| YouTube Channel

तप्तकृच्छ्रः (taptakRcchraH)

 
शब्दकल्पद्रुमः
Sanskrit
तप्तकृच्छ्रः, पुं
क्ली,
(तप्तेन जलदुग्धादिना आच-रितं कृच्छ्रं कष्टं यत्र यद्बा, तप्तेनाचरितंकृच्छ्रम् ।) व्रतविशेषः यथा, “पयोघृतमुदकंवायुतप्तं प्रतित्र्यहं पिबेत् तप्तकृच्छ्रः ।”इति गौतमः
(द्वादशाहसाध्यव्रतमेतत् यथा, मनुः ११ २१५ ।“तप्तकृच्छ्रं चरन् विप्रो जलक्षीरधृतानिलान् ।प्रतित्र्यहं पिबेदुष्णान् सकृत्स्नायी समाहितः
”“तप्तकृच्छ्रं चरन् द्बिजातिः त्र्यहमुष्णोदकंत्र्यहमुष्णगोक्षीरं त्र्यहमुष्णघृतं त्र्यहमुष्णवायुंएकवारं स्नानं कुर्व्वन् संयतवान् पिबेत् अत्रपराशरोक्तविशेषः ।षट्पलन्तु पिबेदम्भस्त्रिपलन्तु पयः पिबेत् ।पलमेकं पिबेत् सर्पिस्तप्तकृच्छ्रं विधीयते
”इति तट्टीकायां कुल्लूकभट्टः
)