| YouTube Channel

तण्डुलपरीक्षा (taNDulaparIkSA)

 
शब्दकल्पद्रुमः
Sanskrit
तण्डुलपरीक्षा,
स्त्री,
(तण्डुलेन परीक्षा ।) नव-विधदिव्यान्तर्गतदिव्यविशेषः चालपडा इतिभाषा तद्विधानं यथाह पितामहः ।“चौर्य्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः ।तण्डुलान् कारयेच्छुक्लांच्छालेर्न्नान्यस्य कस्य चित्
मृण्मये भाजने कृत्वा आदित्यस्याग्रतः शुचिः ।स्नानोदकेन संमिश्रान् रात्रौ तत्रैव वासयेत्
प्राङ्मुखोपोषितं स्नातं शिरोरोपितपत्रकम् ।तण्डुलान् भक्षयित्वा तु पत्रे निष्ठीवयेत्त्रिधा
भूर्ज्जस्यैव तु नान्यस्य अभावे पिप्पलस्य तु ।शोणितं दृश्यते यस्य हनुस्तालु शीर्य्यते
गात्रञ्च कम्पते यस्य तमशुद्धं विनिर्द्दिशेत्
”स्नानोदकेन देवतास्नानोदकेन तथा चकात्यायनः ।“देवतास्नानपानीयस्निग्धतण्डुलभक्षणे ।शुद्धनिष्ठीवनात् शुद्धो नियम्योऽशुचिरन्यथा
”शिरोरोपितपत्रकं तण्डुलान् भक्षयित्वा निष्ठी-वयेत् प्राड्विवाकः इति निष्ठीवयेदिति ण्यन्तात्सिद्धम् तुलानिरूपितं सर्व्वदिव्यसाधारणञ्चधर्म्मवाहनादिहवनान्तं पूर्व्ववदिहापि कर्त्तव्यम्
शिरोरोपितपत्रलेख्यमन्त्रादि यथा, --“तञ्चार्थमभियुक्तस्य लेखयित्वा तु पत्रके ।मन्त्रेणानेन सहितं कुर्य्यात्तस्य शिरोगतम्
आदित्यचन्द्रावनिलोऽनलश्चद्यौर्भूमिरापो हृदयं यमश्च ।अहश्च रात्रिश्च उभे सन्ध्येधर्म्मो हि जानाति नरस्य वृत्तम्
”इति दिव्यतत्त्वम्
वाचस्पत्यम्
Sanskrit
तण्डुलपरीक्षा स्त्री तण्डुलेन परीक्षा दिव्यभेदे तद्विधानंवीरमि० उक्तं यथा पितामहः“तण्डुलानां प्रवक्ष्यामि विधिम्भक्षणचोदितम् चोर्य्येतु तण्डुला देया नान्यत्रेति विनिश्चयः” इति चौर्य्य-ग्रहणमर्थविवादप्रदर्शनार्थम् “तदर्थार्थस्य तण्डुलाः” इतिघनविवादे कात्यायनेनोक्तत्वात् पूर्वेद्युर्यत्कर्त्तव्यं तत्सएवाह “तण्डुलान् कारयेच्छुक्लान् शालेर्नान्यस्यकस्यचित् मृण्मये भाजने कृत्वा आदित्यस्याग्रतःशुचिः स्नानोदकेन सम्मिश्रान् रात्रौ तत्रैव वासयेत् ।आवाहनादिपूर्वन्तु कृत्वा रात्रौ विधानतः” इति शुचिःप्राड्विपाकः सूर्य्यस्थाने धर्माबाहनादिहोमान्तं सर्व-दिव्यसाधारणविधिं कृत्वा आदित्यस्नानोदकेन शुक्लान्शालितण्डुलानाप्लाव्य रात्रावेवं कृत्वा तथैव प्रातःकाल-पर्य्यन्तं स्थापयेदित्यर्थः स्नानोदकं देवताया इत्याहकात्यायनः “देवतास्नानपानीयं दिग्धतण्डुलभक्षणे”इति प्रातः कर्त्तव्यमपि एवाह “प्रभाते कारिणेदेया आदित्याभिमुखाय त्विति” कारिणे शोध्याय ।देयाः तण्डुला इत्यनुषङ्गः भक्षणञ्च सोपवासेन सूर्य्या-लयमध्य एव कर्त्तव्यमित्याह वृहस्पतिः “सोपवासःसूय्यगेहे तण्डुलान् भक्षयेच्छुचिरिति” शोध्यानुष्ठेय-मनुवादव्याजेन दर्शयति पितामहः “प्राङ्मुखोपोषितंस्नातं शिरोरोपितपत्रकम् तण्डुलान् भक्षयित्वा तुपत्रे निष्ठीवयेत्ततः” इति भक्षयित्वा भक्षणं कारयित्वाहेतुमतोणिजन्तस्य भक्षेरयं प्रयोगः पत्रे विशेषं सएवाह “भुर्जस्यैव तु नान्यस्य अभावे पिप्पलस्य त्विति” ।शुद्ध्यशुद्यवधारणोपायं एवाह “शोणितं दृश्यते यस्यहनुस्तालु शीर्यते गात्रञ्च कम्पते यस्य तमशुद्धंविनिर्दिशेत्” इति वृहस्पतिरपि “शुद्धः स्याच्छुक्ल-निष्ठीवी रक्तमिश्रे तु दोषभागिति” कात्यायनोऽपि“शुक्लनिष्ठीवनाच्छुद्धो नियम्योऽशुचिरन्यथेति” ।“अपोग्निरुदकञ्चैव विषङ्कोषस्तथैव तण्डुलाश्चैवदिव्यानि सप्तमस्तप्तमाषकः ।” इति पितामहस्मृतिः ।“तण्डुलाश्चैव कोषश्च शङ्कास्वेव संशयः” इतिमिताक्षराधृतस्मृतिः