| YouTube Channel

ण्यन्ते (Nyante)

 
कृदन्तरूपमाला
Sanskrit
1 {@“कखे हसने”@} 2 काखकः-खिका, चिकखिषकः-षिका, चाकखकः-खिका, इत्यादीनि रूपाणि क्रमेण शुद्धात्-सन्नन्तात् यङन्ताच्च, पूर्वोक्तकख 3 धातुवत् ज्ञेयानि।
ण्यन्ते परं घटादिपाठात् ‘घटादयो मितः’ 4 इति मित्त्वे, ‘मितां हस्वः’ 5 इति ह्रस्वे इमानि रूपाणि-- कखकः-खिका, कख्यमानः
कखयिता-त्री, कखः
कखयन्-न्ती, कखयितुम्
कखयिष्यन्-न्ती-ती, कखना
कखयमानः, कखनम्
कखयिष्यमाणः, कखयित्वा
कखः, चिकखयिषुः, 6 प्रकखय्य
कखयितव्यम्, 7 कखम्
कखनीयम्, काखम्
कख्यम्, कखयित्वा २। ईषत्कखः-दुष्कखः-सुकखः, इति विशेषः।
8
प्रासङ्गिक्यः
01
=>
(१४२)
02
=>
(१-भ्वादिः-७८४। अक। सेट्। पर। घटादिः।)
03
=>
(१४१)
04
=>
(गणसूत्रम्-भ्वादौ)
05
=>
(६-४-९२)
06
=>
[[२। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
07
=>
[[३। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति दीर्घविकल्पः।]]
08
=>
[पृष्ठम्०१४३+ २५]
1 {@“कण गतौ”@} 2 घटादिः।
अस्य घातोः पूर्वोकणतिवत् 3 शुद्धात्-सन्नन्तात्-यडन्ताच्च रूपाणि ज्ञेयानि।
ण्यन्ते परम्-- 4 कणकः-णिका, ईषत्कणः-दुष्कणः-सुकणः
कणयिता-त्री, कण्यमानः
5 कणयन्-न्ती, कणः
कणयिष्यन्-न्ती-ती, कणयितुम्
कणयमानः, कणना
कणयिष्यमाणः, कणनम्
कणितः-तवान्, कणयित्वा
कणयिषुः, 6 प्रकणय्य
कणयितव्यम्, 7 कणम्
कणनीयम्, काणम्
8 कण्यम्, काणयित्वा
इति रूपाणीति विशेषः।
एतच्च गत्यर्थकत्वे एव 9।
अन्यार्थकत्वे तु काणयिता-इत्यादीनि रूपाण्येव, पूर्ववत्।
10
प्रासङ्गिक्यः
01
=>
(१५८)
02
=>
(१-भ्वादिः-७९४। सक। सेट्। पर।)
03
=>
(१५७)
04
=>
[[३। घटादिपाठात् मित्त्वम्। ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वः।]]
05
=>
[[आ। ‘अगन्मनीषः कणयन् मुकुन्दमस्मान् वियोगं रणयन् दूतः। चणन् विषादं विशणन् विचिन्तां श्रणन् विमोहं श्रथितोऽस्तु सद्यः।।’ धा। का। २। ९।]]
06
=>
[[५। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
07
=>
[[६। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुलि दीर्घो वा।]]
08
=>
[[४। ‘अचो यत्’ (३-१-९७) इति यत्।]]
09
=>
(धातूनामनेकार्थकत्वात्)
10
=>
[पृष्ठम्०१५३+ २५]
1 {@“क्ष्मायी शब्दे विधूनने च”@} 2 इति पुक्।
‘लोपो व्योर्वलि’ 3 इति धातुयकारस्य लोपः।
एवं ण्यन्ते सर्वत्र बोध्यम्।]] क्ष्मापकः-पिका, चिक्ष्मायिषकः-षिका, 4 चाक्ष्मायकः-यिका
क्ष्मायिता-त्री, क्ष्मापयिता-त्री, चिक्ष्मायिषिता-त्री, चाक्ष्मायिता-त्री
5 -- क्ष्मापयन्-न्ती, क्ष्मापयिष्यन्-न्ती-ती
-- क्ष्मायमाणः, क्ष्मापयमाणः, चिक्ष्मायिषमाणः चाक्ष्माय्यमाणः
क्ष्मायिष्यमाणः, क्ष्मापयिष्यमाणः, चिक्ष्मायिषिष्यमाणः, चाक्ष्मायिष्यमाणः
6 प्रक्ष्माः-प्रक्ष्मौ-प्रक्ष्माः
-- -- -- 7 क्ष्मातम्-तः, क्ष्मापितः, चिक्ष्मायिषितः, चाक्ष्मायितः-तवान्
क्ष्मायः, 8 भरक्ष्मायः 9, क्ष्मायः, चिक्ष्मायिषुः, चाक्ष्मायः
क्ष्मायितव्यम्, क्ष्मापयितव्यम्, चिक्ष्मायिषितव्यम्, चाक्ष्मायितव्यम्
क्ष्मायणीयम्, क्ष्मापणीयम्, चिक्ष्मायिषणीयम्, चाक्ष्मायणीयम्
क्ष्माय्यम्, क्ष्माप्यम्, चिक्ष्मायिष्यम्, चाक्ष्माय्यम्
ईषत्क्ष्मायः-दुःक्ष्मायः-सुक्ष्मायः
-- -- क्ष्माय्यमाणः, क्ष्माप्यमाणः, चिक्ष्मायिष्यमाणः, चाक्ष्माय्यमाणः
क्ष्मायः, क्ष्मापः, चिक्ष्मायिषः, चाक्ष्मायः
क्ष्मायितुम्, क्ष्मापयितुम्, चिक्ष्मायिषितुम्, चाक्ष्मायितुम्
10 क्ष्माया, क्ष्मापणा, चिक्ष्मायिषा, चाक्ष्माया
क्ष्मायणम्, क्ष्मापणम्, चिक्ष्मायिषणम्, चाक्ष्मायणम्
क्ष्मायित्वा, क्ष्मापयित्वा, चिक्ष्मायिषित्वा, चाक्ष्मायित्वा
प्रक्ष्माय्य, प्रक्ष्माप्य, प्रचिक्ष्मायिष्य, प्रचाक्ष्माय्य
क्ष्मायम् २, क्ष्मायित्वा २, क्ष्मापम् २, क्ष्मापयित्वा २, चिक्ष्मायिषम् २, चिक्ष्मायिषित्वा २, चाक्ष्मायम्
चाक्ष्मायित्वा २।
प्रासङ्गिक्यः
01
=>
(३२४)
02
=>
(१-भ्वादिः-४८६। सक। सेट्। आत्म। [[[अ] शब्दे अकर्मकः। विधूनने सकर्मकः।]] क्ष्मायकः-यिका, [[७। ‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग् णौ’ (७-३-३६)
03
=>
(६-१-६६)
04
=>
[[८। ‘यस्य हलः’ (६-४-४९) इति यकारलोपः। ‘अतो लोपः’ (६-४-४८) इति अलोपः।]]
05
=>
[पृष्ठम्०३३८+ २५]
06
=>
[[१। क्विपि वलि लोपः।]]
07
=>
[[२। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इति निष्ठायामिण्णिषेधः। वलि लोपः।]]
08
=>
[[३। ‘कर्मण्यण्’ (३-२-१) इत्यण्प्रत्ययो भवति।]]
09
=>
[[आ। ‘प्रक्नोपयन्तं मुरलीं महीभरक्ष्मायं बलस्फीतसुपीनदोर्युगम्। अशेषतां भ्रूशलनैर्वलद्दृशा प्रवल्लमानं प्रियवल्लवीशुचम्।।’ धा। का। १-६३।]]
10
=>
[[४। ‘गुरोश्च हलः’ (३-३-१०३) इति अप्रत्ययो भवति।]]
1 {@“दूङ् परितापे”@} 2 स्वादिः।
परितापः = खेदः।
‘दुनोति दूयते तापे, दवतीति गतौ पदम्।।’ 3 इति देवः।
ण्यन्ते, सन्नन्ते, यङन्ते क्रमेण, दावकः-विका, दुदूषकः-षिका, दोदूयकः- यिका
इत्यादीनि रूपाणि तौदादिककूङ्धातुवत् 4 ज्ञेयानि।
शुद्धात् तु इमानि रूपाणि भवन्तीति विशेषः।
यथा-दावकः-विका, दविता-त्री, दूयमानः, दविष्यमाणः, प्रदूः-प्रदुवौ-प्रदुवः, 5 दूनम् 6 -दूनः-दूनवान्, दवः, दवितव्यम्, दवनीयम्, दव्यम्- 7 अवश्यदाव्यम्, ईषद्दवः-दुर्दवः-सुदवः, दूयमानः, दवः, दवितुम्, दूतिः, दवनम्, दूत्वा, प्रदूय, दावम् २-दूत्वा
--इति।
प्रासङ्गिक्यः
01
=>
(८५५)
02
=>
(४-दिवादिः-११३३। अक। सेट्। आत्म।)
03
=>
(श्लो। २२)
04
=>
(२३८)
05
=>
[[२। धातोरस्य सेट्त्वेऽपि, ‘श्रयुकः क्किति’ (७-२-११) इति क्ङिति प्रत्यये परतः गुणनिषेधः। तेन निष्ठा, क्तिन्, क्त्वा प्रत्ययेषु इण्णिषेधो ज्ञेयः। अत्र, ‘स्वादय ओदितः’ (ग। सू। दिवादौ) इत्यनेन ओदित्त्वस्यातिदेशात्, ‘ओदितश्च’ (८-२-४५) इति निष्ठानत्वम्।]]
06
=>
[[B। ‘किं सूयसे गिरमदून नितान्तदीनामुड्डीनकाकसम भूपतिधीनमेतत्।’ धा। का। २। ५८।]]
07
=>
[[३। ‘ओरावश्यके’ (३-१-१२५) इति ण्यति, गुणावादेशयो रूपमेवम्।]]
1 {@“श्वठ सम्यगवभाषणे”@} 2 अदन्तः।
‘शठयेत् श्वठयेदेते द्वे सम्यगवभाषणे।’ 3 इति देवः।
“‘-- सम्यगाभाषणे’ इति दुर्गः।
‘सम्यग्भाषणे’ इति शाकटायनः।
सम्यगाभाषणे सम्यक् वचनक्रियायामिति क्षीरस्वामी” इति पुरुषकारः।
प्रकृत- क्षीरतरङ्गिण्यां तु ‘असम्यगाभाषणे’ इत्येव दृश्यते।
श्वठकः-ठिका, शिश्वठयिषकः-षिका, श्वठयिता-त्री, शिश्वठयिषिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि चौरादिकक्लापयतिवत् 4 ज्ञेयानि।
ण्यन्ते तत्प्रकृतिकसन्नन्ते सर्वत्र उपधावृद्धिः
अदन्तपाठसामर्थ्यात्।
5
प्रासङ्गिक्यः
01
=>
(१७९५)
02
=>
(१०-चुरादिः-१८५६। सक सेट्। उभ।)
03
=>
(श्लो। ८१)
04
=>
(२८२)
05
=>
[पृष्ठम्१३३०+ २६]