| YouTube Channel

तन्त्रं (tantraM)

 
शब्दकल्पद्रुमः
Sanskrit
तन्त्रं,
क्ली,
(तनोति तन्यते इति वा तन +कर्त्त्रादौ यथायथं ष्ट्रन् तत्रि कुटुम्बधारणे +घञ् वा ।) कुटुम्बकृत्यम् (कुलप्रतिष्ठादिक-स्थितिः यथा, महाभारते १३ ४८ ।“सर्व्वानुपायानथ सम्प्रधायसमुद्धरेत् स्वस्य कुलस्य तन्त्रम्
”)सिद्धान्तः ओषधिः प्रधानम् तन्त्रवायः ।परिच्छदः श्रुतिशाखाविशेषः हेतुः उभ-यार्थप्रयोजकम् इतिकर्त्तव्यता इति मेदिनी
राष्ट्रम् परच्छन्दः करणम् अर्थसाधकः ।तन्तुः सैन्यम् स्वराष्ट्रचिन्ता इति हेम-चन्द्रः
(यथा, माघे ८८ ।“तन्द्रावापविदा योगैर्मण्डलान्यधितिष्ठता
”)प्रबन्धः इति शब्दरत्नावली
शपथः इतिधरणिः
धनम् गृहम् वपनसाधनम् ।(यथा, महाभारते १४० “तदापश्यत्स्त्रियौ तन्त्रे अधिरोप्य सुवेमे पटं वयन्तौ
”)कुलम् इति नानार्थध्वनिमञ्जरी (शास्त्रम् ।इति विश्वः यथा, देवीभागवते ११ १९ ।“अवैरज्ञमतन्त्रज्ञं बालचेष्टासमन्वितम्
”व्यवहारः नियमादिः यथा, महाभारते ।१ १०३ २६ ।“शुत्वा त्वं प्रतिपद्यस्व प्राज्ञैः सह पुरोहितैः ।आपद्धर्म्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य
”)शिवोक्तशास्त्रम् तच्च चतुःषष्टिसंख्यकम् ।यथा, --“सिद्धीश्वरं महातन्त्रं कालीतन्त्रं कुलार्णवम् ।ज्ञानार्णवं नीलतन्त्रं फेत्कारीतन्त्रमुत्तमम्
देव्यागमं उत्तराख्यं श्रीक्रमं सिद्धियामलम् ।मत्स्यसूक्तं सिद्धसारं सिद्धिसारस्वतं तथा
वाराहीतन्त्रं देवेशि ! योगिनीतन्त्रमुत्तमम् ।गणेशविमर्षिणी तन्त्रं नित्यातन्त्रं शिवागमम्
चामुण्डाख्यं महेशानि ! मुण्डमालाख्यतन्त्रकम् ।हंसमाहेश्वरं तन्त्रं निरुत्तरमनुत्तमम्
कुलप्रकाशकं देवि ! कल्पं गान्धर्व्वकं शिवे ! ।क्रियासारं निबन्धाख्यं स्वतन्त्रं तन्त्रमुत्तमम्
सम्मोहनं तन्त्रराजं ललिताख्यं तथा शिवे ! ।राधाख्यं मालिनीतन्त्रं रुद्रयामलमुत्तमम्
बृहत्श्रीक्रमं तन्त्रं गवाक्षं सुकुमुदिनी ।विशुद्धेश्वरतन्त्रञ्च मालिनीविजयं तथा
समयाचारतन्त्रञ्च भैरवीतन्त्रमुत्तमम् ।यीगिनीहृदयं तन्त्रं भैरवं परमेश्वरि !
सनत्कुमारकं तन्त्रं योनितन्त्रं प्रकीर्त्तितम् ।तन्त्रान्तरञ्च देवेशि ! नवरत्नेश्वरं तथा
कुलचूडामणितन्त्रं भावचूडामणीयकम् ।तन्त्रदेवप्रकाशञ्च कामाख्यानामकं तथा
कामधेनु कुमारी भूतडामरसंज्ञकम् ।मालिनीविजयं तन्त्रं यामलं ब्रह्मयामलम्
विश्वसारं महातन्त्रं महाकालं कुलामृतम् ।कुलोड्डीशं कुब्जिकाख्यं यन्त्रचिन्तामणीयकम्
एतानि तन्त्ररत्नानि सफलानि युगे युगे ।कालीविलासकादीनि तन्त्राणि परमेश्वरि !
कालकल्पे सुसिद्धानि अश्वक्रान्तासु भूमिषु ।महाचीनादितन्त्राणि अविकल्पे महेश्वरि !
सुसिद्धानि वरारोहे ! रथक्रान्तासु भूमिषु
”इति महासिद्धिसारस्वतम्
*
अपि ।“चतुःषष्टिश्च तन्त्राणि यामलादीनि पार्व्वति ! ।सफलानीह वाराहे ! विष्णुक्रान्तासु भूमिषु
कल्पभेदेन तन्त्राणि कथितानि यानि ।पाषण्डमोहनायैव विफलानीह सुन्दरि !
”इति महाविश्वसारतन्त्रम्
तत्रागमस्य लक्षणं यथा, --“सृष्टिश्च प्रलयश्चैव देवतानां यथार्च्चनम् ।साधनञ्चैव सर्व्वेषां पुरश्चरणमेव
षट्कर्म्मसाधनञ्चैव ध्यानयोगश्चतुर्व्विधः ।सप्तभिर्लक्षणैर्युक्तमागमं तद्विदुर्बुधाः
*
यामलस्य लक्षणम् ।“सृष्टिश्च ज्योतिषाख्यानं नित्यकृत्यप्रदीपनम् ।क्रमसूत्रं वर्णभेदो जातिभेदस्तथैव
युगधर्म्मश्च संख्यातो यामलस्याष्टलक्षणम्
*
तन्त्रस्य लक्षणम् ।“सर्गश्च प्रतिसर्गश्च मन्त्रनिर्णय एव ।देवतानाञ्च संस्थानं तीर्थानाञ्चैव वर्णनम्
तथैवाश्रमधर्म्मश्च विप्रसंस्थानमेव ।संस्थानञ्चैव भूतानां यन्त्राणाञ्चैव निर्णयः
उत्पत्तिर्व्विबुधानाञ्च तरूणां कल्पसंज्ञितम् ।संस्थानं ज्योतिषाञ्चैव पुराणाख्यानमेव
कोषस्य कथनञ्चैव व्रतानां परिभाषणम् ।शौचाशौचस्य चाख्यानं नरकाणाञ्च वर्णनम्
हरचक्रस्य चाख्यानं स्त्रीपुंसोश्चैव लक्षणम् ।राजधर्म्मो दानधर्म्मो युगधर्म्मस्तथैव
व्यवहारः कथ्यते तथा चाध्यात्मवर्णनम्
इत्यादिलक्षणैर्युक्तं तन्त्रमित्यभिधीयते
*
तस्य माहात्म्यम् ।“विष्णुर्व्वरिष्ठो देवानां ह्नदानामुदधिस्तथा ।नदीनाञ्च यथा गङ्गा पर्व्वतानां हिमालयः
अश्वत्थः सर्व्ववृक्षाणां राज्ञामिन्द्रो यथा वरः ।देवीनाञ्च यथा दुर्गा वर्णानां ब्राह्मणो यथा
तथा समस्तशास्त्राणां तन्त्रशास्त्रमनुत्तमम्
सर्व्वकामप्रदं पुण्यं तन्त्रं वै वेदसम्मितम् ।कीर्त्तनं देवदेवस्य हरस्य मतमेव
पावनं श्रद्दधानानामिह लोके परत्र
*
तस्य श्लोकसंख्या यथा, --“न शक्यं विस्तराद्बक्तुमपि वर्षशतैरपि ।संक्षेपाद्वै प्रवक्ष्यामि लोककल्पोक्तवर्त्मना
दिवि देवे नवलक्षं पाताले ब्रह्मशासने
लक्षमात्रं भारते क्षितौ तन्त्राणि यानि ।आगमं त्रिविधं प्रोक्तं चतुर्थमैश्वरं स्मृतम्
कल्पश्चतुर्व्विधः प्रोक्तः आगमो डामरस्तथा ।यामलश्च तथा तन्त्रं तेषां भेदाः पृथक पृथक्
मुक्तकाख्यं प्रपञ्चश्च सारदाख्यञ्च नारदः ।महार्णवश्च कपिलो योगः कल्पः कपिञ्जलः
अमृतशुद्धिर्वीरश्च सिद्धसंवरणन्तथा ।प्रथमोऽष्टसहस्रन्तु श्लोका दश प्रकीर्त्तिताः
द्बितीयो मुक्तकस्तत्र षट्सहस्राणि संख्यया ।श्लोकाः शतार्द्धसंख्यातास्तृतीयस्त्रिसहस्रकः
शतद्बयं साधिकञ्च श्लोकानां पञ्चविंशतिः ।त्रिंशोत्तरसहस्राणि श्लोकानां भानुसंख्यया
प्रपञ्चे प्रथमे तन्त्रे द्बितीये वसुसंख्यया ।सहस्राणि तथा श्लोकाः सप्तविंशतिसंख्यया
भूतनेत्रसहस्राणि तृतीये पञ्चसहस्रकम् ।शतत्रयं पङ्क्तिश्लोकाः प्रपञ्चः कथितस्त्रिधा
कलासंख्या सहस्राणि शारदायाः प्रकीर्त्तिताः ।पञ्चविंशाधिकाः श्लोका वसुश्लोकाश्च नारदे
विंशतिश्च सहस्राणि षट्सहस्राणि संख्यया ।वसुश्लोकाश्च कथिताः कपिले श्लोकसंख्यया
त्रयोदशसहस्राणि कालोत्तरशतत्रयम् ।श्लोकसंख्यासमुद्दिष्टं योगे कल्पे संख्यया
वाणसंख्यासहस्राणि श्लोका नवतिः कीर्त्तिताः ।श्लोकानान्तु सहस्राणि अष्टाविंशतिसंख्यया
श्लोकाश्च भानुसंख्यातास्तन्त्रेऽपि कपिञ्जले ।अमृतशुद्धौ सहस्राणि पञ्चश्लोकाधिकानि
पञ्चैव कथिता नेत्रसंख्यातानि यथाथतः ।वीरागमे षडधिकानि शतानि परिसंख्यया
सहस्राणि तावन्ति श्लोकानान्तु यथार्थतः ।पञ्चाधिकसहस्राणि श्लोकानामृतुसंख्यया
सिद्धसम्बरणोक्तानि ऐश्वरेण यथा पुरा
*
डामरः षड्विधो ज्ञेयः प्रथमो योगडामरः
श्लोकास्तत्र त्रयस्त्रिंशत् तथा पञ्चशतानि ।त्रिविंशतिसहस्राणि श्लोकानि चेह संख्यया ।एकादशसहस्राणि संख्याताः शिवडामरे
श्लोकाः सप्तैव निश्चित्य ईश्वरेणैव भाषिताः ।तावत्श्लोकसहस्राणि पञ्चश्लोकशतानि ।गुणोत्तराणि दुर्गाया डामरे कथितानि
नवश्लोकसहस्राणि नवश्लोकशतानि ।सारस्वते तथा श्लोकाः पञ्चैव परिकीर्त्तिताः
स्वरसंख्यासहस्राणि श्लोकानां ब्रह्मडामरे ।पञ्चोत्तरशतान्यत्र संख्यातानि शिवेन तु
षष्टिः श्लोकसहस्राणि गान्धर्व्वे डामरोत्तमे ।श्लोकाश्च षष्टिसंख्याता ब्रह्मणाव्यक्तयोनिना
यामलाः षट्च संख्यातास्तत्रादावादियामले ।द्बात्रिंशच्च सहस्राणि त्रयस्त्रिंशत्शतानि
द्बितीये ब्रह्मसंज्ञे ते द्वाविंशतिश्च संख्यया ।सहस्राणि शतान्यत्र तान्येव कथितानि
तावत्संख्यासहस्राणि शतानि परिसंख्यया ।विंशतिश्च तथा संख्या श्लोकाश्च विष्णुयामले
कालसंख्यासहस्राणि वेदसंख्याशतानि ।पञ्चषष्टिस्तथा श्लोकाः कनिष्ठे रुद्रयामले
नवश्लोकसहस्राणि त्रयोदशशतानि ।द्बाविंशतिस्तथा श्लोका गणेशे यामलोत्तमे
रविसंख्यासहस्राणि आदित्याख्ये तु यामले ।तन्त्रे नीलपताकायां सहस्राणि पञ्च
पञ्चविंशतिश्लोकाश्च कथिता वामकेश्वरे ।त्रयोदशसहस्राणि द्बे शते विंशतिस्तथा
श्लोका मृत्युञ्जये तन्त्रे संख्यातास्तन्त्रवेदिभिः ।गजसंख्यासहस्राणि त्रीणि संख्याशतानि
सप्तश्लोकास्तथैवात्र तन्त्रे योगार्णवोत्तमे ।दशश्लोकसहस्राणि तावन्त्येव शतानि
मायाख्ये महातन्त्रे यथार्थतः प्रकीर्त्तिताः ।पञ्चश्लोकसहस्राणि तावन्त्येव शतानि
शतार्द्धसंख्यया श्लोका दक्षिणामूर्त्तितन्त्रके ।दशश्लोकसहस्राणि तावन्त्येव शतानि
त्रयोदश तथा श्लोकाः कालिकाख्ये तन्त्रके ।कामेश्वर्य्यास्तन्त्रवरे सहस्राणि त्रयं महत्
श्लोकानां संख्यया चात्र तन्त्रराजे संख्यया ।नवश्लोकसहस्राणि नवश्लोकशतानि
द्वाविंशति सहस्राणि हरगौर्य्योश्च तन्त्रके ।तथा विंशतिः श्लोकास्तन्त्रेऽस्मिन् परि-कीर्त्तिताः ।अर्कसंख्यासहस्राति द्बितीये तन्त्रवेदिभिः ।अष्टाविंशतिश्च श्लोकाः सङ्ख्यातास्तन्त्रनिर्णये
कुब्जिकाख्ये महातन्त्रे श्लोकाश्च दशसंख्यया ।सहस्राणि तथा सप्तसङ्ख्यातानि मनीषिभिः
द्वितीये षट्सहस्राणि तदर्द्धञ्च कनिष्ठके ।अर्कसंख्यासहस्राणि तथाङ्कुशशतानि
तावद्देव्या महातन्त्रे सङ्ख्यातानि द्बिजोत्तमैः ।द्बाविंशतिसहस्राणि द्बाविंशतिशतानि
कात्यायन्यास्तु तन्त्रस्य सङ्ख्यातानि मनीषिभिः ।वसुश्लोकसहस्राणि तावन्त्येव शतानि
प्रत्यङ्गिंरायास्तन्त्रे निश्चितानि यथार्थतः ।भूतसङ्ख्यासहस्राणि तथाहि तच्छतानि
महालक्ष्म्यास्तन्त्रराजे पञ्चश्लोकाश्च कीर्त्तिताः ।गजसंख्यासहस्राणि श्लोकाश्च ऋतुसङ्ख्यया
त्रिपुरार्णवे महातन्त्रे लिखिताः परमर्षिभिः ।सरस्वत्याः सहस्रे द्वे द्वे शते सङ्ख्यया स्मृते
पञ्चश्लोकास्तथैवात्र विज्ञातव्या द्विजातिभिः ।द्वाविंशतिसहस्राणि आद्ये तन्त्रोत्तमोत्तरे
अङ्कसङ्ख्याशतान्यत्र श्लोकाः पञ्चदशैव तु ।द्बाविंशतिसहस्राणि तथा बाणशतानि ।द्बात्रिंशच्च तथा श्लोका योगिन्यास्तन्त्रराजके ।द्बितीये षट्सहस्राणि तथा त्रिशतानि
त्रयः श्लोकास्तथैवात्र वाराह्यास्तन्त्र उत्तमे ।ऊर्म्मिसङ्ख्यासहस्राणि तत्त्वसङ्ख्याशतानि
गवाक्षे तन्त्रराजेऽस्मिन् श्लोका हि तत्त्वसङ्ख्यया ।वर्णसङ्ख्यासहस्राणि द्वे शते परिनिश्चिते
श्लोकास्त्रयश्च सङ्ख्यातास्तन्त्रे नारायणीयके ।वेदसङ्ख्यासहस्राणि तान्येव शतानि
श्लोका नवतिसङ्ख्याता मृडानीतन्त्रराजके ।तृतीये त्रिसहस्राणि त्रिशतानि कनिष्ठके
त्रिंशत्श्लोकाश्च सङ्ख्याता ज्ञातव्यास्तन्त्र-वेदिभिः
”उपतन्त्राणि यथा, --“बौद्धोक्तान्युपतन्त्राणि कापिलोक्तानि यानि ।अद्भुतानि एतानि जैमिन्युक्तानि यानि
वशिष्ठः कपिलश्चैव नारदो गर्ग एव ।पुलस्त्यो भार्गवः सिद्धो याज्ञवल्क्यो भृगुस्तथा
शुक्रो बृहस्पतिश्चैव अन्ये ये मुनिसत्तमाः ।एभिः प्रणीतान्यन्यानि उपतन्त्राणि यानि
सङ्ख्यातानि तान्यत्र धर्म्मविद्भिर्म्महात्मभिः ।सारात्सारतराण्येव सङ्ख्यातानि निबोधत
”इति वाराहीतन्त्रम् ।(आगमतत्त्वविलासोक्ततन्त्रनामानि यथा, --“स्वतन्त्रतन्त्रं फेत्कारीतन्त्रमुत्तरतन्त्रकम् ।नीलतन्त्रं वीरतन्त्रं कुमारीतन्त्रमुज्ज्वलम्
कालीनारायणीतन्त्रे तारिणीतन्त्रमुत्तमम् ।बालातन्त्रञ्च समयातन्त्रं भैरवतन्त्रकम्
भैरवीत्रिपुरातन्त्रे वामकेश्वरतन्त्रकम् ।कुक्कुटेश्वरतन्त्रञ्च मातृकातन्त्रमेव
सनत्कुमारतन्त्रञ्च विशुद्धेश्वरतन्त्रकम् ।सम्मोहनाख्यतन्त्रञ्च गौतमीयञ्च तन्त्रकम्
बृहद्गोतमीयतन्त्रं भूतभैरवतन्त्रकम्चामुण्डापिङ्गलातन्त्रे वाराहीतन्त्रकं तथा
मुण्डमालाख्यतन्त्रञ्च योगिनीतन्त्रमुत्तमम् ।मालिनीविजयं तन्त्रं तन्त्रं स्वच्छन्दभैरवम्
महातन्त्रं शक्तितन्त्रं तन्त्रं चिन्तामणिं परम् ।उन्मत्तभैरवं तन्त्रं त्रैलोक्यसारतन्त्रकम्
विश्वसाराह्वयं तन्त्रं तथा तन्त्रामृताभिधम् ।महाफेत्कारीयतन्त्रं वायवीयञ्च तोडलम्
मालिनीललितातन्त्रे त्रिशक्तितन्त्रकं तथा ।राजराजेश्वरीतन्त्रं महामोहस्वरोत्तरम्
गवाक्षतन्त्रं गान्धर्व्वं तन्त्रं त्रैलोक्यमोहनम् ।हंसमाहेश्वरं हंसपरमेश्वरतन्त्रकम्
कामधेन्वाख्यतन्त्रञ्च तन्त्रं वर्णविलासकम् ।मायातन्त्रं मन्त्रराजं कुब्जिकातन्त्रमुत्तमम्
विज्ञानलतिकां लिङ्गागमं कालोत्तरं तथा
”* * * *“ब्रह्मजामलकञ्चादिजामलं रुद्रजामलम्
बृहज्जामलकं सिद्धजामलं कल्पसूत्रकम् ।मत्स्यसूक्तं कल्पसूक्तं कामराजं शिवागमम्
उड्डीशञ्च कुलोड्डीशमुड्डीशं वीरभद्रकम् ।भूतडामरकं तद्बत् डामरं यक्षडामरम्
कालिकाकुलसर्व्वस्वं कुलसर्व्वस्वमेव ।कुलचूडामणिं दिव्यं कुलसारं कुलार्णवम्
कुलामृतकुलावल्यौ तथा कालीकुलार्णवम् ।कुलप्रकाशं वाशिष्ठं सिद्धसारस्वतं तथा
योगिनीहृदयं कालीहृदयं मातृकार्णवम् ।योगिनीजालकुरकं तथा लक्ष्मीकुलार्णवम्
तारार्णवं चन्द्रपीठं मेरुचन्द्रं चतुःशतीम् ।तत्त्वबोधं महोग्रञ्च स्वच्छन्दसारसंग्रहम्
ताराप्रदीपं सङ्केतचन्द्रोदयमतिस्फुटम् ।षट्त्रिंशत्तत्त्वकं लक्ष्यनिर्णयं त्रिपुरार्णवम्
विष्णुधर्म्मोत्तरं मन्त्रदर्पणं वैष्णवामृतम् ।मानसोल्लासकं पूजाप्रदीपं भक्तिमञ्जरीम्
भुवनेश्वरीं पारिजात प्रयोगसारमुत्तमम् ।कामरत्नं क्रियासारं तथैवागमदीपिकाम्
भावचूडामणिग्रन्थं तन्त्रचूडामणिं परम् ।बृहच्छ्रीक्रमसंज्ञञ्च तथा श्रीक्रमसंज्ञकम्
सिद्धान्तशेखरं ग्रन्थं तां गणेशविमर्शिनीम् ।मन्त्रमुक्तावलीं तत्त्वकौमुदीं तन्त्रकौमुदीम्
मन्त्रतन्त्रप्रकाशाख्यं श्रीरामार्च्चनचन्द्रिकाम् ।शारदातिलकं ज्ञानार्णवं सारसमुच्चयम्
कल्पद्रुमं ज्ञानमालां पुरश्चरणचन्द्रिकाम् ।आगमोत्तरकं तत्त्वसागरं सारसंग्रहम्
देवप्रकाशिनीं तन्त्रार्णवञ्च क्रमदीपिकाम् ।तारारहस्यं श्यामाया रहस्यं तन्त्ररत्नकम्
तन्त्रप्रदीपं ताराया विलासं विश्वमातृकाम् ।प्रपञ्चसारं तं तन्त्रसारं रत्नावलीं तथा
”कालतन्त्रम् वासनाजालम् यथा, महा-भारते १४२ ।“तन्त्रञ्चेदं विश्वरूपे युवत्यौवयतस्तन्तून् सततं वर्त्तयन्तौ
”“तन्त्रं कालतन्त्रं विश्वोपादाननिमित्तादिकारण-समूहसम्बन्धम्
इति दुर्घटार्थप्रकाशिन्यांविमलबोधः
“इह तन्त्रं वासनाजालम् ।”इति नीलकण्ठः
)