| YouTube Channel

तनूनपाद् (tanUnapAd)

 
शब्दसागरः
English
तनूनपाद्
m.
(-पाद् or पात्) Fire or its deity.
E.
तनूनप ghee, and अद् who
eats, from अद with विच् affix, or तनू the body, negative, and पा
to preserve,
deriv.
irr
. destroying other bodies, or consuming its
own support or fuel, and ceasing to be.
Yates
English
तनूनपा-द् (पात्) 5.
m.
Fire, its deity.
Wilson
English
तनूनपाद्
m.
(-पाद् or पात्) Fire or its deity.
E.
तनूनप ghee, and अद् who eats, from अद with विच् affix,
or तनू the body, negative, and पा to preserve,
deriv.
irr
.
destroying other bodies, or consuming its own support or fuel, and ceasing to
be.
Bopp
Latin
तनूनपाद् m. (e praec. et अद् edens) ignis. HIT. 55. 10.
(cf. हुतभुज्, हुताशन.)
अभिधानचिन्तामणिः
Sanskrit
--source--
वह्निर्बृहद्भानुहिरण्यरेतसौ धनंजयो हव्यहविर्हुताशनः
कृपीटयोनिर्दमुना विरोचनाशुशुक्षणी छागरथस्तनूनपात् १०९७
कृशानुवैश्वानरवीतिहोत्रा वृषाकपिः पावकचित्रभानू
अप्पित्तधूमध्वजकृष्णवर्त्मार्चिष्मच्छमीगर्भतमोघ्नशुक्राः १०९८
शोचिष्केशः शुचिहुतवहोषर्बुधाः सप्तमन्त्र-
ज्वालाजिह्वो ज्वलनशिखिनौ जागृविर्जातवेदाः
बर्हिःशुष्मानिलसखवसू रोहिताश्वाश्रयाशौ
बर्हिर्ज्योतिर्दहनबहुलौ हव्यवाहोऽनलोऽग्निः १०९९
विभावसुः सप्तोदर्चिः स्वाहाग्नेयी प्रियास्य
-wordlist-
वह्नि (पुं), बृहद्भानु (पुं), हिरण्यरेतस् (पुं), धनञ्जय (पुं), हव्याशन (पुं), हविराशन (पुं), हुताशन (पुं), कृपीटयोनि (पुं), दमुनस् (पुं), विरोचन (पुं), आशुशुक्षणि (पुं), छागरथ (पुं), तनूनपाद् (पुं), कृशानु (पुं), वैश्वानर (पुं), वीतिहोत्र (पुं), वृषाकपि (पुं), पावक (पुं), चित्रभानु (पुं), अप्पित्त (क्ली), धूमध्वज (पुं), कृष्णवर्त्मन् (पुं), अर्चिष्मत् (पुं), शमीगर्भ (पुं), तमोघ्न (पुं), शुक्र (पुं), शोचिष्केश (पुं), शुचि (पुं), हुतवह (पुं), उषर्बुध (पुं), सप्तजिह्व (पुं), मन्त्रजिह्व (पुं), ज्वालाजिह्व (पुं), ज्वलन (पुं), शिखिन् (पुं), जागृवि (पुं), जातवेदस् (पुं), बर्हिःशुष्मन् (पुं), अनिलसख (पुं), वसु (पुं), रोहिताश्व (पुं), आश्रयाश (पुं), बर्हिर्ज्योति (पुं), दहन (पुं), बहुल (पुं), हव्यवाह (पुं), अनल (पुं), अग्नि (पुं), विभावसु (पुं), सप्तार्चिस् (पुं), उदर्चिस् (पुं), स्वाहा (स्त्री), आग्नेयी (स्त्री)
अभिधानरत्नमाला
Sanskrit
सप्तार्चिस्
सप्तार्चिस्, बहुल, शिखिन्, हुतवह, वैश्वानर, अग्नि, वसु, वह्नि, वायुसख, सितेतरगति, स्वाहाप्रिय, पावक, अर्चिष्मत्, ज्वलन, कृशानु, अनल, धूमध्वज, हव्यवाह्, बर्हिर्ज्योतिस्, उषर्बुध, दहन, चित्रभानु, शुचि, कृपीटयोनि, दमुनस्, कृष्णवर्त्मन्, आशुशुक्षणि, विभावसु, अपांपित्त, जातवेदस्, तनूनपाद्, वीतिहोत्र, बृहद्भानु, आश्रयाश, धनञ्जय, हिरण्यरेतस्, तमोघ्न, रोहिताश्व, हुताशन
सप्तार्चिर्बहुलः शिखी हुतवहो वैश्वानरोऽग्निर्वसु-
र्वह्निर्वायुसखः सितेतरगतिः स्वाहाप्रियः पावकः
अर्चिष्मान् ज्वलनः कृशानुरनलो धूमध्वजो हव्यवाट्,
बर्हिर्ज्योतिरुषर्बुधश्च दहनः स्याच्चित्रभानुः शुचिः ६२
कृपीटयोनिर्दमुनाः कृष्णवर्त्माशुशुक्षणिः
विभावसुरपांपित्तं जातवेदास्तनूनपात् ६३
वीतिहोत्रो बृहद्भानुराश्रयाशो धनञ्जयः
हिरण्यरेतास्तमोघ्नो रोहिताश्वो हुताशनः ६४
verse 1.1.1.62
page 0009
वाचस्पत्यम्
Sanskrit
तनूनपात्(द्)
पु०
तनूं पातयति पत--णिच्--क्विप्नभ्राङित्यादिना नञोन नलोपः तनूनं पातिरक्षति पा--शतृ, तन्वा ऊनं कृशं पाति तनूनपंघृतं तदत्ति अद--क्विप् वा अग्न्रौ, जठरस्थित्याभुक्तान्नादिपाचनादस्य देहापातकत्वम् शतृपक्षे तनून-पान्तौ इत्यादि क्विप् पक्षे तनूनपादौ इत्यादि भेदः ।२ घृते
न०
त० प्रजापतिपौत्रे “नराशंसः प्रतिशूरोमि-मानस्तनूनपात् प्रतियज्ञय्य धाम” यजु० २० ३७ तनून-पात् तनोति विस्तारयति सृष्टिं तनूः प्रजापतिर्मरीचिस्तस्य नपात् पौत्रः कश्यपात्मज इत्यर्थः यद्वातनूं शरीरं पातयति रक्षति जाठराग्निरूपेणेतितनूनपात् अग्निः यद्वा तनोति भोगानिति तनूःगौस्तस्या नपात् पौत्रं घृतम् गोः पयो जायते पयस-आज्यमिति घृतं तनूनपाद्वा” वेददी० निरुक्ते अस्यनिरुक्तिर्दर्शिता यथा “तनूनपादाज्यं भवति नपादित्यन-नन्तरायाः प्रजाया नामघेयं भवति गौरत्रतनूरुच्यते तता अस्यां भोगास्तस्याः पयो जायते, पयसआज्यं जायते अग्निरिति शाकपूणिरापोऽत्र तन्वउच्यन्ते तता अन्तरिक्षे, ताभ्य ओषधिवनस्पतयो जा-यन्त ओषधिवनस्पतिभ्य एष जायते तस्यैषा भवति ।“तनूनपात् पथ ऋतस्य यानान् मध्वासमञ्जन्तस्वदयासुजिह्व” निरु० अग्न्युद्देश्यके प्रयाजभेदे ।तनूनपाद्यागश्च वसिष्ठशुनकात्रिवध्र्यश्वराजन्यभिन्नानांपयाजेषु द्वितीयः वसिष्ठादीनां तु नरांशमो द्वितीय इतिभेदः यथोक्तं आश्व० श्रौ० “प्रयाजैश्चरन्ति” “पञ्चैतेभवन्ति” पञ्चवचनं नरांशसः तनूनपाद्वा द्व्यमुष्यायण-स्यापि पञ्चैव भवन्ति षडेत्येवमर्थम् एत इति वचनम्अत्र पठिता एवैते तनूनपान्नराशंसयोरन्यतरेण सह पञ्चभवन्ति नापठितेन सहेत्येवमर्थम्” नारा० ये यजामहेइत्युपक्रमे “समिधः अग्न आज्यस्य व्यन्तु वौ३ष-डिति वषट्कारः १५ सू० “इति प्रथमः” १६ सू० ।“त्ययं प्रथमः प्रयाजः” नारा० “तनूनपादग्न आज्यस्येतिवेत्विति द्वितीयोऽन्यत्र वसिष्ठशुनकात्रिवध्र्यश्वराजन्येभ्यः” ।२१ सू० “नरांशंसी अग्न आज्यस्य वेत्विति तेषाम्” २२ ।सू० “वसिष्ठादीनामयं द्वितीयः” नारा० “इडो अग्न आ-ज्यस्य व्यन्त्विति तृतीयः” २३ सू० “सर्वेषामिति शेषः”नारा० “वर्हिरग्न आज्यस्य वेत्विति चतुर्थ आगूर्य्य पञ्चमेस्वाहाऽमुं स्वाहासुमिति” २४ सू० इत्यादि वसिष्ठादिभि-न्नानां समिद्यागतनूनपाद्यागः इडोयागः बहिर्यागः स्वा-हाकारयाग इत्येते पञ्चैव प्रयाजा इत्यवधेयम् वसि-ष्ठादीनां तनूनपात्स्थाने नरांशस इति भेदः अतएवश्रुतौ “समिधो यजति तनूनपातं यजति इडोयजति बर्हिर्यजतिं स्वाहाकारं यजतीत्येव पञ्च पठिताःवसिष्ठादिभिन्नषरतया व्यवस्याप्याः “बभार वाष्पैर्द्विगुणीकृतं तनूस्तनूनपाद् धूमवितानमाधिजाः” माघः “तनूंन पातयति जाठररूपेण धारयतीति” मल्लि०