| YouTube Channel

तत्त्वन्यासः (tattvanyAsaH)

 
Apte Hindi
Hindi
तत्त्वन्यासः
पुं*
तत्त्वम्-न्यासः -
विष्णु की तन्त्रोक्त पूजा में विहित एक अंगन्यास
शब्दकल्पद्रुमः
Sanskrit
तत्त्वन्यासः,
पुं,
(तत्त्वानां न्यासः ।) विष्णुपूजा-विषयकन्यासविशेषः यथा, --“मादिकान्तानथार्णांश्च जीवाद्येकैकशो वदेत् ।नमः परायेत्युच्चार्य्य ततस्तत्त्वात्मने नमः
जीवं प्राणं द्बयं प्रोक्त्वा सर्व्वाङ्गेषु प्रविन्यसेत् ।ततो हृदयमध्ये तत्त्वत्रयञ्च विन्यसेत्
इत्यच्युतीकृततनुर्व्विदधीत तत्त्व-न्यासं मपूर्व्वकपराक्षरनत्युपेतम् ।भूयः पराय तदाह्वयमात्मने चनत्यन्तमुद्धरतु तत्त्वमनुक्रमेण
सकलवपुषि जीवं प्राणमायोज्य मध्येन्यसतु मतिमहङ्कारं मनश्चेति मन्त्री ।कमुखहृदयगुह्याङ्घ्रिष्वथोशब्दपूर्व्वंगुणगणमथ कर्णादिस्थितं श्रोत्रपूर्व्वम्
वागादीन्द्रियवर्गमात्मनिलये त्वाकाशपूर्व्वं गणंमूर्द्धास्ये हृदये शिरे चरणयोर्हृत्पुण्डरीकं हृदि
शं बीजं हृत्पुण्डरीकतत्त्वं हृदि प्रविन्यसेत् ।हं बीजं सूर्य्यमण्डलतत्त्वं हृदि प्रविन्यसेत्
सं बीजं चन्द्रमण्डलतत्त्वं तत्र प्रविन्यसेत् ।रं बीजं वह्निमण्डलतत्त्वं तत्रैव विन्यसेत्
षं बीजं परमेष्ठितत्त्वं वासुदेवञ्च मूर्द्धनि ।यं बीजमथ पुंस्तत्त्वं सङ्कर्षणमथो मुखे
लं बीजं विश्वतत्त्वञ्च प्रद्युम्नञ्च हृदि न्यसेत् ।वं बीजं निवृत्तितत्त्वञ्च अनिरुद्धमुपस्थके
लं बीजं सर्व्वतत्त्वञ्च पादे नारायणं न्यसेत् ।क्ष्रौं बीजं कोपतत्त्वञ्च नृसिंहं सर्व्वगात्रके
एवं तत्त्वानि विन्यस्य प्राणायामं समाचरेत्
”अस्य फलं यथा, --“तत्त्वन्यासं ततः कुर्य्यात् साधकः सिद्धिहेतवे ।कृतेन येन देवस्य रूपतामेव यात्यसौ
”इति गौतमीयतन्त्रम्