| YouTube Channel

तक्षू (takSU)

 
Shabdartha Kaustubha
Kannada
तक्षू - तनूकरणे (भ्वा० पर० सक० वे०) तक्ष्णोति
पदविभागः - > धातुः
कन्नडार्थः - > ಮರವನ್ನು ಕೆತ್ತಿ ಸಣ್ಣದಾಗಿ ಮಾಡು /ಕೆತ್ತಿ ತೆಳುವಾಗಿ ಮಾಡು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
तक्ष्
मूलधातुः:
तक्षू
धात्वर्थः:
तनूकरणे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
वेट्
उपग्रहः:
परस्मैपदी
रूपम्:
तक्ष्णोति-तक्षति
धातुप्रदीपः
Sanskrit
तक्षूँ तक्षू
मानकरूपान्तरम् - त्वक्षूँ
त्वक्षू तनूकरणे
- तक्षति। तक्ष्णोति तक्षिता ।तष्टा तक्षित्वा ।तष्ट्वा। तष्टम् त्वक्षति ।तत्वक्ष। त्वक्षिता ।त्वष्टा त्वक्षित्वा। त्वष्ट्वा ।त्वष्टम्।। 656, 657।।
क्षीरतरङ्गिणी
Sanskrit
तक्षूँ तक्षू
मानकरूपान्तरम् - त्वक्षूँ
त्वक्षू तनूकरणे
- तनूकरणे तक्षः (3176) इति श्नुः तक्षति तक्ष्णोति नेह-संतक्षति वाग्भिः तष्टा, तक्षिता तष्टः तक्षा तक्षकः त्वक्षति त्वष्टा, त्वक्षिता त्वक्ष त्वचने (1443) अर्थभेदार्थः 635, 636
धातुवृत्तिः
Sanskrit
तक्षूँ तक्षू
मानकरूपान्तरम् - त्वक्षूँ
त्वक्षू (अर्थः) तनूकरणे
(तक्षति ततक्षेत्यादि) अक्षिवत् "तनूकरणे तक्षः'' इति पक्षे शब्विषये श्नु, (तक्ष्णोति), इत्यादि अक्ष्णोतिवत् (तक्षा) "कनिन्युवृषिवक्षि'' इति कनिन् तक्ष्णोऽपत्यं, (ताक्ष्णः) "शिवादिभ्योण्'' इत्यण् अत्र "अन्नति'' अन्न्न्तस्याण्परत्वात्प्रकृतिभावे प्राप्ते ( सूत्रम्) षपूर्वहन्धृतराज्ञामणि (इति सूत्रम्) इति षपूर्वो योऽन्शब्दो हनश्च तयोर्धृतराजन्शब्दस्य चाणि प्रत्यये ऽल्लोप इत्यल्लोपः शिवाद्यणा ( सूत्रम्) सेनान्तलक्षणकारिभ्यश्च (इति सूत्रम्) इति ण्यस्य बाधो नेष्यत इति वृत्तावुक्तत्वात् ( ताक्षण्यः) इत्यपि भवति "नस्तद्धिते'' इति लोपो "ये चाभावकर्मणोः'' इति प्रकृतिभावान्न भवति सेनान्तइति सेनाशब्दान्तो गृह्यन्ते लक्षण इति स्वरूपग्रहणं, कारिणः शिल्पिन इति ग्रामस्य तक्षा (ग्रामतक्षः) कुट्यां भवः कौटः, चासौ तक्षा च( कौटतक्षः) स्वतन्त्रतक्षोच्यते, "ग्रामकैटाभ्यां तक्षणः''ति टच् समासान्तः पञ्चानां तक्ष्णां समाहारः ( पञ्चतक्षः, पञ्चतक्षा ) "तक्षन्नलोपश्च'' इति नलोपः पक्षे स्त्रीत्वं (द्वितक्षी) "द्विगोः" इति ङीप् अन्यदा "स नपंसकम्" इति नपंसकत्वम्त्वक्षु त्वचन इत्यग्रे तूदित् 646
कृदन्तरूपमाला
Sanskrit
1 {@“तक्षू तनूकरणे”@} 2 ‘तनूकरणम् = स्थूलस्य काष्ठादेः कतिपयावयवापनयनेन सूक्ष्मीकरणम्’ इति बालमनोरमा।।
‘स्यात् तक्षतीति त्वचनेऽथ वा श्नौ तक्ष्णोति तक्षेच्च तनूक्रियायाम्।’ 3 इति देवः।
तक्षकः-क्षिका, तक्षकः-क्षिका, तितक्षिषकः- 4 तितक्षकः-क्षिका, तातक्षकः-क्षिका
5 तक्षिता-त्री-तष्टा-ष्ट्री, तक्षयिता-त्री, तितक्षिषिता-तितक्षिता-त्री, तातक्षिता-त्री
6 7 तक्ष्णुवन्-ती, तक्षन्-न्ती, तक्षयन्-न्ती, तितक्षिषन्-तितक्षन्-न्ती
-- तक्षिष्यन्-तक्ष्यन्-न्ती-ती, तक्षयिष्यन्-न्ती-ती, तितक्षिषिष्यन्-तितक्षिष्यन्-न्ती-ती
-- -- तक्षयमाणः, तक्षयिष्यमाणः, -- तातक्ष्यमाणः, तातक्षिष्यमाणः
8 तट्-तड्-तक्षौ-तक्षः
-- -- -- 9 तष्टम्-तष्टः-तष्टवान्, तक्षितः, तितक्षिषितः-तितक्षितः, तातक्षितः-तवान्
तक्षः, तक्षः, तितक्षिषुः-तितक्षुः, तातक्षः
तक्षितव्यम्-तष्टव्यम्, तक्षयितव्यम्, तितक्षिषितव्यम्-तितक्षितव्यम्, तातक्षितव्यम्
तक्षणीयम्, तक्षणीयम्, तितक्षिषणीयम्-तितक्षणीयम्, तातक्षणीयम्
तक्ष्यम्, तक्ष्यम्, तितक्षिष्यम्-तितक्ष्यम्, तातक्ष्यम्
ईषत्तक्षः-दुस्तक्षः-सुतक्षः
-- -- -- तक्ष्यमाणः, तक्ष्यमाणः, तितक्षिष्यमाणः-तितक्ष्यमाणः, तातक्ष्यमाणः
तक्षः, तक्षः, तितक्षिषः-तितक्षः, तातक्षः
तक्षितुम्-तष्टुम्, तक्षयितुम्, तितक्षिषितुम्-तितक्षितुम्, तातक्षितुम्
10 तक्षा, तक्षणा, तितक्षिषा-तितक्षा, तातक्षा
11 तक्षणम्, तक्षणम्, तितक्षिषणम्-तितक्षणम्, तातक्षणम्
तक्षित्वा-तष्ट्वा, तक्षयित्वा, तितक्षिषित्वा-तितक्षित्वा, तातक्षित्वा, सन्तक्ष्य, सन्तक्ष्य, सन्तितक्षिष्य-सन्तितक्ष्य, सन्तातक्ष्य
तक्षम् २, तक्षित्वा २-तष्ट्वा २, तक्षम् २, तक्षयित्वा, तितक्षिषम् २-तितक्षम् २, तितक्षिषित्वा २-तितक्षित्वा २, तातक्षम्
तातक्षित्वा
12 13 इति क्वुन्प्रत्ययः।
तस्याकादेशः।
तक्षकः = सर्पविशेषः।]] तक्षकः, 14 इति कनिन्प्रत्ययः।
तक्ष्णोति, तक्षति इति वा तक्षा = शिल्पी।]] तक्षा।
प्रासङ्गिक्यः
01
=>
(६९२)
02
=>
(१-भ्वादिः-६५५। सक। वेट्। पर।)
03
=>
(श्लो। १८३)
04
=>
[[२। ऊदित्त्वादिड्विकल्पः। इडभावपक्षे, ‘स्कोः--’ (८-२-२९) इति झल्निमित्तके कलोपे, ‘षढोः कः सि’ (८-२-४१) इति षकारस्य ककारादेशे, ‘आदेशप्रत्य- ययोः’ (८-३-५९) इति सनः सकारस्य षत्वे तितक्षकः इति रूपम्। एवं सर्वत्रेडभावपक्षे सन्नन्ते प्रक्रिया ज्ञेया।]]
05
=>
[[३। ऊदित्त्वेनेड्विकल्पः। तेन रूपद्वयम्। इडभावपक्षे ‘स्कोः--’ (८-२-२९) इति कलोपे, ‘ष्टुना ष्टुः’ (८-४-४१) इति ष्टुत्वे रूपम्। एवं तव्यदादिष्वपि ज्ञेयम्।]]
06
=>
[पृष्ठम्०६३९+ २०]
07
=>
[[१। ‘तनूकरणे तक्षः’ (३-१-७६) इति शब्विषये श्नुप्रत्ययः विकल्पेन भवति। उवङादेशः। श्नुप्रत्ययाभावे शपि तक्षन् इति भवति।]]
08
=>
[[२। क्विपि, ‘स्कोः-- (८-२-२९) इति कलोपे, षकारस्य जश्त्वचर्त्वयो रूपम्।]]
09
=>
[[३। ऊदित्त्वेन वैकल्पिकेट्त्वात्, निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधः।]]
10
=>
[[४। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियामकारप्रत्ययः। टाप्।]]
11
=>
[[आ। ‘घोषद्भूषः पङ्कजाक्षस्तमूचे पापश्रेणीतक्षणे त्वष्टृधर्मा।’ धा। का। १। ८३।]]
12
=>
[पृष्ठम्०६४०+ २५]
13
=>
[[१। ‘क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि’ [द। उ। ३। ५]
14
=>
[[२। ‘कनिन् युवृषितक्षि--’ [द। उ। ६। ५१]