| YouTube Channel

तदादितदन्तन्याय (tadAditadantanyAya)

 
Apte
English
तदादितदन्तन्यायः [tadāditadantanyāyḥ], The rule according to which when an उत्कर्ष of a detail is laid down what is meant is that one should have उत्कर्ष not of that particular detail alone but of all the details beginning with that detail. In the case of अपकर्ष, however, there will be अपकर्ष not of that particular detail alone, but of all the details ending with it
तदादि उत्कर्षे तदन्तमपकर्षे गम्येत SB. on MS.* 5.1.24.
Apte Hindi
Hindi
तदादितदन्तन्यायः
पुं*
- -
मीमांसा का एक नियम जिसके अनुसार उत्कर्ष की उक्ति में आरम्भ से लेकर वह सब विवरण सम्मिलित होता है जिसके लिए वह दिया जाता है और साथ ही अपकर्ष की उक्ति अन्त तक उस सभी विवरण पर लागू है जिसके लिए वह दिया जाता है
वाचस्पत्यम्
Sanskrit
तदादितदन्तन्याय
पु०
न्यायभेदे अन्तभूतस्य कर्त्तव्यत्वे शा-स्त्रतः प्राप्ते आदिभूतस्योत्कर्षेण विधानबोधके न्यायभेदे ।स न्यायः जैमि० पञ्चमस्य प्रथमे पादे दर्शितो यथा ।अग्नीषोमीयपशौ श्रूयते “तिष्ठन्तं पशुं प्रयजन्तीति” ।अत्र प्रकृतौ पशुमारणानन्तरं हविष्यासादितेपश्चात् प्रयाजादय इज्यन्ते इति विकृताविहापि पशु-मारणानन्तरं हविष्यासादिते प्रयाजाः प्राप्ताः ते चतिष्ठन्तमिति वचनात् जीवत्येव पशौ अपकृष्यन्ते ।तथा सवनीयपशौ अनुयाजानामुत्कर्षः श्रूयते यथा अग्नि-लाभादूर्द्ध्वमनुयाजेश्चरन्तीति अत्र संशयः प्रयाजमा-त्रस्योत्कर्षः प्रयाजाद्यङ्गकलापस्यापकर्षः अनुयाजाद्य-ङ्गकलापस्योत्कर्षो वा इति श्रुतयोरेव प्रयाजानुया-जयोरपकर्षोत्कर्षौ नतु तदाद्यन्तकलापयोस्तदङ्गप्रयाजापूर्वभाविनामाघारसामधेन्यादीनां तदाद्यपकर्षेऽत्यन्तव्यव-हितत्वेन प्रधानकालीनत्वं स्यात् प्रयाजमात्रापकर्षे तुभासते तादृशश्च धर्मस्तद्व्यक्तित्वादिरूप एव अपूर्वव्यक्ति-निष्ठ तादृशधर्मस्य विशेष्य ज्ञातुमशक्यत्वेऽपि एकमात्रवृत्ति-मत्वं स्यात् एवमनुयाजमात्रोत्कर्षे तदूर्द्ध्वभाविनां सूक्त-वाकसम्प्रवाकादीनामुत्कर्षात् प्रधानसन्निधिर्न विलुप्यतेतस्मात् प्रयाजमात्रस्योत्कर्षः तथा सूत्रम् “अङ्गानांमुख्यकालत्वात् यथोक्तमुत्कर्षः स्यात्” अङ्गानां मुख्य-कालकर्त्तव्यत्वानुरोधात् यथोक्तस्यानुयाजमात्रस्योत्कर्षइति प्राप्ते ब्रूमः प्रकृतियागे सक्रमपदार्थानुष्ठानस्यकॢप्तत्वात् विकृतावपि सक्रमाणां पदार्थानामतिदेशात्क्रमरूपाङ्गवाधस्यान्याय्यत्वात् उत्तरकालकर्त्तव्यकर्मपदा-र्थस्यानुपस्थित्यानुष्ठानविलोपापत्तेः तदुक्तम् पूर्वेणीप-स्थितं कार्य्यमुत्तरं कर्मचोदनात् प्राप्तं तदन्यथाभावे क्रमलोपाद्विलुप्यते” तस्मात् प्रयाजापकर्षे तदङ्गकलापस्यापकर्षः, अनुयाजोत्कर्षे तदाद्यङ्गकलापस्योत्-कर्ष”, इति तत्त्वबौ० अनया दिशा मासिकानांसक्रमाणां करणे उत्कर्षापकर्षौ कल्पनीयौ