| YouTube Channel

तदात्मन् (tadAtman)

 
Capeller Eng
English
तदात्मन्
a.
having that nature.
वाचस्पत्यम्
Sanskrit
तदात्मन्
पु०
आत्मा यस्य तत्स्वरूपे तदभिन्ने ।तस्य भावः ष्यञ् तादात्म्य अभेदे “क्रमिकं यन्नाम-युगमेकार्थेऽन्यार्थवोधकम् तादात्म्येन भवेदेषः समासःकर्मधारयः” शब्द० प्र० ।“अभेदस्तादात्म्य तच्च स्ववृत्त्यसाधारणो धर्मः ।असाघारणत्वं चैकमात्रवृत्तित्वम् एकमात्रवृत्तित्वञ्चस्वमामानाधिकरण्यस्वप्रतियोगिवृत्तित्वोभयसम्बन्धेन भेद-विशिष्टं यत्तदन्यत्वम् इत्येकमात्रवृत्तिधर्म एव विशेषण-विभक्त्यर्थः वृत्तिश्च तत्र प्रकृत्यर्थस्य संसर्गमर्य्यादयाआघारादीनां मुख्यकालीनत्वं स्यात् एवमनुयाजमात्र-स्योत्कर्षे तदूर्द्ध्वभाविनां सूक्तवाकसंवाकादीनां मुख्यकाली-धर्मत्वादिना सामान्यप्रत्यासत्त्या सुज्ञेयत्वमेव अभेदस्यसंसर्गतामतेप्येतादृशानुगतभेदस्यैव तथात्वमुचितम् तत्त-द्व्यक्तित्वावच्छिन्नभेदाभावकूटस्य विशेष्य तथात्वे घटोन नील इत्यादि वाक्यजन्यबोधे प्रतियोग्यभावान्वयी-तुल्ययोगक्षेमावितिन्यायेन तादृशानुगतसम्बन्धावच्छिन्न-प्रतियोगिताकाभावा एव भासेरन् नीलादिवृत्तिप्रति-योगिताकैकैकाभावः तथा सति तादृशैकैकावभाव तात्प-पर्य्येण प्रयुक्तस्य नीलोपि नील इति वाक्यस्यप्रामाण्य स्यात्” व्युत्प० गदा० “सत्यैक्ये मिथोभेदस्ता-दात्मम् तच्च तत्सत्तातिरिक्तसत्ताकत्वाभावः” वेदा० प०“तदात्मनोपि निषिध्यमानत्वे तन्निषेधात्मके तदात्मनिजगत्प्रवेशात् हि घटः पटात्मेत्यनेन घटस्वरू-पादन्यस्तदात्मा विहितः स्यात् यदि तु तादात्म्यं नामा-भेदाख्यो धर्मः कश्चिदिष्यते घटपटद्यधिकरणतयानिषिध्यते तदा संसर्गाभाव एव स्यात् तस्मान्निर्विशेषणतदात्मान्तर्भूतं जगदिति कोट्यन्तराभाव इति” श्रीह-र्षखण्डने अन्योन्याभावखण्डने उक्तम्