| YouTube Channel

तप (tapa)

 
शब्दसागरः
English
तप (औ) तपौ r. 1st cl. (तपति-ते) r. 4th cl. (तप्यति-ते) and r. 10th cl. (ताप-
यति-ते)
1. To heat or be hot, to burn
(hence figuratively, ) to
suffer mental or bodily pain.
2. To have pre-eminent or super-
human power: the deponent form only is used when the root
with the prefix उत् or वि occurs intransitively, or governs as its
object part of the body of the agent, as पाणिं वितपते warms the
hand, (उत्तपते वितपते) shines, burns, &c. The root takes the pas-
sive form also, when implying religious meditation, as तप्यते तपस्ता-
पसः the devotee revolves religious thoughts. With अनु prefixed,
(अनुतपते) To repent, to regret. With परि or सम् (परितपति सन्तपति, )
1. To bear or inflict pain, anguish, heat, distress, &c.
2. To be
sorrowful, to repent.
तप
m.
(-पः)
1. The hot season, summer.
2. Heat, warmth.
3. The sun.
E.
तप् to heat, affix अच्.
Capeller Eng
English
तप
a.
heating, burning, tormenting (—°)
m.
heat, fire,
penance, religious austerity.
Yates
English
तप (पः) 1.
m.
The hot season
heat.
Wilson
English
तप (औ) तपौ r. 1st cl. (तपति-ते) r. 4th cl.
(तप्यति-ते) and r. 10th cl.
(तापयति-ते)
1 To heat or be hot, to burn
(hence figuratively, ) to suffer mental or bodily
pain.
2 To have pre-eminent or superhuman power: the deponent form only is used when
the root with the prefix उत् or वि occurs intransitively, or governs as
its object part of the body of the agent, as पाणिं वितपते warms the hand,
(उत्तपते वितपते) shines, burns, &c. The root takes the passive form also,
when implying religious meditation, as तप्यते तपस्तापसः the devotee
revolves religious thoughts.
With अनु prefixed, (अनुतपते) To repent, to regret.
With परि or सम् (परितपति सन्तपति, )
1 To bear or inflict pain, anguish, heat, distress, &c.
2 To be sorrowful, to repent.
तप
m.
(-पः)
1 The hot season, summer.
2 Heat, warmth.
3 The sun.
E.
तप to heat, affix अच्.
Apte
English
तप [tapa],
a.
[तप्-अच्]
Burning, warming, consuming by heat.
Causing pain or trouble, distressing.
पः Heat, fire, warmth.
The sun
तपतपनसहस्रद्योतवद्- दुर्निरीक्ष्यम् (तेजः) Rām. Ch.2.85.
The hot season
Śi.*
1.66.
Penance, religious austerities.
Comp.
-अत्ययः, -अन्तः the end of the hot season and the beginning of the rainy season
रविपीतजला तपात्यये पुनरोघेन हि युज्यते नदी
Ku.*
4.44
5.23
Ś.*
3.11. -आत्मक
a.
practising austerities. -ऋतुः the hot seson
तपर्तुपूर्तावपि मेदसां भरा
N.*
1.41.
Apte 1890
English
तप a. [तप्-अच्] 1 Burning, warming, consuming by heat.
2 Causing pain or trouble, distressing.
पः 1 Heat, fire, warmth.
2 The sun.
3 The hot season
Śi. 1. 66.
4 Penance, religious austerities.
Comp.
अत्ययः,
अंतः the end of the hot season and the beginning of the rainy season
रविपीतजला तपात्यये पुनरोघेन हि युज्यते नदी Ku. 4. 44
5. 23
Ś. 3. 12.
आत्मक a. practising austerities.
Monier Williams Cologne
English
तप
mfn.
ifc. ‘consuming by heat’, see ललाटम्-
‘causing pain or trouble, distressing’, see जनं- and परं-
tormented by,
Hariv.
i, 45, 37
तप
m.
heat, warmth (cf. आ-),
Pañcat.
ii, 3, 5/6
the hot season,
Śiś.
i, 66
the sun,
W.
=
°पस्, religious austerity,
Car.
Cāṇ.
(cf. महा- and सु-)
a peculiar form of fire (which generated the seven mothers of Skanda),
MBh.
iii, 14392
Indra,
Gal.
N.
of an attendant of Śiva,
L.
, Sch.
तप
cf.
अ-.
तपः in comp. for °पस्.
Monier Williams 1872
English
तप, अस्, आ, अम्, warming
burning, consuming
by heat [cf. ललाटन्-तप]
causing pain or trouble,
distressing [cf. जनन्-तप and परन्-तप]
(अस्),
m. heat, warmth, fire [cf. आ-तप]
the sun
the
hot season
religious austerity, penance, mortifica-
tion (= तपस्)
a peculiar form of fire which
generated the seven mothers of Skanda
N. of one
of the attendants of Śiva
(आ), f., N. of one of the
eight deities of the Bodhi-druma
[cf. अ-तप and
ताप।]
—तप-रुज्, क्, f. the pain of penance.
—त-
पात्मक (°प-आत्°), अस्, इका, अम्, practising austeri-
ties.
—तपात्यय (°प-अत्°), अस्, m. the end of the
heat, the beginning of the rainy season.
—तपान्त
(°प-अन्°), अस्, m. the end of the heat, the beginning
of the rainy season.
Macdonell
English
तप tap-a,
a.
(—°) burning
tormenting
🞄harassing
m.
heat
hot season
penance.
Benfey
English
तप तप् + अ,
I.
adj.
1. Illuminating.
2. Tormenting, e. g. परंतप।
II.
m.
1. Heat, Pañc. 121, 13.
2. The
hot season, Śiś. 1, 66.
3. Penance,
Hariv. 15434.
--
Comp.
सु-,
adj.
having
accomplished great religious austerity.
Hindi
Hindi
जला, चमक, पीड़ित
Apte Hindi
Hindi
तप
वि* - तप्+अच्
"जलाने वाला, तपाने वाला, तपा कर समाप्त करने वाला"
तप
वि* - तप्+अच्
"पीड़ाकर, कष्टकर, दुःखद"
तपः
पुं*
- तप्+अच्
"गर्मी, आग, आँच"
तपः
पुं*
- तप्+अच्
सूर्य
तपः
पुं*
- तप्+अच्
ग्रीष्म ऋतु
तपः
पुं*
- तप्+अच्
"तपस्या, धार्मिक कड़ी साधना"
Shabdartha Kaustubha
Kannada
तप- सन्तापे (भ्वा० पर० सक०/अक० अनि०) तपति
पदविभागः - > धातुः
कन्नडार्थः - > ತಾಪವುಂಟುಮಾಡು /ಸಂತಾಪವುಂಟುಮಾಡು
प्रयोगाः - > "तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव" "यदताप्सीच्छनैर्भानुर्यत्रावासीन्मितं मरुत्"
उल्लेखाः - > शाकु० ३-१४, भट्टि० ९-२
तप- सन्तापे (भ्वा० पर० सक०/अक० अनि०) तपति
पदविभागः - > धातुः
कन्नडार्थः - > ನಿಯಮದಿಂದ ದೇಹವನ್ನು ದಂಡಿಸು /ನಿಯಮದಿಂದ ದೇಹವನ್ನು ಆಚರಿಸು /ಪರಮಾತ್ಮನ ಧ್ಯಾನವನ್ನು ಮಾಡು
प्रयोगाः - > "अगणिततनूतापस्तप्त्वा तपांसि भगीरथः"
उल्लेखाः - > उ० रा० १-२३
तप- सन्तापे (भ्वा० पर० सक०/अक० अनि०) तपति
पदविभागः - > धातुः
कन्नडार्थः - > ನೋಯಿಸು /ವೇದನೆಯುಂಟುಮಾಡು
प्रयोगाः - > "यास्यन् सुतस्तप्स्यति मां समन्युम्"
उल्लेखाः - > भट्टि० १-२३
तप- सन्तापे (भ्वा० पर० सक०/अक० अनि०) तपति
पदविभागः - > धातुः
कन्नडार्थः - > ಪ್ರಕಾಶಿಸು
प्रयोगाः - > "मयूखैरश्रान्तं तपति यदि देवो दिनकरः"
उल्लेखाः - > उ० रा० ६-१४
तप -ऐश्वर्ये (वा० दिवा० आत्म० सक० अनि०) तप्यते
पदविभागः - > धातुः
कन्नडार्थः - > ತಪಸ್ಸು ಮಾಡು /ದೇಹವನ್ನು ನಿಯಮದಿಂದ ದಂಡಿಸಿ ಧ್ಯಾನಮಾಡು
प्रयोगाः - > "शम्बूको नाम वृषलः पृथिव्यां तप्यते तपः"
उल्लेखाः - > उ० रा० २-८
तप -दाहे (वा० चुरा० उभ० सक० अनि०) तापयति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ದಹಿಸು /ಸುಡು
प्रयोगाः - > "तीव्यमुत्तपमानोऽयमशक्यः सोढुमातपः"
उल्लेखाः - > भट्टि० ८-१५
तप
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಗ್ರೀಷ್ಮ ಋತು /ಜ್ಯೇಷ್ಠ ಮತ್ತು ಆಷಾಢಮಾಸಗಳಿಂದ ಕೂಡಿದ ಋತು
निष्पत्तिः - > तप (सन्तापे) - "अच्" (३-१-१३४)
व्युत्पत्तिः - > तपति
प्रयोगाः - > "तपेन वर्षां शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च"
उल्लेखाः - > माघ० १-६६
तप
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸೂರ್ಯ (ಕರ್ಮಪದವು ಉಪಪದವಾದಾಗ)
तप
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ತಾಪವುಂಟುಮಾಡುವ
निष्पत्तिः - > तप + णिच् - "खच्" (३-२-३९) ह्र्स्वः (६-४-९४)
व्युत्पत्तिः - > द्विषन्तं तापयति
L R Vaidya
English
tapa {% (I) a. (f. पा) %} 1. Burning, consuming by heat
2. causing pain or trouble, distressing.
tapa {% (II) m. %} 1. Heat, fire, warmth
2. the sun
3. the hot season, Sis.i.66
4. penance, austerity.
Bopp
Latin
तप (r. तप् s. अ) urens, vexans, in comp. cum पर, v. पर-
न्तप qui hostem vexat.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
तप्
मूलधातुः:
तप
धात्वर्थः:
सन्तापे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
तपति
धातुः:
तप्
मूलधातुः:
तप
धात्वर्थः:
ऐश्वर्ये
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
तप्यते
धातुः:
तप्
मूलधातुः:
तप
धात्वर्थः:
सन्तापे
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
तापयति-ते, तपति
अनुबन्धादिविशेषः:
आधृषीयः
धातुप्रदीपः
Sanskrit
तपँ तप सन्तापे
- तपति उत्तपते निष्टपति तप्ता सन्तापः सन्तापकः तपः ।। 993 ।।
तपँ तप ऐश्वर्य्ये
वा- तप्यते तेपे तप्ता तपतेरैश्वर्य्यार्थे दैवादिकत्वम्, आत्मनेपदित्वञ्च वाग्रहणादैश्वर्य्येऽपि तपतीत्येके पत इति चैके पत्यते पतति (12) अपरे तु वावृतु वरण इति परस्मिन् वाग्रहणं सम्बध्य धातुमेकार्थमनेकाचं मन्यन्ते वावृतु वरण इति वावृत्यते ''ततो वावृत्यमानासौ रामशालां न्यविक्षत'' इति (13) 53
तपँ तप दाहे
- तापयति तपति तपते अन्यत्र तप्यते तपतीति 262
Sanskrit Tibetan
Tibetan
nyi ma lta bu
१) तप २) सूर्यप्रतिरूपक
Mahabharata
English
Tapa(s), name of several fires. § 492 (Āṅgirasa): III, 220, 14166, 14167, 14168 (created the fifteen yajñamushas).-§ 493 (do.): III, 220, 14173 (father of Bṛhaduktha), 14174 (father of Rathantara)
221, 14178, 14182 (father of five fires), 14183 (ºsaś ca Manuṃ putraṃ).--§ 500 (Skandop.): III, 228, 14392 (ºo nāma Hutāśanaḥ, father of seven kumārīs who became mātṛs).
पुराणम्
English
तप / TAPA. A deva of fire-like splendour. Born of the power of penance of five sages named kaśyapa, vasiṣṭha, prāṇaka, cyavana and trivarcas, this deva has got a name pāñcajanya (born of five) also. He did severe penance (tapas) and got the name tapa. His head is like fire, his hands like Sun, his skin and eyes are of golden hue and his waist, blue. (Śloka 4, Chapter 220, Vana Parva).
शब्दकल्पद्रुमः
Sanskrit
तप, दाहे इति कविकल्पद्रुमः
(चुरां-परं-सकं-सेट् ।) क, तापयति अयमात्मनेपदीत्येके
इति दुर्गादासः
तप, दाहे इति कविकल्पद्रुमः
(भ्वां-आत्मं-उभंच-सकं-सेट् ।) ङ, तपते ञ, तपति तपते अयमात्मनेपदीत्यन्ये इति दुर्गा-दासः
तप, दवैश्ययोः इति कविकल्प-द्रुमः
(भ्वां-परं-सकं-अकंच-अनिट् दिवादिपक्षे आत्मं ।) दव उप-तापः “तपति तनुगात्रि ! मदनस्त्वाम् ।” औ, अताप्सीत् ङ, तप्यते धनी ईश्वरः स्यादि-त्यर्थः औ, अतप्त दिवादिपक्षे ऐश्वर्य्य एवइत्यन्ये इति दुर्गादासः
तप, दवैश्ययोः इति कविकल्प-द्रुमः
(भ्वां-परं-सकं-अकंच-अनिट् दिवादिपक्षे आत्मं ।) दव उप-तापः “तपति तनुगात्रि ! मदनस्त्वाम् ।” औ, अताप्सीत् ङ, तप्यते धनी ईश्वरः स्यादि-त्यर्थः औ, अतप्त दिवादिपक्षे ऐश्वर्य्य एवइत्यन्ये इति दुर्गादासः
तपः, [स्]
क्ली,
(तपति तापयति वा तप उप-तापे + “सर्व्वधातुभ्योऽसुन् ।” उणां १८८ ।इति असुन् ।) वैधक्लेशजनकं कर्म्म यथा, --“उमेऽतिचपला पुत्त्रि ! क्षमं तावकं वपुः ।सोढुं क्लशस्वभावस्य तपसः सौम्यदर्शने
”इति तिथ्यादितत्त्वे मत्स्यपुराणवचनम्
*
तत्फलं यथा, --“तपोभिः प्राप्यतेऽभीष्टं नासाध्यं हि तपस्यतः ।दुर्भगत्वं वृथा लोको वहते सति साधने
”इति तत्रैव तद्वचनम्
*
अपि मरीचिरुवाच ।“ब्राह्मणस्य तपोमूलं यज्ञः स्वाध्याय एव ।तस्मादग्ने ! फलं ब्रूहि तपसोऽध्ययनस्य
वह्निरुवाच ।स्वाध्यायतपसोर्वक्ष्ये तन्मे निगदितं शृणु ।तपसो हि परं नास्ति तपसा विन्दते महत्
तपसा क्षीयते पापं मोदते सह दैवतैः ।तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः
तपसा सर्व्वमाप्नोति तपसा विन्दते परम् ।ज्ञानविज्ञानसम्पन्नः सौभाग्यं रूपमेव
तपसा लभते सर्व्वं तथैवाध्ययनेन ।तस्मात् स्वधर्म्मसंयुक्तो नित्यं सिध्यति पण्डितः
धर्म्मात् सुखमवाप्नोति इह लोके परत्र
”इत्याद्ये वह्निपुराणे नित्याह्निकस्नानविधि-नामाध्यायः
तपस्या तत्त्रिविधम् शारीरंवाचिकं मानसञ्च यथा, --“देवद्बिजगुरुप्राज्ञपूजनं शौचमार्ज्जवम् ।ब्रह्मचर्य्यमहिंसा शारीरं तप उच्यते
अनुद्वेगकरं वाक्यं सत्यं प्रियहितञ्च यत् ।स्वाध्यायाभ्यसनञ्चैव वाङ्मयं तप उच्यते
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।भावसंशुद्धिरित्येतत्तपो मानसमुच्यते
तदपि त्रिविधम् सात्त्विकं राजसं तामसञ्चयथा, --“श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः ।अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्
मूढग्राहेणात्मनो यत् पीडया क्रियते तपः ।परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्
इति श्रीभगवद्गीतायाम् १७ १४ -- १९
*
जनलोकादूर्द्ध्वलोकः यथा, --“अस्योपरि तपोलोकस्तेजोमय उदाहृतः ।वैराजा यत्र ते देवा वसेयुर्द्देवपूजिताः
वासुदेवे मनो येषां वासुदेवेऽर्पितक्रियाः ।तपसा तोष्य गोविन्दमभिलाषविवर्ज्जिताः
तं तपोलोकमासाद्य वसन्ति विजितेन्द्रियाः ।शिलोञ्छवृत्तयो ये वै दन्तोलूखलिकाश्च ये
येऽश्मकुट्टाश्च मुनयः शीर्णपर्णाशिनश्च ये ।ग्रीष्मे पञ्चाग्नितपसो वर्षासु स्थण्डिलेशयाः
हेमन्ते शिशिरे वा ये क्षिपन्ति सलिले क्षपाः ।कुशाग्रनीरबिन्दूंश्च तृषिता यतयोऽपिबन्
वाताशिनोऽतिक्षुधिताः पादाङ्गुष्ठाग्रभूस्पृशः ।ऊर्द्ध्वहस्ता रविदृशस्त्वेकाङ्घ्रिस्थाननिश्चलाः
ये वै दिवानिरुच्छ्वासा मासोच्छ्वासाश्च ये परे ।मासोपवासं कुर्व्वन्ति चातुर्म्मास्यव्रताश्च ये
ऋत्वन्ते तोयपाना ये ये षण्मासोपवासकाः ।ये वर्षानिमेषा वै वर्षधाराम्बुतर्षकाः
स्थाणुसाम्योपसंप्राप्ता मृगकण्डूतिसौख्यदाः ।जटाटवीकोटरान्तः कृतनीडाण्डजाश्च ये
प्ररूढवल्मिकाङ्गाश्च स्नायुनद्धास्थिसञ्चयाः ।लताप्रतानैः परितो वेष्टितावयवाश्च ये
शस्यानि प्ररूढानि यदङ्गेषु महीपते ! ।इत्येतैर्न्नियमैर्य्ये तु क्लिष्टात्मानस्तपोधनाः
ब्रह्मायुषस्तपोलोके ते वसन्त्यकुतोभयाः
”इति पद्मपुराणम्
*
चान्द्रायणादिव्रतम् धर्म्मः इति मेदिनी से, २४
तपः,
पुं,
(तपति तापयति वा तप सन्तापे +पचाद्यच् ।) ग्रीष्मः इत्यमरः १९
(यथा, माघे ६६ ।“तपेन वर्षाः शरदा हिमागमोवसन्तलक्ष्म्या शिशिरः समेत्य ।प्रसूनकॢप्तिं दधतः सदर्त्तवःपुरेऽस्य वास्तव्यकुटुम्बितां ययुः
”)
वाचस्पत्यम्
Sanskrit
तप उपतापे
सक०
ऐश्वर्य्ये अक० दि० आ० अनिट् तप्यते अतप्त ।तेपे तप्ता तप्स्यते तप्तः तप्तिः ।अव--अधस्तासे अवतप्तेनकुलस्थितम्” सि० कौ० ।आ + सम्यक्तापे आतप्तजाम्बूनदभूषिताङ्गः” हरिवं अ०अनु + सन्तततापे अनुशोचने “अनुतप्ये भृशं तात! तवघोरेण कर्मणा” भा० व० १३७२० श्लो० “अन्वतप्यतधर्मात्मा पुत्रं संचिन्त्य तापसम्” रामा० अयो० अ० ।“वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः” भा० व० २७ अ०
तप दाहे
चु०
उभ०
सक०
सेट् तपयति-ते अतीतपत्-त ।“संप्रत्ययोग्यस्थितिरेष देशः करा हिमांशोरपि तापयन्ति”उद्भटः “न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया”हितो० “कोऽत्र भूमिवलये जनान् मुधा तापयन् सुचि-रमेति सम्पदम्” माघः ।अव + अधोभागे तापने “अथावताप्य पृथिवीं पूषा दिवससं-क्षये जगामास्तं सहस्रांशुः” भा० उ० १८० अ०
तप दाहे
भ्वा०
उभ०
सक०
सेट् ज्वलने निरु० तपति--तेअतापीत्--अतपीत् अतपिष्ट तताप तेपे तपिष्यति ते“वर्षते तपते कोऽन्यो ज्वलते तेजसा कः” भा० अनु०१४ अ० “त्वमेकैकस्तपसे जातवेदाः” भा० आ० २३२ अ०“तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च” गीता“तमस्तपति घर्मांशौ” शकु० तपःकर्म्मकत्वेऽस्यकर्त्तर्य्यपि यक् तङ तप्यते तपस्तापसः ।अभि + पर्य्यालोचने “पृथिवीमन्तरिक्षं दिवं ताल्लोँका-नभ्यतपत्” ऐत० व्रा० अभ्यतपत् पर्य्यालोचितवान् ।उद् + दीप्तौ अक० आत्म० स्वाङ्गकर्मकत्वे
सक०
आत्म० “उत्तपते दीप्यते इत्यर्थः” सि० कौ० पाणिमुत्तपते ।स्वाङ्गेत्युक्तेः प० मैत्रस्य पाणिमुत्तपति” अन्यकर्मणि तुप० उत्तपति सुवर्णं विलापयतीत्यर्थः” सि० कौ० ।“तीव्रमुत्तपमानोऽयमशक्यः सोढुमातपः” भट्टिः ।“करणं कुसुमेषुरुत्तपति यद्विशिखः” माघः ।उप + पीडाजन्यतापे “आहिताग्निश्चेदुपतपेत्” आश्व० गृ०४ उपतपेत् व्याधिभिरुत्पीड्येतेत्यर्थः ।नि + नितरां तापे “तदाहुर्निशोचति नितपति वर्षिष्यतिवा” छा० उ० ।निस् + निःशेषेण तापे पौनः पुन्य तापे षत्वम् “दग्धै-कदेशा बहवो निष्टप्ताश्च तथापरे” भा० आ० २२६ अ० ।निष्टपति सुवर्णम् आसेवने तु नष त्वं निस्तपति सुवर्णंसुवर्णकारः “यस्तु सूर्य्येण निष्टप्तं गाङ्गेयं पिबतेजलम्” भा० आनु० २२६ अ० षत्वे उभयतका ग्रहणम् ।प्र + प्रकर्षेण तापे विक्रमहेतुके तापे “भासस्तवोग्राःप्रतपन्ति विष्णो!” गीता “सूर्य्यः प्रतपतां श्रेष्ठः”भा० वि० ४२ श्लो० “भास्करात प्रतपिष्यतः” भा० व०१९० अ० “द्वितीयस्येव सूर्य्यस्य युगान्ते प्रतपिष्यतः” भा०व० २२ अ० ।वि + उत्तापवत् सर्वम् “रविर्वितपतेऽत्यर्थम्” भट्टिः दीप्यतेइत्यर्थः पाणिं वितपते मैत्रस्य पाणिं वितपति सुवर्णंवितपतीत्यादि “वितपन्नरातिम्” अथ० १२ ४५सम् + सम्यक्तापे “दत्त्वापि धनं काले सन्तपत्युः-कारिणे” भा० शा० १६४ अ०
तप
पु०
तप--अच् ग्रीष्मे ज्यैष्ठाषाढात्मके ऋतौ अमरः ।“तपेन वर्षाः शरदा हिमागमः” माघः “तपर्त्तुपूर्त्ता-वपिमेदसाम्भराः” नैष० “तपात्यये वारिभिरुक्षिता-नवैः” कुमा० किञ्चित् कर्म्मोपपदे तापेः खच् ह्रस्वश्च२ तत्तापके परन्तपः भावे अप् तपसि “अश्म-कुट्टा निरशना दशपञ्चतपा इमे” हरिवं ४६ अ०
क्षीरतरङ्गिणी
Sanskrit
तपँ तप संतापे
- तपति निसस्तपतावनासेवने (83102) षत्वम्-निष्टपति उद्विभ्यां तपः (1327) तङ्-उत्तपते, वितपते स्वाङ्गकर्मकाच्च (1327 वा0) उत्तपते पृष्ठम् तपस्तपः कर्मकस्वैव (3 188) कर्तुः कर्मत्वम् तप्यते तपस्तापसः, तपोऽर्जयतीत्यर्थः तपोऽनुतापे (3165) इति यक्चिणौ -अतप्त तपस्तापसः, अन्ववातप्त पापेन कर्मणा नन्द्यादौ (गण0 31134) तपनः सूर्यः असूर्यललाटयोर्दृशितपोः (3236) खश्-ललाटन्तपः द्विषत्परयोस्तापे (3239) द्विषन्तपः, संज्ञायाम् (3246) परन्तपः असुन् (द0 उ0 949) तपः 956
तपँ तप ऐश्वर्ये
- तप्यते अन्ये तु तप संताप (1712) इत्यस्यैव भ्वादेरैश्वर्ये संतापे श्यंस्तङौ वा मन्यन्ते, वा ग्रहणाद् ऐश्वर्येऽपि भ्वादिरित्येके-प्रतपति नन्द्यादौ (गण0 31134) तपनः संंज्ञायाम् द्विषन्तपः, परन्तपः (द्र0 3239) पत इति द्रमिडाः-पत्यते, पतति, अपतिष्ट, अपप्तत् 49
तपँ तप दाहे
- तापयति, तपति 264
धातुवृत्तिः
Sanskrit
तपँ तप (अर्थः) सन्तापे
( तपति तताप तेपिथ ततप्थ तप्ता तप्स्यति तपतु अतपत तपेत् तप्यात् अताप्सीत् अताप्ताम् ) "झलो झलि'' इति सिज्लोपः ( तितप्सति तातप्यते तातप्ति तापयति अतीतपत् ) चौरं सन्तापयतीत्यत्र "रुजार्थानां भाववचनानामज्वरेः'' इति कर्मणि षष्ठी भवति तत्राज्वरिसन्ताप्योरिति निषेधात् ( उत्तपते, वितपते ) "उद्विभ्यां तपः'' इत्यकर्मकत्वात्स्वाङ्गकर्मकाच्च तङ् अकर्मकत्वं भासनार्थत्वेन यदाऽयमस्वाङ्गकर्मकस्तदोत्तपति सुवर्णमित्येव भवति तप्यते तपस्तापसः अतप्त तपस्तापसः "तपस्तापः कर्मकस्यैव इति तपः कर्मकस्य तपेः कर्तुः कर्मवद्भावादात्मनेपदम् "अत्र तपेरर्जनमर्थं इति तापसस्तत्र कर्त्ता, यत्रासौ कर्मोपवासादीनि तपांसि तापसं सन्तपन्तीति तत्र तपिर्दुःखानुभावनार्थ इति कर्मणस्तपसो व्यापारो दुःखजननमिति क्रियाभेदाद्विध्यर्थमेतत् एवकारः सूत्रे सर्ववाक्यानां सावधारणार्थत्वादर्थप्राप्तस्यैवावधारणस्यानुवादकः अत्र ''तपोऽनुतापे च'' इति चकारेण कर्मकर्त्तरि चिणो निषेधात्सिच् अत्रानुतापग्रहणस्य कर्मकर्त्रर्थत्वादन्वतप्त पापेन कर्मणेत्यत्रापि चिण् भवति, अनुतापादन्यत्रोदतापि सुवर्णं सुवर्णकारेणेति भवितव्यमेव चिणा(तप्यम् ) "पोरदुपधात्'' इति यत् (ललाटन्तप आदित्यः) "असूर्यललाटयोर्दृशितपोः'' इति यथासंख्यात् ललाटे कर्मण्युपपदे तपेः खशि मुम् ( शत्रुन्तपः ) "सज्ञायां भृतॄवृजि'' इत्यादिना खचि पूर्वपदस्य मुमागमः ( द्विपन्तपः परन्तपः ) "द्विषत्परयोस्तापे'' इति खचि णिलोपे "खचिह्रस्वः'' इति ह्रस्वः द्विषतस्तकारस्य मुमि संयोगान्तलोपः अत्र द्विषत्परयोरिति द्वितकारनिर्देशात्तकारान्तएव द्विषच्छब्दउपपदेऽयं प्रत्ययः, तु लिङ्गविशिष्टपरिभाषया द्विषतीशब्दउपपदइति कर्मण्यणि द्विषतीतापइति भवति तथा तापेरिति ण्न्तस्य ग्रहणात्केवलादप्यणेव भवति असंज्ञायां द्विषत्ताप इति, संज्ञायां तु "सज्ञायां भृतॄवृजि'' इत्यादिना खजुक्तः तपः असुन् तपश्चरति तपस्यति "कर्मणो रोमन्थतपोभ्यां वर्तिचरोः" इति रोमन्थतपोभ्यां कर्मभ्यां यथासंख्यं वर्त्तिचरोरर्थयोः क्यङिति क्यङ् कर्मण इति प्रत्येकसम्बन्धापेक्षमेकत्वम् "तपसः परस्मैपदं च'' इति परस्मैपदम् ( तपस्या ) क्यङन्तत्वात् "अ प्रत्ययात्'' इति स्त्रियामकारः तपः शीलमस्य तापसः "छत्रादिभ्यो णः'' इति णः अत्र णेऽण्कृतं कार्यं भवतीति प्रागेवोक्तं, तेन तापसीत्यत्र ङीष् भवति ( तपस्वी ) "तपः सहस्राभ्यां विनीनि'' इति मत्वर्थे विनीनिः अत्रैवार्थे "अण्च'' इत्यणि तापसः, तपस्वीत्यत्र "तसौ मत्वर्थे'' तकारान्तं सकारान्तं मत्वर्थे प्रत्यये भमिति भसज्ञयाऽऽकडारीययाऽनवकाशया "स्वादिष्वसर्वनामस्थाने'' इति पदसज्ञाया बाधात् "ससजुषोरुः'' इति रुत्वं भवति (तापः) घञ् सन्तापाय प्रभवति सान्तापिको रोगः "तस्मै प्रभवतिसन्तापादिभ्यः'' इति चतुर्थ्यन्तात्सन्तापशब्दात्प्रभवत्यर्थे ठञ् ( निष्टपति निष्टप्तम् )"निसस्तपतावनासेवेन'' इति षत्वम्, आसेवनं पौनः पुन्यं ततोऽयमनासेवनम् अयमैश्वर्ये दिवादौ दाहे चुरादौ 965
तपँ तप (अर्थः) ऐश्वर्ये
वा अयं धातुरैश्वर्ये वा तङ्श्यनौ उत्पादयतीत्यर्थः अन्यदा न्याय्यविकरणः परस्मैपदी च, ( तपति ) इति केचिदिह वाग्रहणं वक्ष्यमाणस्य वृतु वरण इत्यस्य आद्यांशमिच्छन्ति "वावृतु वरणे' इति तथा भट्टिः "ततो वावृत्त्यमाना सा रामशालां न्यविक्षत' इति "तपिं तिपिम्' इत्यनिट्कारिकान्यासे तु "तप सन्तापे, तप ऐश्वर्यर्थे वा' इत्येवं पठतोऽस्यापि वा शब्दः तप्यतेश्शेषोऽभिमतः ( तप्यते तेपे, तेपिषे, ) इत्यादि, क्रादिनियमादिट् ( तप्ता तप्स्यते तप्यताम् अतप्यत तप्सीष्ट ) लिङौ ( अतप्त अतप्सातां, ) "झलो झलि'' इति सिज्लोपः ( तितप्सते तातप्यते तातप्ति तापयति अतीतपत् तप्त्वा, तप्तः तपनः ) युच् नन्द्यादिर्वा केचिदाद्यन्तव्यत्यासेन पतेति पठन्ति, तथा स्वामी "पतेति द्रमिडा' इति निरुक्तेऽपि "इरज्यति पत्यते क्षयति राजतीति चत्वार ऐश्वर्यकर्माण' इति तथा पारक्षुद्रेऽपि "द्युतद्यामा नियुतःपत्यामनः' अस्माकं तु उभयमपि प्रमाणमाचार्येणोभयथा शिष्याणां प्रतिपादनात् तपतीति शपि गतं सन्तापे 51
तपँ तप (अर्थः) दाहे
( तापयति तप्ता ) तपिं तिपिमितिवचनादनिट्त्त्वम् तपतीति शपिसन्तापे तपते तपतीत्यैश्वर्ये 277
कृदन्तरूपमाला
Sanskrit
1 {@“तप सन्तापे”@} 2 ‘सन्तापेऽर्थे तपेद् दाहे तापयेत् तपते तपेत्।
अैश्वर्ये वा दिवादित्वात् तप्यते तपतीति च।।’ 3 इति देवः।
तापकः-पिका, तापकः-पिका, 4 तितप्सकः-प्सिका, तातपकः-पिका
तप्ता 5 निष्टप्ता-निस्तप्ता-त्री, तापयिता-त्री, तितप्सिता-त्री
तातपिता-त्री
6 उत्तपन्-निष्टपन्-7 न्ती, तापयन्-न्ती, तितप्सन्-न्ती
-- तप्स्यन्-न्ती-ती, तापयिष्यन्-न्ती-ती, तितप्सिष्यन्-न्ती-ती
-- 8 उत्तपमानः 9 -वितपमानः, 10 उत्तपमानः 11, तापयमानः -- तातप्यमानः
उत्तप्स्यमानः-वितप्स्यमानः-तापयिष्यमाणः, -- तातपिष्यमाणः
संतप्-सन्तपौ-संतपः
-- -- -- तप्तः- 12 सन्तप्तः, तप्तम्, तापितः, तितप्सितः, तातपितः-तवान्
13 तपनः, 14 ललाटन्तपः 15 16, 17 18 द्विषत्तापः, 19 संतापी, 20 द्विषन्तपः
द्विषतीतापः, 21 परन्तपः, 22 शत्रुन्तपः 23 अभितापी, 24 तापः, तितप्सुः, तातपः
तप्तव्यम्, निष्टप्तव्यम्, तापयितव्यम्, तितप्सितव्यम्, तातपितव्यम्
तपनीयम्, तापनीयम्, तितप्सनीयम्, तातपनीयम्
25 तप्यम्, ताप्यम्, तितप्स्यम्, तातप्यम्
-- ईषत्तपः-दुस्तपः-सुतपः
-- -- -- तप्यमानः, ताप्यमानः, तितप्स्यमानः, तातप्यमानः
तापः-सन्तापः, 26 आतपः, तापः, तितप्सः, तातपः
तप्तुम्, तापयितुम्, तितप्सितुम्, तातपितुम्
27 तप्तिः- 28 इत्यसुन्प्रत्यये तपः = तपति शरीरमिति कायक्लेशात्मकः शुद्धाचारः।
‘कर्मणो रोमन्थतपोभ्यां वर्तिचरोः’ 29 इति क्यङ्।
‘सनाद्यन्ता धातवः’ 30 इति धातुसंज्ञा।
‘अ प्रत्ययात्’ 31 इति स्त्रियां भावादौ अकारप्रत्ययः।
टाप्।
तपस्या = तपः।]] तपस्या, तापना, तितप्सा, तातपा
तपनम्, तापनम्, तितप्सनम्, तातपनम्
तप्त्वा, तापयित्वा, तितप्सित्वा, तातपित्वा
सन्तप्य, सन्ताप्य, संतितप्स्य, संतातप्य
तापम् २, तप्त्वा २, तापम् २, तापयित्वा २, तितप्सम् २, तितप्सित्वा २, तातपम्
तातपित्वा २।
प्रासङ्गिक्यः
01
=>
(७०३)
02
=>
(१-भ्वादिः-९८५। सक। सेट्। पर।)
03
=>
(श्लो। १३१)
04
=>
[[१। ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वात् गुणः। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[२। ‘निसस्तपतावनासेवने’ (८-३-१०२) इति षत्वम्। आसेवनम् = पुनः पुनः करणम्। “‘निष्टप्तं रक्षो निष्टप्ता अरातयः।’ इत्यत्र सदप्यासेवनं विवक्ष्यते। छान्दसो वा वर्णविकारः।” इति काशिका (८-३-१०२)। आसेवने तु निस्तप्ता इत्येव।]]
06
=>
[[३। ‘उद्विभ्यां तपः’ (१-३-२७) इत्यत्र ‘अकर्मकाच्च’ (१-३-२६) इत्यनुवृत्तेः सकर्मकात् परस्मैपदमेव।]]
07
=>
[वा सुवर्णं]
08
=>
[[४। ‘उद्विभ्यां तपः’ (१-३-२७) इति शानच्।]]
09
=>
[[आ। ‘तीव्रमुत्तपमानोऽयमशक्यः सोढुमातपः।’ भ। का। ८-१५।]]
10
=>
[[५। ‘स्वाङ्गकर्मकाच्चेति वक्तव्यम्’ (वा। १-३-२७) इत्युक्तेरत्रापि शानच्।]]
11
=>
[पृष्ठम्]
12
=>
[[B। ‘सन्तप्तचामीकरवल्गुवज्रं विभागविन्यस्तमहार्घरत्नम्।।’ भ। का। ३। ३।]]
13
=>
[[६। ‘सहितपिदमेः संज्ञायाम्’ (ग। सू। ३-१-१३४) इति नन्द्यादिषु पाठात् कर्तरि ल्युः। तपनः = सूर्यः।]]
14
=>
[[७। ‘असूर्यललाटयोर्दृशितपोः’ (३-२-३६) इति खश्। ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति मुम्। ललाटं तपतीति ललाटन्तपः = सूर्यः।]]
15
=>
[[C। ‘शमयेदपि सङ्ग्रामे यो ललाटन्तपं रविम्।।’ भ। का। ६-१००।]]
16
=>
[आदित्यः]
17
=>
[पृष्ठम्०६४९+ २८]
18
=>
[[१। असंज्ञायां द्विषन्तं तपतीति विग्रहे शुद्धाद्धातोः ‘कर्मण्यण्’ (३-२-१) इत्यणि रूपम्।]]
19
=>
[[२। सम्यक् तप्तुं शीलमस्येति सन्तापी। ताच्छील्ये णिनिः।]]
20
=>
[[३। द्विषन्तं तापयतीति विग्रहे ‘द्विषत्परयोस्तापेः’ (३-२-३९) इति खच्प्रत्ययः। खचि ‘णेरनिटि’ (६-४-५१) णिलोपे, ‘खचि ह्रस्वः’ (६-४-९४) इति उपधायाः ह्रस्वः। द्विषतस्तकारस्य मुमि संयोगान्तलोपः। एवं परं तापयतीति विग्रहे परन्तपः इति भवति। सूत्रे द्वितकारनिर्देशात् तकारान्त एव द्विषच्छब्दे उपपदेऽयं प्रत्ययः, तु लिङ्गविशिष्टपरिभाषया द्विषतीशब्दे उपपदे
\n\n तत्र ‘कर्मण्यण्’ (३-२-१) इत्यणि द्विषतीताप इत्येव भवति।]]
21
=>
[[आ। ‘प्रियंवदोऽपि नैवाहं ब्रुवे मिथ्या परन्तप। सख्या तेन दशग्रीवं निहन्ताऽसि द्विषन्तपम्।।’ भ। का। ६। १०२।]]
22
=>
[[४। ‘संज्ञायां भृतॄवृजिधारिसहितपिदमः’ (३-२-४६) इति खच्प्रत्ययः संज्ञायाम्। शत्रून् तापयतीति विग्रहे, खचि, मुमागमे, णिलोपे, ‘खचि ह्रस्वः’ (६-४-९४) इति उपधायाः ह्रस्वे, रूपम्। ‘विश्वम्भरा, साम रथन्तराख्यम्, पतिंवरा चापि धनञ्जयश्च। शत्रुंसहः कोऽपि, वसुन्धरा च, शत्रुन्तपोऽरिन्दम एवमूह्यम्।।’ इति प्रक्रियासर्वस्वे।]]
23
=>
[[५। ‘बहुलमाभीक्ष्ण्ये’ (३-२-८१) इति णिनिः। असकृत् अभितपतीत्यर्थः।]]
24
=>
[[B। ‘द्विषतः परासिसिषुरेष सकलभुवनाभितापिनः। क्रान्तकुलिशकरवीर्यबलान्मदुपासनं विहितवान् महत्तपः।।’ किरातार्जुनीये १२। ३४।]]
25
=>
[[६। ‘पोरदुपधात्’ (३-१-९८) इति यत्प्रत्ययः।]]
26
=>
[[७। = समन्तात् तपतीति आतपः = सूर्यप्रभा। ‘पुंसि संज्ञायां धः प्रायेण’ (३-३-११८) इति घः। यद्वा, पचाद्यच्।]]
27
=>
[पृष्ठम्०६५०+ २६]
28
=>
[[१। ‘असुन्’ [द। उ। ९। ४९]
29
=>
(३-१-१५)
30
=>
(३-१-३२)
31
=>
(३-३-१०२)
1 {@“तप ऐश्वर्ये”@} 2 ‘सन्तापेऽर्थे तपेद् दाहे तापयेत् तपते तपेत्।
अैश्वर्ये वा दिवादित्वात् तप्यते तपतीति च।।’ 3 इति देवः।
अयं धातुः ऐश्वर्येऽर्थे विकल्पेन तङ्श्यनौ लभते।
तदभावे शब्विकरणः पस्स्मैपदी बोद्धव्यः।
केचित्तु ‘वा’ इति पदं ‘वृतु वरणे’ इत्यनन्तरं पठिष्यमाणस्य धातोः आद्यावयवमिच्छन्ति।
अत एव ‘ततो वावृत्यमाना सा रामशालां न्यविक्षत।’ 4 इति भट्टिप्रयोगः संगच्छते।
तन्मते ऐश्वर्येऽर्थे अस्माद् धातोः तङ्श्यनौ नित्यमेव भवतः।
‘पत’ इति, अस्यैव पाठान्तरं केचिदिच्छन्ति।
अत एव ‘द्युतद्यामा नियुतः पत्यमानः’ इति प्रयोगस्योपपत्तिर्भवति।
निरुक्तेऽपि ‘इरज्यति पत्यते क्षयति राजतीति चत्वार ऐश्वर्यकर्माणः’ इत्युक्तम्।
तापकः-पिका, तापकः-पिका, तितप्सकः, प्सिका, तातपकः-पिका
तप्ता-त्री, तापयिता-त्री, तितप्सिता-त्री, इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकतपतिवत् 5 बोध्यानि।
दिवादिषु आत्मनेपदमध्ये पाठात् शानचि संतप्यमानः 6, तप्स्यमानः, तितप्समानः, तितप्सिष्यमाणः
इत्यादीनि रूपाणि भवन्तीति विशेषः।
7
प्रासङ्गिक्यः
01
=>
(७०४)
02
=>
(४-दिवादिः-११५९। अक। अनि। आत्म।)
03
=>
(श्लो। १३१)
04
=>
[भ। का। ४-२८]
05
=>
(७०३)
06
=>
[[आ। ‘गूर्णेऽस्मिन् बहुजन्तुघूरिणि खले जूर्णैः शशंसे नृभिः शौरिः शूरकगर्वचूरणपरः सन्तप्यमानः सताम्।’ धा। का। २। ६०।]]
07
=>
[पृष्ठम्०६५१+ २८]
1 {@“तप दाहे”@} 2 आधृषीयः।
‘सन्तापेऽर्थे तपेद् दाहे तापयेत् तपते तपेत्।’ 3 इति देवः।
अस्य धातोः आधृषीयत्वात् णिचो वैकल्पिकत्वं बोध्यम्।
ण्यन्तात्, शुद्धात्, सन्नन्तात्, यङन्ताच्च पूर्वोक्तभौवादिकतपधातुवत् 4 सर्वाण्यपि रूपाणि ज्ञेयानि।
अस्योभयपदित्वात् शानचि--तपमानः-तप्स्यमानः, तितप्समानः, तितप्सिष्यमाणः, इत्यादीनि रूपाण्यधिकानि भवन्ति, इति विशेषः।
5 चित्ततापी इति शुद्धाद्धातोर्णिनिप्रत्यये।
ण्यन्तात् सनि इमानि रूपाणि-- यथा--तितापयिषकः-षिका, तितापयिषिता-त्री, तितापयिषन्-न्ती, तिता- पयिषिष्यन्-न्ती-ती, तितापयिषमाणः, तितापयिषिष्यमाणः, तितापयिट्-ड्- यिषौ-यिषः
तितापयिषितः-तवान्, तितापयिषुः, तितापयिषितव्यम्, तितापयिषणीयम्, तितापयिष्यम्, ईषत्तितापयिषः-दुस्तितापयिषः-सुतिता- पयिषः, तितापयिष्यमाणः, तितापयिषः, तितापयिषितुम्, तितापयिषा, तितापयिषणम्, तितापयिषित्वा, संतितापयिष्य, तितापयिषम् २, तिता- पयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(७०५)
02
=>
(१०-चुरादिः-१८१९। सक। सेट्। उभ।)
03
=>
(श्लो। १३१)
04
=>
(७०४)
05
=>
[[आ। ‘अजरद्वृषवद् विरिक्तपीडः पुनरभ्येत्य विशिष्टचित्ततापि।’ धा। का। ३। ४९।]]
Capeller
German
तप brennend quälend, peinigend (—°)
m.
Brand, Glut, Kasteiung, Askese.
Burnouf
French
तप तप
m.
chaleur
saison chaude.
Stchoupak
French
तप-
m.
chaleur, ardeur, saison chaude
une des formes du feu.
तपात्यय- तपान्त
m.
fin de la saison chaude, saison des pluies.
तपः°
v. s. तपस्।