तन्त्रयुक्ति (tantrayukti)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiतन्त्रयुक्तिः
तन्त्रम्-युक्तिः -
किसी एक संधि का आयोजन
वाचस्पत्यम्
Sanskritतन्त्रयुक्ति स्त्री तन्त्रोक्ता आयुर्वेदशास्त्रोक्ता युक्तिः ।सुश्रुतोक्ते द्वात्रिंशद्भेदके युक्तिभेदे । ताश्च यथा“अथातस्तन्त्रयुक्तिनामाध्यायं व्याख्यास्यामः । द्वात्रिंश-त्तन्त्रयुक्तयो भवन्ति । तद्यथा । अधिकरणं योगः प-दार्थो हेत्वर्थ उद्देशो निर्द्देश उपदेशः प्रदेशोऽ-तिदेशोऽपवर्गो वाक्यशेषोऽर्थापत्तिर्विपर्य्ययः प्रसङ्गएकान्तो-ऽनेकान्तः पूर्वपक्षो निर्णयोऽनुमतं विधानमनागतावे-क्षणम् अतिक्रान्तावेक्षणम् । संशयो व्याख्यानं स्वसंज्ञा उदा-हरणं निर्वचनं निदर्शनं नियोगो विकल्पः समुच्चय ऊह्य-मिति अत्रासां तन्त्रयुक्तीनां किं प्रयोजनमित्युच्यते । वा-क्ययोजनमर्थयोजनञ्च । भवन्ति चात्र श्लोकाः । असद्वादि-प्रयुक्तानां वाक्यानां प्रतिहेलनम् । स्ववाक्यानां सिद्धिरपिक्रियते तन्त्रयुक्तितः । व्यक्ता नोक्ताश्च ये ह्यर्था लीना येचाप्यनिर्मलाः । लेशोक्ता ये क्वचित्तन्त्रे तेषाञ्चापि प्रसा-धनम् । यथाम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा ।प्रबोध्यस्य प्रकाश्यार्थास्तथा तन्त्रस्य युक्तयः । यमर्थम-धिकृत्योच्यते तदधिकरणं १ यथा रसं दोषं वा । येनवाक्यं युज्यते स योगः २ । यथा तैलं पिबेच्चामृतवल्लि-निम्बहिंस्राभयावृक्षक पिप्पलीभिः । सिद्धं बलाभ्याञ्चसदेवदारु हितञ्च नित्यङ्गलगण्डरोगी” । सिद्धं पिवेदितिप्रथमं वक्तव्ये तृतीयपादे सिद्धं प्रयुक्तमेवं दूरस्थाना-मपि पदानामेकीकरणं योगः । योऽर्थोभिहितः सूत्रेपदे वा स पदार्थः ३ । अपरिमिताश्च पदार्थाः । यथास्नेहस्वेदाञ्जनेषु निर्दिष्टेषु द्वयोस्त्रयाणामर्थानामुपप-त्तिर्दृश्यते तत्र योऽर्थः पूर्बापरयोगसिद्धोभवति स ग्रही-तव्यो यथा । वेदोत्पत्तिं व्याख्यास्याम इत्युक्ते सन्दि-ह्यते बुद्धिः । कतमस्य वेदस्यायमुत्पत्तिं पिवक्षुरिति ।ऋग्वेदादयस्त्रयोवेदास्तत्र पूर्वापरयोगमुपलभ्य विद--वि-चारणे विन्दत्येतयोश्च धात्वोरनेकार्थयोः प्रयोग इतिपश्वात्प्रतिप्रत्तिर्भवति । आर्युवेदोत्पत्तिमयं विवक्षुरित्येवंपदार्थः । यदन्यदुक्तमन्यार्थसाधकं भवति स हेत्वर्थः ४ ।यथा मृत्पिण्डोऽद्भिः प्रक्लिद्यते यथा माषदुग्धप्रभृति-भिर्व्रणः प्रक्लिद्यत इति । समासकथनमुद्देशः ५ । यथाशल्यमिति । विस्तरवचनं निर्देशः ६ । यथा । शारीरमा-गन्तुकं चेति । एवमित्युपदेशः ७ । यथा “तथा न जागृ-याद्रात्रौ दिवा स्वप्नञ्च वर्जयेत्” अनेन कारणेनेत्युपदेशः ।यथोपदिश्यते मधुरेण श्लेष्माभिवर्द्धत इति । प्रकृतस्या-तिक्रान्तेन साधनं प्रदेशः ८ । यथा देवदत्तस्यानेन शव्य-मुद्धृतं तस्माद्यज्ञदत्तस्याप्ययमेवोद्धरिष्यतीति । प्रकृत-स्यानागतेन साधनमतिदेशः ९ । यथानेनास्य वायुरूर्द्ध-मुपतिष्ठते तेनोदावर्त्तः स्यादिति । अभिव्याप्यापकर्षण-मपवर्गः १० । यथा स्वेद्या विषापसूष्टा अन्यत्र कीटवि-षादिति । येन पदेनानुक्तेन वाक्यं समाप्यते स वाक्य-शेषः ११ । यथा शिरःपाणिपादपार्श्वपृष्ठोदरोरसामित्युक्तेपुरुषग्रहणमपि गम्यते पुरुष एवोक्त इति । यदकीर्त्ति-तमर्थादापद्यते सार्थापत्तिः १२ । यथौदनं भक्ष्ये इत्युक्तेऽ-र्थादापन्नं भवति नायं पिपासुर्यवागूमिति । यद्यत्राभि-हितं तस्य प्रातिलोम्यं विपर्य्ययः १३ । यथा कृशाल्पप्राण-भीरवो दुश्चिकित्स्या इत्युक्ते विपरीतं गृह्यते दृढा-दयः सुचिकित्स्या इति । प्रकरणान्तरेण समापनंप्रसङ्गः १४ । यथा प्रकारणान्तरितोयमर्थोऽसकृदुक्तः समा-प्यते स प्रसङ्गः महाभूतशरीरसमवायः पुरुषस्तस्मिन्क्रिया सोऽधिष्ठानमिति वेदोत्पत्तावभिधाय भूतविद्यायांपुनरुक्तं यतोऽभिहितं पञ्चमहाभूतशरीरसमवायःपुरुष इति स खल्वेवं कर्मपुरुषश्चिकित्सायामधिकृतःसुर्वत्र । यदवधारेणोच्यते स एकान्तः १५ ।“यथा तृवृद्विरेचयति मदनफलं वामयतीति । क्वचि-त्तथा क्कचिदन्यथेति यः सोऽनेकान्तः १६ । यथा केचि-दाचार्य्या ब्रुवते द्रव्यं प्रधानं केचिद्रसं केचिद्वीर्य्यंकेचिद्विपाकमिति । आक्षेपपूर्बकः प्रश्नः पूर्बपक्षः १७यथा कफवातनिमित्ताश्चत्वारः प्रमेहा असाध्याभवन्तीति । तस्योत्तरं निर्णयः १८ । यथा शरीरं प्रपीड्यपश्चादधोगत्वा वसामेदोमज्जानुविद्धं मूत्रं प्रसृजति वातएवमसाध्या वातजा इति । तथाचोक्तम् “कृत्स्नंशरीरं निष्पीड्य मेदोमज्जवसायुतः । अधः प्रकुप्यते वायु-स्तेनासाध्यास्तु वातजाः” । परमतमप्रतिषिद्धमनुमतम् १९ ।यथान्यो ब्रूयात्सप्त रसा इति । प्रकरणानुपूर्व्याभिहितंविधानम् २० । यथा सक्थिमर्म्माण्येकादशप्रकरणानुपू-र्व्याभिहितानि । एवं वक्ष्यतीत्यनागतावेक्षणम् २१ । यथाश्लोकस्थाने ब्रूयाच्चिकित्सितेषु वक्ष्यामीति । यत्पूर्बमुक्तंतदतिक्रान्तावेक्षणम् २२ । यथा चिकित्सितेषु ब्रूयात् श्लोकस्थाने यदीरितसिति । उभयहेतुदर्शनं संशयः २३ । यथातलहृदयाभिघातः प्राणहरः पाणिपादच्छेदनं प्राण-हरमिति । तत्रातिशयोपवर्णनं व्याख्यानम् २४ । यथेहपञ्चविंशतिकः पुरुषोऽत्र व्याख्यायते । अन्येष्वायुर्वेद-तन्त्रेषु भूतादिप्रकृत्यारब्धचिन्ता । अन्यशास्त्रासा-मान्या स्वसंज्ञा २५ । यथा मिथुनमिति मधुसर्पिषोर्ग्रह-णम् । लोके प्रथितमुदाहरणम् २६ । यथोष्णभयाच्छीतम-नुधावति । निश्चितं वचनं निर्वचनम् २७ । यथायुर्विद्यतेऽ-स्मिन्ननेन वायुर्विन्दतीत्यायुर्वेदः । दृष्टान्तैनार्थः प्रसाध्यतेयत्र तन्निदर्शनम् २८ । यथाग्निर्वायुना सहितः कोष्ठेवृद्धिं गच्छति तथा वातपित्तकफजोदुष्टव्रण इति । इदमेबकर्त्तव्यमिति नियोगः २९ । यथा पथ्यमेव भोक्तव्यमिति ।इदं वेति विकल्पः ३० । यथा रसौदनः सवृता यवागूर्व्वाइदञ्चेदञ्चेति समुच्चयः ३१ । यथा मांसवर्गे ऐणहरिण-लावतित्तिरिशारङ्गाः प्रधानमिति । यदनिर्दिष्टं बुद्धिमतातदूह्यम् ३२ । यथाभिहितमन्नपानविधौ चतुर्विधञ्चान्नमु-पदिश्यते । भक्ष्यं भोज्यं लेह्यं पेयमेवञ्चतुर्विधे वक्तव्येद्विविधमतिहितमत्रोह्यमिति । अन्नपाने विशिष्यद्वयोर्ग्रहणे कृते चतुर्णामपि ग्रहणं भवति किञ्चा-न्यत् । अन्नेन भक्ष्यमवरुद्धं त्वन्नसाधर्म्यात् । पेयेनलेह्यं द्रवसाधर्म्यात् । चतुर्विधश्चाहारः प्रायेण द्विविधःप्रसिद्ध इति । द्वात्रिंशद्युक्तयो ह्येतास्तन्त्रसारगवेषणे ।गया सम्यग्विनिहिताः शब्दन्यायार्थसंयुताः । योह्येताविधिवद्वेत्ति दीपोभूतास्तु बुद्धिमान् । स पूजार्होभिषक् श्रेष्ठ इति धन्वन्तरेर्मतम् ।”
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
