| YouTube Channel

तन्तुपर्वन् (tantuparvan)

 
शब्दसागरः
English
तन्तुपर्व्वन्
n.
(-र्व्व) The full moon of Sravana, when KRISHNA is invested
with the Brahmanical cord.
E.
तन्तु, and पर्व्वन् a festival.
Yates
English
तन्तु-पर्व्वन् (र्व्व) 5.
n.
Full-moon of
Shrāvana, when
Krishna is in-
vested with a
brāhmanical cord.
Wilson
English
तन्तुपर्व्वन्
n.
(-र्व्व) The full moon of Śrāvaṇa, when KṚṢṆA
is invested with the Brahmanical cord.
E.
तन्तु, and पर्व्वन् a festival.
Monier Williams Cologne
English
तन्तु—पर्वन्
n.
‘thread-festival’, the day of full moon in month Śrāvaṇa (anniversary of Kṛṣṇa's investment with the Brāhmanical cord),
Tithyād.
Shabdartha Kaustubha
Kannada
तन्तुपर्वन्
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಉಪಾಕರ್ಮ /ಶ್ರಾವಣಮಾಸದ ಹುಣ್ಣಿಮೆ
व्युत्पत्तिः - > तन्तोः यज्ञोपवीतस्य दानरूपं पर्वं यत्र
वाचस्पत्यम्
Sanskrit
तन्तुपर्वन्
न०
तन्तोः यज्ञोपवीतसूत्रस्य दानरूपं पर्व यत्र ।चान्द्रश्रावणपौर्णमास्याम् तद्दिने हि वामनाय यज्ञोप-वीतदानोत्सवः स्मृतौ विहितः राघवभट्टधृतनारसिंहवचनम् “शिष्यस्त्रिजन्मदिवसे संक्रान्तौ विषुवायने ।सत्तीर्थेऽर्कविधुग्रासे तन्तुदामनपर्वणोः मन्त्रदीक्षांप्रकुर्वाणो मासर्क्षादीन्न शोघयेत्” तन्तुपर्व परमेश्वरोप-वीतदानतिथिः श्रावणी पूर्णिमा” रघुनन्दनः ।इयं तिथिः रक्षासूत्रबन्धरूपोत्सवदिनत्वात्तथेत्यपि तथाच तस्यां रक्षासूत्रबन्धनप्रकारः निर्णयसि० दर्शितो यथा“अत्रैव रक्षाबन्धनमुक्तं हेमाद्रौ भविष्ये “संप्राप्ते श्रावण-स्यान्ते पौर्णमास्यां दिनोदये स्मानं कुर्वीत मतिमान् श्रुतिस्मृतिविधानतः उपाकर्मादिकं प्रोक्तमृषीणां चैव तर्पणम् ।शूद्राणां मन्द्ररहितं स्मानं दानं शस्यते उपाकर्मणिकर्तव्यमृषीणां चैव पूजनम् ततोऽपराह्णसमये रक्षापोट-लिकां शुभाम् कारयेदक्षतैः शस्तैः सिद्धार्थैर्हेमभूषितै-रिति” अत्रोपाकर्मानन्तर्यस्य पूर्णमासीतिथौ वार्षिकस्यानु-वादो तु विधिः गौरवात् प्रयोगविधिभेदे क्रमायोगाच्छूद्रादौ तदयोगाच्च तेन परेद्युरुपाकरणे पूर्वेद्युरपराह्णेतत्करणं सिद्धम् इदं भद्रायां कार्यम् “भद्रायां द्वे नकर्त्तव्ये श्रावणी फाल्गुनी तथा श्रावणी नृपतिं हन्तिग्रामं दहति फाल्गुनीति” संग्रहोक्तेः तत्सत्त्वे तु रात्रा-वपि तदन्ते कुर्य्यादिति निर्णयामृते इदं प्रतिपद्युतायां नकार्यम् “नन्दायादर्शने रक्षाबलिदानं दशासु भद्रायां गो-कुलक्रीडा देशनाशाय जायते” इति मदनरत्ने ब्रह्मवैवर्तात्भविष्ये “उपलिप्ते गृहमध्ये दत्तचतुष्के न्यसेत् कुम्भम् ।पीठेतत्रोपविशेद्राजामात्यैर्युतश्च सुमुहूर्ते तदनु पुरीधानृपते रक्षां बध्नीत मन्त्रेण” इदं रक्षाबन्धनं नियतका-लत्वात् भद्रावर्जं ग्रहणदिनेऽपि कार्यं होलिकावत् ।ग्रहसंक्रान्त्यादौ रक्षानिषेधाभावात् “सवेर्षामेव वर्णानांसूतकं राहुदर्शने” इति तत्कालीनकर्मपरमेव त्वन्यत्र ।अन्यथा होलिकायां का गतिः अतएव “नित्ये नैमित्तिकेजप्ये होमयज्ञक्रियासु उपाकर्मणि चोत्सर्गे ग्रहवेघोनविद्यते” इति नियतकालीने तदभाव इति दिक् उपाक-र्मणीति तद्दिनभिन्नपरं तत्रतन्निषेधादित्युक्तं प्राक मन्त्रस्तु“येन बद्धो बलीराजा दानवेन्द्रो महाबलः तेन त्वामपिबध्नामि रक्षे! मा चल मा चल” “ब्राह्मणैः क्षत्रियै-र्वैश्यैः शूद्रैरन्यैश्च मानवैः कर्तव्योरक्षणाचारो द्विजान्संपूज्य शक्तितः” इति