| YouTube Channel

तण्डुलोदकं (taNDulodakaM)

 
शब्दकल्पद्रुमः
Sanskrit
तण्डुलोदकं,
क्ली,
(तण्डुलस्य तण्डुलक्षालनस्यउदकम् तण्डुलक्षालितं उदकं वा ।) तण्डु-लाम्बु यथा, वैद्यकपरिभाषायाम् ।“जलमष्टगुणं दत्त्वा पलं कण्डिततण्डुलात् ।भावयित्वा ततो देयं तण्डुलोदककर्म्मणि
”(अस्य गुणा यथा, --“सन्धानं शीतलं बल्यं महातिसारनाशनम् ।सुस्वादु शीतलञ्चैव बृंहणं तण्डुलोदकम्
”इति हारीते प्रथमे स्थानेऽष्टमेऽध्याये
)