| YouTube Channel

तडागः (taDAgaH)

 
Apte
English
तडागः [taḍāgḥ] गम् [gam], गम् 1 A pond, deep pool, tank
स्फुटकमलोदर- खेलितखञ्जनयुगमिव शरदि तडागम्
Gīt.*
11
Ms.*
4.23
Y.*
3. 237.
A tank.
A trap for catching deer.
Apte 1890
English
तडागः
गं 1 A pond, deep pool, tank
स्फुटकमलोदरखेलितखंजनयुगमिव शरदि तडागं Gīt. 11
Ms. 4. 203
Y. 3. 237.
2 A tank.
3 A trap for catching deer.
Apte Hindi
Hindi
तडागः
पुं*
- तड्+आग
"तालाब, गहरा जोहड़, जलाशय"
Wordnet
Sanskrit
Synonyms:
ह्रदः, सरस्, जलाशयः, जलाधारः, सरोवरः, सरोवरम्, सरसी, तडागः, कासारः, खातम्, अखातम्
noun
जलस्य आशयः विशिष्य प्राकृतिकः।
"सः ह्रदे स्नानं करोति।"
Synonyms:
तडागः, सरोवरः, जलाशयः, जलाधारः, सरस्, ह्रदः, खातम्
noun
जलस्य आधारः।
"तडागे नैकानि चित्राणि कमलानि सन्ति।"
Synonyms:
तडागः, सरठः, ह्रदः, सरोवरम्, सरोवरः, कासारः, मीनगोधिका
noun
लघुः जलाशयः।
"सः तडागे मत्स्याघातं करोति।"
शब्दकल्पद्रुमः
Sanskrit
तडागः, पुं
क्ली,
(तड + तडागादयश्च इतिआगप्रत्ययेन निपातनात् साधुः ।) यन्त्रकूटकः ।इति मेदिनी गे, ३६
(तण्ड्यते आहन्यतेऊर्म्मिमालाभिरिति तडि आहतौ + कर्म्मणिआकः ।) पद्मादियुक्तं सरः तत्पर्य्यायः ।पद्माकरः इत्यमरः १० २८
तडाकः तटाकः इति शब्दरत्नावली
तडगः इति द्बिरूपकोषः
शञ्चशत-घनुःपरिमाणजलाशयः चतुर्द्दिक्षु पञ्चचत्वा-रिंशद्धस्तान्यूनतायां सहस्रद्बितयहस्तान्यूनत्वेनतडागः इति नव्यवर्द्धमानधृतो वशिष्ठः
*
तस्य जलगुणाः वायुकारित्वत् स्वादुत्वम् ।कषायत्वम् पाके कटुत्वम् शिशिरहिमकालेप्रशस्तत्वञ्च इति राजवल्लभः
*
तस्योत्-सर्गविधिर्यथा, --पुलस्त्य उवाच ।“शृणु राजन्महाबाहो ! तडागादिषु यो विधिः ।पुराणेष्वितिहासेषु मन्यते राजसत्तम !
प्राप्य पक्षं शुभं शुक्लमागते चोत्तरायणे ।पुण्येऽह्नि विप्रैः क्रियते कृत्वा ब्राह्मणवाचनम्
प्राक्प्रस्रवणादम्भस्तडागस्य समीपतः
चतुर्हस्तसमा वेदी चतुरस्रा समन्ततः ।तथा षोडशहस्तः स्यान्मण्डपश्च चतुर्मुखः
वेद्या उत्तरतो गर्त्तारत्निमात्रा तु मेखला ।नवसप्ताथवा पञ्च योनिवक्त्रा नृपात्मज !
वितस्तिमात्रा योनिः स्यात् षट्सप्ताङ्गुल-विस्तृता ।सर्व्वे स्वहस्तमात्राः स्युस्त्रिपर्व्वोच्छ्रितमेखलाः
सर्व्वे सर्व्ववर्णाः स्युः पताकाध्वजसंयुताः ।अश्वत्थोडम्बरप्लक्षवटशाखाकृतानि
मण्डंपस्य प्रतिदिशं द्बाराण्येतानि कारयेत्
शुभास्तत्राष्ट होतारो द्बारपालास्तथापरे ।अष्टौ तु जापकाः कार्य्या ब्राह्मणा वेदपारगाः
सर्व्वलक्षणसम्पूर्णा मन्त्रविद्बिजितेन्द्रियाः ।कुलशीलसमायुक्ताः स्थापिता द्बिजसत्तमाः
प्रतिस्तम्भेषु कलसा यज्ञोपस्करणानि ।व्यजनञ्चासनं शुभ्रं ताम्रपात्रं सुविस्तरम्
आचार्य्यः प्रक्षिपेद्भूम्यामनुचन्द्रं विचक्षणः ।त्र्यरत्निमात्रो यूपः स्यात् क्षीरिवृक्षविनिर्म्मितः
यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता
हेमालङ्करिणः कार्य्याः पञ्चविंशतिऋत्विजः
कुण्डलानि हैमानि केयूरकटकानि ।तथाङ्गुलीपवित्राणि वासांसि विविधानि
दद्युः समानि सर्व्वेषामाचार्य्ये द्बिगुणं पुनः ।दद्याच्छयनसंयुक्तमात्मनश्चापि यत् कृतम्
सौवर्णौ कूर्म्ममकरौ राजतौ मत्स्यडुण्डुभौ ।तथा कुलीरमण्डूका वायसः शिशुमारकः
एवमासाद्य तत् सर्व्वं स्वर्णपात्रं विशाम्पते ! ।शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः
सर्व्वौषध्युदकस्नातः पाठितो वेदपुङ्गवैः ।यजमानः सपत्नीकः पुत्त्रपौत्त्रसमन्वितः
पश्चिमं द्बारमासाद्य प्रविशेद्यागमण्डपम् ।ततो मङ्गलशब्देन भेरीणां निस्वनेन
रजसा मण्डलं कुर्य्यात् पञ्चवर्णेन चार्च्चितम् ।षोडशारं ततश्चक्रं पद्मरागसुशोभनम्
वेद्यामुपरि तत् कृत्वा ग्रहान् ग्रहपतींस्तथा ।संन्यसेन्महतः सर्व्वान् प्रतिदिक्षु विचक्षणः
तत् पात्रं स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितम् ।ब्रह्माणञ्च शिवं विष्णुं तत्त्वेन स्थापयेद्बुधः
विनायकञ्च विन्यस्य कमलामम्बिकां ततः ।शान्त्यर्थं सर्व्वलोकानां भूतग्राममशेषतः ।पुष्पभक्ष्यफलैर्युक्तमेवं कृत्वाधिवासनम् ।कुम्भांश्च रत्नगर्भांश्च वासोभिः परिवेष्टयेत्
गन्धपुष्पैरलङ्कृत्य द्बारपालान् समन्ततः ।पठध्वमिति तान् ब्रूयादाचार्य्यमपि पूजयेत्
बह्वृचौ पूर्व्वतः स्थाप्यौ दक्षिणे यजुर्व्विदौ ।पश्चिमे सामगौ स्थाप्याबुत्तरेणाप्यथर्व्वगौ
उदङ्मुखो दक्षिणतो यजमान उपाविशेत् ।पठध्वमिति तान् ब्रूयात् यजध्वमिति याजकम्
उत्कृष्टमन्त्रपाठेन तिष्ठध्वं मन्त्रजापकाः ।एवमादिश्य तान् सर्व्वान् पर्युष्याग्निं समन्त्रवित्
जुहुयादाहूतीर्म्मन्त्रैराज्यञ्च समिधस्तथा ।ऋत्विद्भिश्चैव होतव्यं वारुणैरेव सर्व्वतः
वैराजं पौरुषं सूक्तं पौण्ड्रं चन्द्रं सुसंहितम् ।शैशवं पञ्चनिधनं गायन्ति ज्येष्ठसामगाः
वामदेवं बृहत्साम रौरवं सरथन्तरम् ।गवां व्रतं विकर्णञ्च रक्षोघ्नं नरथन्तथा
गायन्ति सामगा राजन् ! पश्चिमद्बारमाश्रिताः ।अथर्व्वगाश्चोत्तरतः शान्तिकं पौष्टिकं तथा
जपन्ते मनसा देवमाश्रिता वरुणं प्रभुम् ।पूर्व्वेद्युरभितो मन्त्रैरेवं कृत्वाधिवासनम्
गजाश्वरथ्यावल्मीकसंग्रामरथगोकुलात् ।मृदमादाय दद्याच्च प्रक्षिपेच्च यथा तथा
रोचनाञ्च ससिद्धार्थान् गन्धान् गुग्गुलमेव ।स्नपनं तस्य कर्त्तव्यं पञ्चगव्यसमन्वितम्
मूर्द्ध्नि कर्त्तुर्म्महामन्त्रैरेवं कृत्वा विधानतः ।एवं रक्षति राज्यार्थान् विधियुक्तेन कर्म्मणा
*
ततः प्रभाते विमले संजाते तु गवां शतम् ।ब्राह्मणेभ्यः प्रदातव्यं होमान्ते वाथवा पुनः
पञ्चाशद्बाथ षट्त्रिंशत् पञ्चविंशतिरेव ।ततः संवत्सरे प्राप्ते शुद्धे लग्ने सुशोभने
वेदशब्दैश्च गान्धर्व्वैर्व्वाद्यैश्च विविधैः पुनः ।कनकालङ्कृतां कृत्वा जले गामवतारयेत्
सामगाय सा देया ब्राह्मणाय विशाम्पते ! ।पात्रीमादाय सौवर्णीं पञ्चरत्नसमन्विताम्
तत्र निःक्षिप्य मकरं मत्स्यादींश्चैव सर्व्वशः ।धृतांश्चतुर्भिर्व्विप्रैश्च वेदवेदाङ्गपारगैः
महानदीजलोपेतान् दध्यक्षतविभूषितान् ।उत्तराभिमुखो युक्तो जलमध्ये प्रकालयेत्
आथर्व्वणेन सुस्नातः पुनर्म्मासांस्तथैव ।आपो हि ष्ठेतिमन्त्रेण क्षिपेदागत्य मण्डपम्
पूजयित्वा सुरांस्तत्र वलिं दद्यात् समन्वितः ।पुनर्द्दिनानि होतव्यं चत्वारि राजसत्तम !
चतुर्थीकर्म्म कर्त्तव्यं देयं तत्रापि शक्तितः ।कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि
ऋत्विग्भ्यस्तु समं दद्यात् मण्डपं विभजेत् पुनः ।होमपात्रञ्च शय्याञ्च आचार्य्याय निवेदयेत्
ततः सहस्रं विप्राणामथवाष्टशतं तथा ।भोजयेच्च यथाशक्त्या पञ्चाशद्बाथ विंशतिः
एवमेव पुराणेषु तडागविधिरुच्यते ।कूपवापीषु सर्व्वासु तथा पुष्करिणीषु
एष एव विधिर्दृष्टः प्रतिष्ठासु तथैव ।मन्त्रतस्तु विशेषः स्यात् प्रासादोद्यानभूमिषु
अयन्तु ऋत्विगाचार्य्यविधिदृष्टेन कर्म्मणा ।अल्पेष्वेकाग्निवत् कार्य्यं वित्तशाठ्यादृते नृणाम्
”तडागे कालविशेषे जलस्थितेः फलं यथा, --“प्रावृट्काले स्थितं तोयमग्निष्टोमसमं स्मृतम् ।शरत्काले स्थितं तोयं यदुक्तफलदायकम्
वाजपेयफलसमं हेमन्तशिशिरस्थितम् ।अश्वमेधसमं प्राहुर्व्वसन्तसमयस्थितम्
ग्रीष्मेऽपि तु ख्यितं तोयं राजसूयफलाधिकम्
”तडागकरणे फलं यथा, --“एतान्महाराज ! विशेषधर्म्मान्करोति योऽर्घ्यान्त्वथ शुद्धबुद्धिः ।स याति ब्रह्मालयमेककल्पंदिवं पुनर्याति तथैव दिव्यम्
”इति पाद्मे सृष्टिखण्डम्