| YouTube Channel

तडि (taDi)

 
Apte
English
तडि [taḍi],
a.
Beating. -डिः Striking, a stroke.
Apte 1890
English
तडि a. Beating.
डिः Striking, a stroke.
Monier Williams Cologne
English
तडि a ?, iv, 117, Sch.
तडि b, °दि॑त्, °दि॑तस् See तड्.
Shabdartha Kaustubha
Kannada
तडि
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಏಟು /ಹೊಡೆತ
निष्पत्तिः - > तड (आघाते) - "इन्" (उ० ४-११७)
तडि
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಹೊಡೆಯುವ
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
तण्ड्
मूलधातुः:
तडि
धात्वर्थः:
ताडने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
तण्डते
धातुप्रदीपः
Sanskrit
तडिँ तडि ताडने
- तण्डते ततण्डे वितण्डा ।। 279 ।।
वाचस्पत्यम्
Sanskrit
तडि
पु०
तड--आघाते भावादौ इन् आघाते तत्कर्त्तरि
त्रि०
क्षीरतरङ्गिणी
Sanskrit
तडिँ तडि ताडने
- तण्डते, वितण्डा तण्डुना प्रोक्तं ताण्डवम् तुण्डुलः वृड्लुटितनिताडिभ्य उलच् तण्ड (तु0 उ0 59) इति कुशकाशावलम्बनम् 274
धातुवृत्तिः
Sanskrit
तडिँ तडि (अर्थः) ताडने
( तडते ) इत्यादि तण्डः अच् ( वतण्डः ) "वष्टिभागुरिरल्लोपमवाप्योरुपसर्गयोः'' इत्युपसर्गस्याल्लोपः वतण्डस्य गोत्रापत्यं, ( वातण्ड्यः वातण्डः ) "गर्गादिभ्यो यञ्'', "शिवादिभ्योण्'' इति यञणौ यदा त्विदमपत्यमाङ्गिरसं भवति तदा"वतण्डाच्च'' इति शिवाद्यणं बाधित्वायमेव अपत्ये तु स्त्री लिङ्गे "लुक् स्त्रियाम्'' इति लुक् "शार्ङरवाद्यो ङीन्" इति ङीना वतण्डी अनाङिरसे तु लुगभावात् वातण्ड्यायनी "प्राचां ष्फस्तद्धिते'' इति यञ्चन्तात् ष्फः, फस्यायनादेशः षित्करणसामर्थ्यात् स्वार्थे ङीष्ष्फप्रत्ययाभावे "यञश्च'' इति ङीषि "यस्येति च'' इत्यल्लोपे ( सूत्रम्) आपत्यस्य तद्धितेनाति (इति सूत्रम्) आपत्ययकारस्यानकारादौ भसंज्ञानिमित्ते तद्धितईति परे लोपे वातण्डी अनातीति वचनात् वातड्यायनीत्यत्र यलोपो भवति ( वितण्डा, तण्डुला ) "लुठितनितण्डिभ्य उलच् इत्युलच् 277
कृदन्तरूपमाला
Sanskrit
1 {@“तडि ताडने”@} 2 ताडनम् = निरसनम्।
तण्डकः-ण्डिका, तण्डकः-ण्डिका, तितण्डिषकः-षिका, तातण्डकः-ण्डिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककण्ठतिवत् 3 ज्ञेयानि।
4 वतण्डः, 5 वितण्डा, वैतण्डिकः।
6
प्रासङ्गिक्यः
01
=>
(६९७)
02
=>
(१-भ्वादिः-२८०। सक। सेट्। आत्म।)
03
=>
(१४९)
04
=>
[[१। अवपूर्वकादस्मात् पचाद्यचि (३-१-१३४) ‘वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः।’ इति वचनेन ‘अव’ इत्यत्रोपसर्गस्थाकारस्य लोपे वतण्डः इति भवति।]]
05
=>
[[२। विपूर्वकादस्मात् ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारप्रत्ययः। वितण्डया = दीव्यति = व्यवहरतीत्यर्थे, ‘तेन दीव्यति खनति जयति जितम्’ (४-४-२) इति ठक्प्रत्यये वैतण्डिकः। ‘स्वपक्षस्थापनाहीनः परपक्षप्रतिक्षेपो वितण्डा’ इति न्यायसूत्रम्।]]
06
=>
[[आ। ‘अभुण्डितोच्चण्डगतीनशण्डनान् कुमार्गवैतण्डिकपण्डितावृतान्।’ धा। का। १। ३७।]]