| YouTube Channel

तदनार्षम् (tadanArSam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“लु2न्च अपनयने”@} 3 4 “केचिदमुमुदितं पठन्ति, तदनार्षम्
राजदन्तादिषु 5 ‘मृष्टलुचितम्’ इति पाठात्” इति मा।
धा।
वृत्तिः।
अयं भावः--उदित्त्वेन क्त्वायामिड्विक- ल्पनात् ‘यस्य विभाषा’ 6 इति निष्ठायामिण्निषेधः स्यात् इति।]] 7 लुञ्चकः-ञ्चिका, लुञ्चकः-ञ्चिका, लुलुञ्चिषकः-षिका, लोलुचकः-चिका
लुञ्चिता-त्री, लुञ्चयिता-त्री, लुलुञ्चिषिता-त्री, लोलुचिता-त्री
8 लुञ्चन्-न्ती, लुञ्चयन्-न्ती, लुलुञ्चिषन्-न्ती
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिक- कुञ्चतिवत् 9 ज्ञेयानि।
लुञ्चितम्, 10 लुञ्चित्वा-लुचित्वा, इमानि रूपाण्यधि- कानीति विशेषः।
क्विपि-लुक्-लुञ्चौ-लुञ्चः
ण्यन्तात् तु लुन्-लुञ्चौ-लुञ्चः
इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१५०९)
02
=>
[ञ्च]
03
=>
(१-भ्वादिः-१८७। सक। सेट्। पर।)
04
=>
[[[अ]
05
=>
(२-२-३१)
06
=>
(७-२-१५)
07
=>
[पृष्ठम्११७३+ २५]
08
=>
[[आ। ‘चुकोच यत्रोत्कुचिताङ्गमुन्मुदः क्रौञ्चोऽपि लुञ्चन् हृदि सम्यगार्तताम्।।’ धा। का। १-२५।]]
09
=>
(२२२)
10
=>
[[१। क्त्वायाम् ‘वञ्चिलुञ्च्युतश्च’ (१-२-२४) इति कित्त्वविकल्पनात् पक्षे नलोपे रूपद्वयम् इति ज्ञेयम्।]]
1 {@“शूष प्रसवे”@} 2 ‘षूष प्रसवे’ इति क्षीरस्वामि-मैत्रेयौ।
तालव्यादिरिति चरकः।
शूषा शाकम्’ इति तरङ्गिण्यामुक्तम्।
‘शूषम् = बलम्’ इति ऋग्वेदे 3।
‘प्रसवः चानुज्ञा 4’ इति धा।
का।
व्याख्या 5।
उत्पादनमपि प्रसवः इति तत्रोक्तम्।
‘तालव्योष्मादिरिति पारायणिकाः इति स्वामी’ इति धातुवृत्तौ उद्धृतम्।
अयं पाठस्तरङ्गिण्याम् अक्षरशः नोपल- भ्यते।
“तैत्तिरीयके-- ‘सक्षशूष--’ इति।
केचित् दन्त्यादिं पठन्ति।
तदनार्षम्
षोपदेशलक्षणविरोधात्।” इति माधवः।
शूषकः-षिका, शूषकः-षिका, शुशूषिषकः-षिका, शोशूषकः-षिका
शूषिता-त्री, शूषयिता-त्री, शुशूषिषिता-त्री, शोशूषिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकचूषतिवत् 6 ऊह्यानि।
शतरि 7 शूषन्।
प्रासङ्गिक्यः
01
=>
(१७४७)
02
=>
(१-भ्वादिः-६७९। सक। सेट्। पर।)
03
=>
(१-९-१०)
04
=>
(अभ्यनुज्ञा)
05
=>
(१-८६)
06
=>
(५५२)
07
=>
[[आ। ‘शूषन् दृशोरमृतयूषमजूषकस्त्वं…।।’ धा। का। १-८६।]]
1 {@“स्तूप समुच्छ्राये”@} 2 धातुरयं क्षीरतरङ्गिण्यां पठितः।
‘स्तूप इति कातन्त्राः
अन्ये केचन वैयाकरणाः’ इति काशकृत्स्नीये।
धातुवृत्तौ ‘डिप क्षेपे’ इत्यत्र “इह क्वचित् ‘स्तूप--’ इति पठ्यते।
तदनार्षम्
‘स्त्यः प्रसारणमुच्च’ इति स्त्यायतेः पप्रत्यये यकारस्य उकारे संप्रसारणे दीर्घे स्तूपशब्दव्युत्पादिनात्।
अत एव आत्रेयमैत्रेयादयोऽपि पठन्ति।” इत्युक्तमिहानुसन्धेयम्।
‘स्तुप--’ इति दुर्गः इति तरङ्गिण्याम्।
सर्वाण्यपि रूपाणि कूजतिवत् 3 ऊह्यानि।
प्रासङ्गिक्यः
01
=>
(१९३४)
02
=>
(४-दिवादिः-१२३३। अक। सेट्। पर।)
03
=>
(२३९)