| YouTube Channel

तटस्थं (taTasthaM)

 
शब्दकल्पद्रुमः
Sanskrit
तटस्थं,
क्ली,
लक्षणविशेषः तस्य स्वरूपं यथा, तद्भिन्नत्वे सति तद्बोधकत्वम् तथाच ।“स्वरूपं तटस्थं द्बिधालक्षणं स्यात्स्वरूपस्य बोधो यतो लक्षणाभ्याम् ।स्वरूपे प्रविष्टात् स्वरूपेऽप्रविष्टात्यथा काकवन्तो गृहाः खं विलञ्च
”इति वेदान्तकारिका
(तटे तिष्ठतीति स्था + कः ।) तटस्थिते, त्रि
(उदासीनः यथा, नैषधे ५५ ।“धिक् चापले वत्सिमवत्सलत्वंयत्प्रेरणादुत्तरलीभवन्त्या ।समीरसङ्गादिव नीरभङ्ग्यामया तटस्थस्त्वमुपद्रुतोऽसि
”समीपस्थः यथाह बलः ।“तटस्थः स्यादुदासीने तीरस्थनिकटस्थयोः
”)