तत्त्वन्यास (tattvanyAsa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishApte Hindi
Hindiतत्त्वन्यासः
तत्त्वम्-न्यासः -
विष्णु की तन्त्रोक्त पूजा में विहित एक अंगन्यास
L R Vaidya
Englishशब्दकल्पद्रुमः
Sanskritतत्त्वन्यासः, (तत्त्वानां न्यासः ।) विष्णुपूजा-विषयकन्यासविशेषः । यथा, --“मादिकान्तानथार्णांश्च जीवाद्येकैकशो वदेत् ।नमः परायेत्युच्चार्य्य ततस्तत्त्वात्मने नमः ॥
जीवं प्राणं द्बयं प्रोक्त्वा सर्व्वाङ्गेषु प्रविन्यसेत् ।ततो हृदयमध्ये च तत्त्वत्रयञ्च विन्यसेत् ॥
इत्यच्युतीकृततनुर्व्विदधीत तत्त्व-न्यासं मपूर्व्वकपराक्षरनत्युपेतम् ।भूयः पराय च तदाह्वयमात्मने चनत्यन्तमुद्धरतु तत्त्वमनुक्रमेण ॥
सकलवपुषि जीवं प्राणमायोज्य मध्येन्यसतु मतिमहङ्कारं मनश्चेति मन्त्री ।कमुखहृदयगुह्याङ्घ्रिष्वथोशब्दपूर्व्वंगुणगणमथ कर्णादिस्थितं श्रोत्रपूर्व्वम् ॥
वागादीन्द्रियवर्गमात्मनिलये त्वाकाशपूर्व्वं गणंमूर्द्धास्ये हृदये शिरे चरणयोर्हृत्पुण्डरीकं हृदि ॥
शं बीजं हृत्पुण्डरीकतत्त्वं हृदि प्रविन्यसेत् ।हं बीजं सूर्य्यमण्डलतत्त्वं हृदि प्रविन्यसेत् ॥
सं बीजं चन्द्रमण्डलतत्त्वं तत्र प्रविन्यसेत् ।रं बीजं वह्निमण्डलतत्त्वं तत्रैव विन्यसेत् ॥
षं बीजं परमेष्ठितत्त्वं वासुदेवञ्च मूर्द्धनि ।यं बीजमथ पुंस्तत्त्वं सङ्कर्षणमथो मुखे ॥
लं बीजं विश्वतत्त्वञ्च प्रद्युम्नञ्च हृदि न्यसेत् ।वं बीजं निवृत्तितत्त्वञ्च अनिरुद्धमुपस्थके ॥
लं बीजं सर्व्वतत्त्वञ्च पादे नारायणं न्यसेत् ।क्ष्रौं बीजं कोपतत्त्वञ्च नृसिंहं सर्व्वगात्रके ॥
एवं तत्त्वानि विन्यस्य प्राणायामं समाचरेत् ॥
”अस्य फलं यथा, --“तत्त्वन्यासं ततः कुर्य्यात् साधकः सिद्धिहेतवे ।कृतेन येन देवस्य रूपतामेव यात्यसौ ॥
”इति गौतमीयतन्त्रम् ॥
वाचस्पत्यम्
Sanskritतत्त्वन्यास तन्त्रोक्ते विष्णुपूजाङ्गे न्यासभेदे तत्प्रकारस्त-न्त्रसारे यथा“मादिकान्तानथार्य्यांश्च जीवाद्येकैकशो वदेत् । नमःपरायेत्युच्चार्य्य ततस्तत्वात्मने नमः” इति गौतमीयवचनात् सर्वत्र तत्त्वपदपयोगः । यथा मं नमः परायजीवतत्त्वात्मने नमः । भं नमः पराय प्राणतत्वात्मनेनमः । एतदुभयं सर्वगात्रे । तथा च गौतमीये “जीवंप्राणं द्वयञ्चोक्त्वा सर्वाङ्गेषु प्रविन्यसेत् । ततो हृदयमध्येच तत्वत्रयञ्च विन्यसेत्” । वं नमः पराय मतितत्वात्मनेनमः । फं नमः परायाहङ्कारतत्वात्मने नमः । पं नमःपराय मनस्तत्वात्मने नमः । इति त्रयं हृदि । नं नमःपराय शब्दतत्वात्मने नमः मस्तके । धं नमः परायस्पर्शतत्वात्मने, नमः मुखे । दं नमः पराय रूपतत्वात्मनेनमः हृदि । थं नमः पराय रसतत्वात्मने नमःगुह्ये, तं नमः पराय गन्धतत्वात्मने नमः पादयोः । णंनमः पराय श्रोत्रतत्वात्मने नमः कर्णयोः । ढं नमःपराय त्वक्तत्वात्मने नमः त्वचि । डं नमः परायनेत्रतत्वात्मने नमः नेत्रयोः । ठं नमः पराय जिह्वा-तत्वात्मने नमः जिह्वायाम् । टं नमः पराय घ्राणतत्वा-त्मने नमः घ्राणयोः । जं नमः पराय वाक्तत्वात्मनेनमः वाचि । झं नमः पराय पाणितत्वात्मने नमःपाण्योः । जं नमः पराय पादतत्वात्मने नमः पादयोः ।छं नमः पराय पायुतत्वात्मने नमः गुह्ये । चं नमःपराय उपस्थतत्वात्मने नमः लिङ्गे । ङं नमः परायआकाशतत्वात्मने नमः मूर्ध्नि । घं नमः पराय वायुतत्वात्मने नमः मुखे । गं नमः पराय तेजस्तत्वात्मने नमःहृदि । खं नमः पराय जलतत्वात्मने नमः लिङ्गे ।कं नमः पराय पृथिवीतत्वात्मने नमः पादयोः । तथान्थासोऽभिहितः क्रमदीपिकायाम् । “इत्युच्युतीकृततनुर्वि-दघीत तत्वन्यासं मपूर्वकपराक्षरनत्युपेतम् । भूयः पराय चतदाह्वयमात्मने च नत्यन्तमुद्धरतु तत्वमनून् क्रमेण । सक-लवपुषि जीवं प्राणमायोज्य मध्ये न्यसतु मतिमहङ्कारतत्त्वं मनश्च । कमुखहृदयगुह्याङ्घ्रिष्वथो शब्दपू-र्वगुणगणमथ कर्णादिस्थितम् श्रीत्रपूर्वम् । वागादीन्द्रि-यवर्गमात्मनि नमेदाकाशपूर्वं गणं मूर्द्धास्ये हृदये शिवे(लिङ्गे) चरणयोः हृत्पुण्डरीके हृदि । शं नमः परायहृत्पुण्डरीकतत्वात्मने नमः हृदि । हं नमः पराय द्वादश-कलाव्याप्तसूर्य्यमण्डलतत्वात्मने नमः हृदि । सं नमःपराय षोडशकलाव्याप्तसोममण्डलतत्वात्मने नमः हृदि ।रं नमः पराय दशकलाव्याप्तवह्निमण्डलतत्वात्मने नमःहृदि । षं नमः पराय परमेष्ठितत्वात्मने वासुदेवायनमो मस्तके । यं नमः पराय पुरुषतत्वात्मने सङ्कर्ष-णाय नमो मुखे । लं नमः पराय विश्वतत्वात्मने प्रद्यु-म्नाय नमो हृदि । वं नमः पराय निवृत्तितत्वात्मनेऽनि-रुद्धाय नमो लिङ्गे । लं नमः पराय सर्वतत्वात्मनेनारायणाय नमः पादयोः । क्षं नमः पराय कोप-तत्वात्मने नृसिंहाय नमः सर्वगात्रे । हृत्पुण्डरीक-तत्वादीनां न्यास प्रमाणमाह तथा विम्बानि द्विषडष्टक-युग्युग्दशकलाव्याप्तानीति, । गौतमीये “शं वीजंहृत्पुण्डरीके च तत्वं हृदि प्रविन्यसेत् । हं वीजं सूर्य्य-मण्डलतत्वं हृदि प्रविन्यसेत् । सं वीजं चन्द्रमण्डलतत्वंतत्र प्रविन्यमेत् । रं वीजं वह्निमण्डलतत्वं तत्र प्रवि-न्यसेत् । षं वीजं परमेष्ठितत्वं वासुदेवञ्च मूर्द्धनि ।यं वीजमथ पुंस्तत्वं सङ्कर्षणमथोमुखे । लं वीजं विश्वतत्वञ्चप्रद्युम्नञ्च हृदि न्यसेत् । वं वीज निवृत्तितत्वञ्च अनि-रुद्धमुपन्यसेत् । लं वीजं सर्वतत्वञ्च पादे नारायणं न्यसेत् ।क्षं वीजं कोपतत्वञ्च नृसिंहं सर्वगात्रके । एवं तत्वानिविन्यस्य प्राणायामं समाचरेत्” अन्येऽपि तत्त्वन्यासाःश्रीविद्याताराकालीनामपि पूजाङ्गं तन्त्रसारोक्ता दृश्या
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
