| YouTube Channel

तन्त्रीः (tantrIH)

 
शब्दकल्पद्रुमः
Sanskrit
तन्त्रीः,
स्त्री,
(तन्त्रयति मोहयति लोकानिति ।तन्त्र + “अवितॄस्तृतन्त्रिभ्य ईः ।” उणां ।१५८ इति ईः ।) वीणागुणः (यथा, रामा-यणे ३९ २९ ।“नातन्त्रीर्विद्यते वीणा नाचक्रो विद्यते रथः
”बीणा यथा, तत्रैव १८ ।“पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः ।शोकार्त्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा
”)गुडूची देहसिरा इति मेदिनी
नदी-विशेषः युवतीभेदः इति शब्दरत्नाबली
रज्जुः इति हेमचन्द्रः
(यथा, मनुः ३८ ।“न लङ्घयेद्वत्सतन्त्रीं प्रधावेच्च वर्षति ।न चोदके निरीक्षेत स्वं रूपमिति धारणा
”)