| YouTube Channel

तञ्चम् (taJcam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तन्चू सङ्कोचने”@} 2 ‘तञ्जू--’ इति क्षीरस्वामिसम्मतः पाठः।
जकारान्तमध्ये पाठात् एवमेव न्याय्यम्, इति तदाशयः।
तञ्चकः-ञ्चिका, तञ्चकः-ञ्चिका, 3 तितञ्चिषकः-षिका-तितङ्क्षकः-क्षिका, 4 तातचकः-चिका
5 तञ्चिता-तङ्क्ता-त्री, तञ्चयिता-त्री, तितञ्चिषिता-तितङ्क्षिता-त्री, तातचिता-त्री
6 7 तञ्चन्-ती, तञ्चयन्-न्ती, तितञ्चिषन्-तितङ्क्षन्-न्ती
-- तञ्चिष्यन्-तङ्क्ष्यन्-न्ती-ती, तञ्चयिष्यन्-न्ती-ती, तितञ्चिषिष्यन्, तितङ्क्षिष्यन्-न्ती-ती
-- -- तञ्चयमानः, तञ्चयिष्यमाणः, -- तातच्यमानः, तातचिष्यमाणः
8 संतक्-संतग्-सन्तचौ-सन्तचः
-- -- 9 तक्तम्- 10 क्तः-क्तवान्, तञ्चितः, तितञ्चिषितः-तितङ्क्षितः, तातचितः-तवान्
तञ्चः, तञ्चः, तितञ्चिषुः-तितङ्क्षुः, 11 तातञ्चः
तञ्चितव्यम्-तङ्क्तव्यम्, तञ्चयितव्यम्, तितञ्चिषितव्यम्-तितङ्क्षितव्यम्, तातचितव्यम्
तञ्चनीयम्, तञ्चनीयम्, तितञ्चिषणीयम्-तितङ्क्षणीयम्, तातचनीयम्
12 तङ्क्यम्, तञ्च्यम्, तितञ्चिष्यम्-तितङ्क्ष्यम्, तातच्यम्
ईषत्तञ्चः-दुस्तञ्चः-सुतञ्चः
-- -- -- तच्यमानः, तञ्च्यमानः, तितञ्चिष्यमाणः-तितङ्क्ष्यमाणः, तातच्यमानः
आतङ्कः, तञ्चः, तितञ्चिषः-तितङ्क्षः, तातचः
तञ्चितुम्-तङ्क्तुम्, तञ्चयितुम्, तितञ्चिषितुम्-तितङ्क्षितुम्, तातचितुम्
तञ्चा, तञ्चना, तितञ्चिषा-तितङ्क्षा, तातचा
तञ्चनम्, तञ्चनम्, तितञ्चिषणम्-तितङ्क्षणम्, तातचनम्
13 तञ्चित्वा-तक्त्वा, तञ्चयित्वा, तितञ्चिषित्वा-तितङ्क्षित्वा, तातचित्वा
प्रतच्य, प्रतञ्च्य, प्रतितञ्चिष्य-प्रतितङ्क्ष्य, प्रतातच्य
14 तञ्चम् २, तञ्चित्वा-तक्त्वा २, तञ्चम् २, तञ्चयित्वा २, तितञ्चिषम् २-तितङ्क्षम् २, तितञ्चिषित्वा २-तितङ्क्षित्वा २, तातचम्
तातचित्वा २।
प्रासङ्गिक्यः
01
=>
(७०२)
02
=>
(७-रुधादिः-१४५९। सक। सेट्। पर।)
03
=>
[[४। ऊदित्त्वात् ‘स्वरतिसूतिसूयतिधूञूदितो वा (७-२-४४) इति सूत्रेणास्य धातोर्वला- द्यार्धधातुकस्येड्विकल्पः। इडभावपक्षे, ‘चो कुः’ (८-२-३०) इति चकारस्य ककारः। ‘नश्चापदान्तस्य झलि’ (८-३-२४) इत्यनेन, नकारस्यानुस्वारे, ‘आदे- शप्रत्यययोः’ (८-४-५९) इति सनः सकारस्य षकारः। ‘अनुस्वारस्य ययि-- (८-३-५८) इति परसवर्णे तितङ्क्षकः इति रूपम्। एवमिडभावपक्षे सन्नन्ते सवंत्र प्रक्रिया ज्ञेया।’]]
04
=>
[[५। यङन्ताण्ण्वुलि, ‘अनिदिताम्--’ (६-४-२४) इत्युपधानकारस्य लोपे ‘यस्य हलः’ (६-४-४९) ‘अतो लोपः’ (६-४-४८) इति क्रमेण यकाराकारयोर्लोपे द्वित्वे रूपम्। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[६। ऊदित्त्वेन वलादेरार्धधातुकस्येड्विकल्पः। इडभावपक्षे, कुत्वानुस्वारपरसवर्णा भवन्ति। एवं तव्यदादिष्वपि ज्ञेयम्।]]
06
=>
[पृष्ठम्०६४७+ २४]
07
=>
[[१। ‘रुधादिभ्यः श्नम्’ (३-१-७८) इति श्नम् विकरणप्रत्ययः। मित्त्वादयम् अन्त्यादचः परो भवति। ‘श्नान्नलोपः’ (६-४-२३) इति धातुनकारस्य लोपः। ‘श्नसोरल्लोपः’ (६-४-१११) इति अकारलोपः। अनुस्वारपरसवर्णौ भवतः।]]
08
=>
[[२। सम्यक् तञ्चतीति सन्तक्। ‘अनिदिताम्--’ (६-४-२४) इत्युपधानकारस्य लोपः।]]
09
=>
[[३। ऊदित्त्वेनेड्विकल्पात्, निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधः। उपधानकारलोपः। कुत्वम्।]]
10
=>
[[आ। ‘संतक्तनद्धवसनाः परिवेगवृक्ता रङ्गं समेत्य पपृचुः स्वजनांश्च मल्लाः।।’ धा। का। ३। ३।]]
11
=>
[[४। ‘यङोऽचि च’ (२-४-७४) इत्यनेन यङो लुक्। नचात्रोपधानकारस्य लोपः शङ्क्यः
\n\n लुका लुप्तत्वेन ‘न लुमताऽङ्गस्य’ (१-१-६३) इति प्रत्ययलक्षणाभावात्।]]
12
=>
[[५। ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वम्। एवं घञ्यपि कुत्वं ज्ञेयम्।]]
13
=>
[[६। इट्पक्षे, ‘न क्त्वा सेट्। (१-२-१८) इति कित्त्वनिषेधान्नलोपो न।’]]
14
=>
[पृष्ठम्०६४८+ २६]