| YouTube Channel

तन्च (tanca)

 
शब्दकल्पद्रुमः
Sanskrit
तन्च, इतौ इति कविकल्पद्रुमः
(भ्वां-परं-सकं-सेट् ।) उ, तञ्चित्वा तक्त्रा इति दुर्गादासः
तन्च, सङ्कुचि इति कविकल्पद्रुमः
(रुधां-परं-अकं-सेट् ।) उ, तञ्चित्वा तक्त्रा ध, तनच्मि व्योम विस्तृतम् इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
तन्च गतौ
भ्वा०
पर०
सक०
सेट् तञ्चति अतञ्चीत् ततञ्चततचतुः तक्तः तच्यते उदित् तञ्चित्वा तक्त्वा
तन्च सङ्कोचे रुधा०
पर०
सक०
सेट् पाणिनीयगणे अन्जसाहचर्य्यादयं वेडेव वोपदेवगणे उदित्करणं प्रामादि-कम् किन्तु ऊदिदेव तनक्ति अतञ्चीत् अताङ्क्षीत् ।ततञ्च “तनच्मि व्योम विस्तृतम्” भट्टिः ।आ + आतञ्चनशब्दोक्तार्थेषु (दम्बलदेओया) “इन्द्रस्य त्वा भागंसोमेनातनच्मि” यजु० “उद्वाथातनक्ति प्राग्घुत-शेषेणेन्द्रस्यत्वेति” कात्या० श्रौ० २३ “तां दुग्धस्थालीमुत्त-रत उद्वास्य प्राग्घुतशेषेण पूर्वदिने कृताग्निहोत्रशेषेण दध्नादुग्धमातनक्ति अवशिष्टं दधि दुग्धमध्ये प्रक्षिपतिदधित्वसम्पत्त्यर्थम्” कर्कः भयहेतुकसङ्कोचे न्यङ्क्वा०कुत्वम् आतङ्कः आतङ्क्यम्