| YouTube Channel

तण्डुलीयः (taNDulIyaH)

 
शब्दकल्पद्रुमः
Sanskrit
तण्डुलीयः,
पुं,
(तण्डुलाय हितः तण्डुल +“विभाषा हविरपूपादिभ्यः ।” ।इति छः ।) पत्रशाकविशेषः क्षुदियानटियाइति चाँपानटिया इति वङ्गभाषा चवराइइति अल्पमरुषा इति हिन्दी भाषा तत्-पर्य्यायः अल्पमारिषः इत्यमरः ।१३६
तण्डुलीकः तण्डुलः इति शब्द-रत्नावली
भण्डीरः तण्डली तण्डुलीयकः७ ग्रन्थिलः बहुवीर्य्यः मेघनादः १० घन-स्वनः ११ सुशाकः १२ पथ्यशाकः १३ स्फूर्जथुः १४स्वनिताह्वयः १५ वीरः १६ तण्डुलनामा १७ ।अस्य गुणाः शिशिरत्वम् मधुरत्वम् विष-पित्तदाहभ्रमनाशित्वम् रुचिकारित्वम् दीप-नत्वम् पथ्यत्वञ्च तद्दलगुणाः हिमत्वम् ।अर्शःपित्तरक्तविषकासविनाशित्वम् ग्राहक-त्वम् मधुरत्वम् विपाके दाहशोषशमनत्वम् ।रुचिदातृत्वञ्च इति राजनिर्घण्टः
विड-ङ्गम् ताप्यम् इति मेदिनी ये, ११९
अस्य पर्य्यायगुणाः ।“तण्डुलीयो मेघनादः काण्डेरस्तण्डुलेरकः ।भण्डीरस्तण्डुलीवीजो विषघ्नश्चाल्पमारिषः
तण्डुलीयो लघुः शीतो रूक्षः पित्तकफास्रजित् ।सृष्टमूत्रमलो रुच्यो दीपनो विषहारकः
”तद्भेदः जलतण्डुलीयं शास्त्रे कञ्चटमिति प्रसिद्धम् ।“पानीयतण्डुलीयन्तु कञ्चटं समुदाहृतम् ।कञ्चटं तिक्तकं रक्तपित्तानिलहरं लघु
”इति भावप्रकाशः