| YouTube Channel

तत्पदार्थः (tatpadArthaH)

 
वाचस्पत्यम्
Sanskrit
तत्पदार्थः
पु०
तत्त्वमस्यादिवाक्यस्थस्य तत्पदस्यार्थः जगत्कारणे परमात्मनि “यत् जगत्कारणं तत्त्वं तत्-पदार्थः उच्यते” एवं तत्पदार्थो निरूपितः इदानींत्वंपदार्थो निरूप्यते” वेदान्तसा० तत्पदत्वंपदवाच्य-योर्विरोधेनाभेदाभावेऽपि लक्ष्यार्थयोर्यथाऽभेदस्तथाविवेकचू० न्यरूपि यथा“तत्त्वम्पदाभ्यामभिधीयमानयोर्ब्रह्मात्मनोः शोधितयोर्यदीत्थम् श्रुत्या तयोस्तत्त्वमसीति सम्यक् एकत्वमेव प्रति-पाद्यते मुहुः ऐक्यं तयोर्लक्षितयोर्न वाच्ययोर्निग-द्यतेऽन्योऽन्यविरुद्धधर्मिणोः खद्योतभान्वोरिव राज-भृत्ययोः कूपाम्बुराश्योः परमाणुमेर्व्वोः तयोर्विरो-धोऽयमुपाधिकल्पितो वास्तवः कश्चिदुपाधिरेषः ।ईशस्य माया महदादिकारणं जीवस्य कार्य्यं शृणुपञ्चकोषम् एतावुपाधी परजीवयोस्तयोः सम्यग्निरासेन परो जीवः राज्यं नरेन्द्रस्य भटस्य खेटकस्तयो-रपोहे भटी राजा अथात आदेश इति श्रुतिःस्वयं निषेधति ब्रह्मणि कल्पितद्वयम् श्रुतिप्रमाणानु-गृहीतबोधात्तयोर्निरासः करणीय एवम् नेदं नेदंकल्पितत्वान्न सत्यं रज्जुर्दृष्टा व्यालवत् स्वप्नवच्च इत्थंदृश्यं साधु युक्त्या व्यपोह्य ज्ञेयः पश्चादेकभावस्तयोर्यः ।ततस्तु तौ लक्षणया सुलक्ष्यौ तयोरखण्डैकरसत्वसिद्धये ।नालं जहत्या, तथाऽजहत्या, किन्तूभयार्थात्मिकयैवभाव्यम् देवदत्तोऽयमितीह चैकता विरुद्धधर्भांश-मपास्य कथ्यते यथा, तथा तत्त्वमसीतिवाक्ये विरुद्ध-धर्मानुभयत्र हित्वा संलक्ष्यचिन्मात्रतया सदात्मनो-रखण्डभावः परिचीयते बुधैः”