| YouTube Channel

तकि (taki)

 
Shabdartha Kaustubha
Kannada
तकि - कृच्छ्रजीवने (भ्वा०पर० अक० से०) तङ्कति
पदविभागः - > धातुः
कन्नडार्थः - > ಬಹಳ ಕಷ್ಟದಿಂದ ಜೀವಿಸು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
तङ्क्
मूलधातुः:
तकि
धात्वर्थः:
कृच्छ्रजीवने, गतौ
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
तङ्कति
धातुप्रदीपः
Sanskrit
तकिँ तकि कृच्छ्रजीवने
- तङ्कति आतङ्कः।। 116।।
क्षीरतरङ्गिणी
Sanskrit
तकिँ तकि कृछ्रजीवने
आतङ्कति आतङ्कः 117
धातुवृत्तिः
Sanskrit
तकिँ तकि (अर्थः) कृच्छ्रजीवने
( तङ्कति ततङ्क तङ्कितेत्यादि यङ्लुकि लङि ईडभावे अतातन् ) अस्यानन्तरं मैत्रेयः शुक गताविति पठित्वा शोकति, शुकः, शुक्र इत्युदाजहार, अस्मिन्हि सति शुकवलोल्का इति शुभेः कनि भलोपे शुकशब्दनिपातनमर्थकं स्यात्, इगुपधलक्षणेन कप्रत्ययेनैव सिद्धत्वात्, तथा शुकेरग्विधानेनापि शुक्रशब्दे सिद्धे ऋजेन्द्रादौ शुचेर्निपातनमनर्थकं स्यादित्यस्य पाठोऽनार्ष इव प्रतीयते115
कृदन्तरूपमाला
Sanskrit
1 {@“तकि कृच्छ्रजीवने”@} 2 ‘तकेत् तङ्केद् यथासंख्यं हसने, कृच्छ्रजीवने।।’ 3 इति देवः।
तङ्ककः-ङ्किका, तङ्ककः-ङ्किका, तितङ्किषकः-षिका, तातङ्ककः-ङ्किका
4 तङ्कन्-न्ती, इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककन्दतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(६९०)
02
=>
(१-भ्वादिः-११८। अक। सेट्। पर।)
03
=>
(श्लो। ४३)
04
=>
[[आ। ‘अकक्कतातक्यगुणेन तङ्कता खलश्वबुक्कापरुषे पुरेऽमुना।’ धा। का। १। १७।]]
05
=>
(१६३)