तप्तमाषकं (taptamASakaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritतप्तमाषकं, (तप्तं माषमितं सुवर्णादिकंयत्र कप् ।) परीक्षाविशेषः । तद्विधिर्यथा ।पितामहः ।“कारयेदायसं पात्रं ताम्रं वा षोडशाङ्गुलम् ।चतुरङ्गुलखातन्तु मृण्मयं वाथ मण्डलम् ॥
मण्डलं सूर्य्यमण्डलाकारं वर्त्तुलमिति यावत् ।पूरयेद्घृततैलाभ्यां विंशत्या तु पलैस्तु तत् ।सुवर्णमाषकं तस्मिन् सुतप्ते निःक्षिपेत्ततः ॥
अङ्गुष्ठाङ्गुलियोगेन उद्धरेत्तप्तमाषकम् ।कराग्रं यो न धुनुयात् विस्फोटो वा न जायते ।शुद्धो भवति धर्म्मेण पितामहवचो यथा ॥
कल्पान्तरमाह ।सौवर्णे राजते ताम्रे आयसे मृण्मयेऽपि वा ।गव्यं घृतमुपादाय तदग्नौ तापयेच्छुचिः ॥
सौवर्णीं राजतीं ताम्रीमायसीञ्च सुशोधिताम् ।सलिलेन सकृद्धौतां प्रक्षिपेत्तत्र मुद्रिकाम् ॥
भ्रमद्वीचितरङ्गाढ्ये न नस्वस्पर्शगोचरे ।परीक्षेतार्द्रपर्णेन चुचुकारं सघोषकम् ॥
ततश्चानेन मन्त्रेण सकृत्तदभिमन्त्रयेत् ।परं पवित्रममृतं घृत ! त्वं यज्ञकर्म्मसु ॥
दह पावक ! पापं त्वं हिमशीतः शुचौ भव ।उपोषितं ततः स्नातमार्द्रवाससमागतम् ॥
ग्राहयेन्मुद्रिकां तान्तु घृतमध्यगतान्तथा ।प्रदेशिनीञ्च तस्याथ परीक्षेयुः परीक्षकाः ॥
यस्य विस्फोटका न स्युः शुद्धोऽसावन्यथाशुचिः ॥
प्रयोगस्तु । मध्यविधाष्टयवतण्डुलमध्यमिता-ङ्गुलिषोडशाङ्गुलमितप्रस्तारे तथाविधाङ्गुलि-चतुष्टयखाते ताम्रादिघटितेऽशक्तौ मृण्मये वाचक्राकारे वर्त्तुले पात्रे लौकिकाष्टरत्तिकाधिक-माषद्बयाधिकत्रयस्त्रिंशत्तोलकरूप- ३३ । २ । ८ ।वैदिकपलदशकमितं घृतं एवं तैलञ्चनिक्षिप्य लौकिकचतुरत्तिकाधिकपञ्चमाषक-षट्षष्टितोलकरूप- ६६ । ५ । ४ । वैदिकविंशति-पलपरिमितं केवलं गव्यं घृतं वा निक्षिप्यतस्मिन् सुतप्ते सकृद्धौतां पञ्चरत्तिकामितांकाञ्चनमुद्रिकां रजतादिकां वा निक्षिपेत् ।धर्म्मावाहनादिहवनान्तं तुलोक्तं सदक्षिणंकर्म्म कृत्वा, --ओम् परं पवित्रममृतं ! घृत त्वं यज्ञकर्म्मसु ।दह पावक ! पापं त्वं हिमशीतः शुचौ भव ॥
इत्यनेनाभिमन्त्रयेत् प्राड्विवाकः । ततः कृतोप-वासः स्नातार्द्रवासाः शोध्यशिरसि प्रतिज्ञापत्रंनिधाय, --ओम् त्वमग्ने ! सर्व्वभूतानामन्तश्चरसि पावक ! ।साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं करे मम ॥
इत्यनेनाभिमन्त्र्य आर्द्रपत्रनिक्षेपकृतचुचुक-शब्दात् घृतात् मुद्रिकां तर्ज्जन्यङ्गुष्ठाभ्यां उत्तो-लयेत् । घृततैलाभ्यां वा तप्तमाषकमुत्तोलयेत् ।अदग्धञ्चेत्तदा शुद्ध इति । ततो दक्षिणां दद्यात् ॥
”इति दिव्यतत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
