रादिप्रतिकृति द्रव्यम् । सवप्रश्वपञ्च-रात्रे “सौवर्ण्णं रजतं ताम्रं कांस्यमायसमेव वा ।चक्रं कृत्वा तु मेधावी धारयेत् सुविचक्षणः इति ।एवमेव प्रबोधन्यां द्वादश्यां भगवत्परैः । तप्तमुद्रा ध्रुवंधार्य्या द्वारकायां विशेषतः”तन्निषेधकवाक्यानि वैष्णवेतरविषयाणीति वैष्णवा मन्यन्तेस्मार्त्तास्तु श्रुतिस्मृतिविरुद्धत्वात् एतत् नानुतिष्ठन्तिविस्तरभयात् तन्निषेधवाक्यानि नोद्धृतानि ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
