| YouTube Channel

तन्मात्रं (tanmAtraM)

 
शब्दकल्पद्रुमः
Sanskrit
तन्मात्रं,
क्ली,
(तदेवेति तत् + एवार्थे मात्रच् ।यद्बा, सा मात्रा यस्य ।) अपञ्चीकृतरूप-रसगन्धस्पर्शशब्दानां संज्ञा यथा, --“इमान्येव सूक्ष्मभूतानि तन्मात्राण्यपञ्चीकृतानिचोच्यन्ते एतेभ्यः सूक्ष्मशरीराणि स्थूलभूतानिचोत्पद्यन्ते ।” इति वेदान्तसारः २७
तट्टीकायथा “नन्वव्याकृतात् पञ्चतन्मात्राणि क्रमेणजायन्ते इति हि स्मृतीतिहासपुराणेषु प्रसिद्धि-स्तत् कथमाकाशादेरिहोत्पत्तिराम्नायते इतितत्राह एतान्येवेति एतान्येवाकाशादीनिसूक्ष्मभूतानि व्यवहाराक्षमाणि शब्दादिताव-न्मात्रैकस्वभावानि अपञ्चीकृतानि परमसंसृ-ष्टानि चेति स्मृत्यादिषूच्यन्ते महर्षिभिरित्यर्थः
”इति विद्बन्मनोरञ्जिनी
*
अपि ।“भूतादिस्तु विकुर्व्वाणः सर्गं तन्मात्रिकं ततः ।ससर्ज्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम्
”इति विष्णुपुराणे १२ अध्यायः