| YouTube Channel

तत्त्वज्ञानार्थदर्शनम् (tattvajJAnArthadarzanam)

 
वाचस्पत्यम्
Sanskrit
तत्त्वज्ञानार्थदर्शनम्
न०
तत्त्वज्ञानस्याहंब्रह्मास्मीतिसाक्षात्कारस्य वेदान्तवाक्यकरणकस्यामानित्वा दसर्वसा-धनपरिपाकफलस्य अर्थः प्रयोजनमविद्यातत्कार्य्या-त्मकनिखिलदुःखनिवृत्तिरूपः परमानन्दावाप्तिरूपश्चमोक्षः तस्य दर्शनम् आलोचनम् तत्त्वज्ञानार्थे आलोचनेतत्त्वज्ञानफलालोचने हि तत् साधने प्रवृत्तिः स्यात्इति तदालोचनं मोक्षार्थतत्त्वज्ञानसाधनम्