| YouTube Channel

तत्वं (tatvaM)

 
शब्दकल्पद्रुमः
Sanskrit
त(त्व)त्त्वं,
क्ली,
(तनोति सर्व्वमिदमिति तन् +क्विप् तुक् पृषोदरादित्वात् साधुः यद्बा, “सर्व्वं खल्विदं ब्रह्म ।” “ब्रह्मैवेदं सर्व्वम् ।”इति श्रुतेस्तस्य ब्रह्मणो भावः इति तत् + त्व ।)स्वरूपम् परमात्मा विलम्बितनृत्यम् इतिमेदिनी वे,
वाद्यप्रभेदः इति विश्वः
वस्तु ।इति त्रिकाण्डशेषः
चेतः इति धरणिः
*
चतुर्व्विंशतितत्त्वानि यथा क्षितिः आपः २तेजः मरुत् व्योम गन्धः रसः रूपम् ८स्पर्शः शब्दः १० नेत्रम् ११ नासिका १२जिह्वा १३ कर्णः १४ त्वक् १५ हस्तः १६ पादः १७मुखम् १८ पायुः १९ लिङ्गम् २० प्रकृतिः २१मनः २२ बुद्धिः २३ अहङ्कारः २४ इति पुराण-तन्त्रे
तत्तु नानामुनिभिर्न्नानाविधमुक्तम् तत्रत्रीणि तत्त्वानि यथा सत्वम् रजः तमः ।चतुर्व्विधानि यथा तेजः आपः पृथ्वी ३आत्मा पञ्चविधानि यथा शब्दः स्पर्शः २रसः गन्धः रूपम् षड्विधानि यथा ।क्षितिः आपः तेजः वायुः आकाशम् ५परमात्मा सप्तविधानि यथा क्षितिः १आपः तेजः वायुः आकाशम् जीवः ६आत्मा नवविधानि यथा पुरुषः १प्रकृतिः महत्तत्त्वम् अहङ्कारः नभः ५वायुः ज्योतिः आपः क्षितिः ।एकादशविधानि यथा श्रोत्रम् त्वक् २चक्षुः घ्राणम् जिह्वा वाक् पाणिः ७उपस्थः पायुः अङ्घ्रिः १० मनः ११ ।त्रयोदशविधानि यथा नभः वायुः ज्योतिः३ आपः क्षितिः श्रोत्रम् त्वक् चक्षुः८ घ्राणम् जिह्वा १० मनः ११ जीवात्मा१२ परमात्मा १३ षोडशविधानि यथा ।नभः वायुः ज्योतिः आपः पृथ्वी ५शब्दः स्पर्शः रूपम् रसः गन्धः १०श्रोत्रम् ११ त्वक् १२ चक्षुः १३ जिह्वा १४घ्नाणम् १५ मनः १६ सप्तदशविधानि यथा ।पूर्व्वोक्तानि षोडश १६ आत्मा १७ पञ्च-विंशतितत्त्वाति यथा पूर्व्वोक्तानि सप्तदश १७पुरुषः १८ प्रकृतिः १९ महान् २० अहङ्कारः२१ मुखम् २२ पाणिः २३ उपस्थः २४ पायुः२५ षड्विंशतिविधानि यथा पूर्व्वोक्तानिपञ्चविंशतिः २५ जीवः २६ सप्तविंशति-विधानि यथा पूर्व्वोक्तानि षड्विंशतिः २६ईश्वरः २७ इति श्रीभागवतम्