| YouTube Channel

ण्यन्तात् (NyantAt)

 
कृदन्तरूपमाला
Sanskrit
1 {@‘अर्च पूजायाम्’@} 2 ‘पूजायां णौ विभाषाऽर्चेरर्चयत्यर्चतेऽर्चति।
भूवादौ पाठसामर्थ्यात् कर्तृगामिफलेऽर्चति।।’ 3 इति देवः।
अर्चकः-र्चिका इत्यादिकानां ण्यन्ताण्यन्तसाधारण्येन लिखितत्वात् पूर्वोक्त 4 पूजार्थकार्चतिवद्रूपाणि ज्ञेयानि।
ण्यन्तात् सनि तु अर्चिचयिषकः-षिका, अर्चिचयिष्यम्
अर्चिचयिषिता-त्री, अर्चिचयिष्यमाणः
अर्चिचयिषन्-न्ती, अर्चिचयिषः
अर्चिचयिषिष्यन्-न्ती-ती, अर्चिचयिषितुम्
अर्चिचयिषमाणः, अर्चिचयिषा
अर्चिचयिषिष्यमाणः, अर्चिचयिषणम्
अर्चिचयिषितम्-तः-तवान्, अर्चिचयिषित्वा, समर्चिचयिष्य
अर्चिचयिषुः, अर्चिचयिषम् २, अर्चिचयिषितव्यम्
अर्चिचयिषित्वा २, अर्चिचयिषणीयम्
इमानि रूपाणि--इति विशेषः।
^आ।
‘आधृषाद्वा’ 5 इति णिचो वैकल्पिकत्वम्।
‘शेषात् कर्तरि परस्मैपदम्’ 6 इति णिजभावपक्षे परस्मैपदी।
शाकटायनस्तु अनुदात्तेत्त्वमस्य धातोरङ्गीकृत्यात्मनेपदित्वं ब्रूते।
तत्पक्षे शानचि ‘अर्चमानः’ इति रूपम्।
7
प्रासङ्गिक्यः
01
=>
(३७)
02
=>
(१०-चुरादिः-१८०९। से। उ। ^आ आधृषीयः।)
03
=>
(श्लो। ४९।)
04
=>
(३६)
05
=>
(ग। सू।)
06
=>
(१-३-७८)
07
=>
[पृष्ठम्००३६+ २६]
1 {@“अर्ह पूजायाम्”@} 2 ‘--पूजनेऽर्हति चार्हयेत्।’ 3 इति देवः।
पूर्वोक्तभौवादिकार्हतिवत् 4 रूपाणि सर्वाणि ज्ञेयानि।
ण्यन्तात् सनि तु इमानि रूपाणि-- अर्जिहयिषकः-षिका
अर्जिहयिषितव्यम्
अर्जिहयिषिता-त्री
अर्जिहयिषणीयम्
अर्जिहयिषन्-न्ती
अर्जिहयिष्यम्
अर्जिहयिषिष्यन्-न्ती-ती
ईषदर्जिहयिषः-दुरर्जिहयिषः-स्वर्जिहयिषः
अर्जिहयिषमाणः
अर्जिहयिष्यमाणः
अर्जिहयिषिष्यमाणः
अर्जिहयिषः
अर्जिहयिषितम्-तः-तवान्
अर्जिहयिषितुम्
अर्जिहयिषुः
अर्जिहयिषा
5 अर्जिहयिषणम्
अर्जिहयिषम्
अर्जिहयिषित्वा
अर्जिहयिषित्वा
समर्जिहयिष्य
इति।।
प्रासङ्गिक्यः
01
=>
(४५)
02
=>
(१०-चुरादिः-१७३२-सक। सेट्। उभ।)
03
=>
(१९७)
04
=>
(४४)
05
=>
[पृष्ठम्००४३+ २४]
1 {@“अहि भाषार्थः”@} 2 “अहि भासार्थः” इति क्षीरस्वामी।
अिदित्करणसामर्थ्यात् णिचो वैकल्पिकत्वम्।
णिच्पक्षे, णिजभावपक्षे च, पूर्वोक्तभौवादिकांहति 3 वद्रूपाणि ज्ञेयानि।
परं तु, अस्य धातोः 4 णिजभावपक्षे ‘शेषात् कर्तरि परस्मैपदम्’ 5 इति परस्मैपदित्वमेव।
तदानीं शतरि-अंहन्-न्ती, अंहिष्यन्-न्ती-ती
6 दुरंहः, इति रूपाणि।
ण्यन्तात् सनि तु-- अञ्जि 7 हयिषकः-षिका
अञ्जिहयिष्यम्
ईषदञ्जिहयिषः-इत्यादि
अञ्जिहयिषिता-त्री
अञ्जिहयिष्यमाणः
अञ्जिहयिषन्-न्ती
अञ्जिहयिषः
अञ्जिहयिषिष्यन्-न्ती-ती
अञ्जिहयिषा
अञ्जिहयिषमाणः
अञ्जिहयिषितुम्
अञ्जिहयिषिष्यमाणः
अञ्जिहयिषणम्
अञ्जिहयिषितः-तवान्
अञ्जिहयिषित्वा
अञ्जिहयिषुः
समञ्जिहयिष्य
अञ्जिहयिषितव्यम्
अञ्जिहयिषम्
अञ्जिहयिषित्वा
अञ्जिहयिषणीयम्
इत्यादिरूपाणीति विशेषः।
प्रासङ्गिक्यः
01
=>
(५७)
02
=>
(१०-चुरादिः-१७९८। अक। से। उभ।)
03
=>
(५६)
04
=>
[पृष्ठम्००५६+ २७]
05
=>
(१-३-७८)
06
=>
[[आ। “वीर्यं दुरंहमभिरंहय मंहयाभां मौग्ध्यं प्रलण्डय तोडय निर्भयत्वम्। संनाडयन्त्य इति पूरितरोजशङ्का नार्यो हरेः समरकेलिमसिष्वदन्त।।” धा। का। ३-४७।]]
07
=>
[[१। ‘न न्द्राः संयोगादयः’ (६-१-३) इति नकारस्य द्वित्वनिषेधः। ‘कुहोश्चुः’ (७-४-६२) इति चुत्वम्। अनुस्वारः। परसवर्णश्च।]]
1 {@“आपॢ लम्भने”@} 2 आधृषीयः।
लम्भनम् = प्राप्तिः--इति क्षीरस्वामी।
‘आपयत्यापतीत्यापेर्यौ वा णौ लम्भने पदे।
व्याप्त्यर्थस्यास्य तु स्वादे- राप्नोतीति पदं भवेत्।।’ 3 इति देवः।
आधृषीयत्वात् णिचो वैकल्पिकत्वम्।
णिच्पक्षे रूपाणि पूर्वं लिखि- तस्याप्नोतेरिव 4 ज्ञेयानि।
णिजभावपक्षे ‘शेषात् कर्तरि परस्मैपदम्’ 5 इति परस्मैपदित्वमेव।
तत्र शतरि 6 ‘आपन्-न्ती’ इत्येव रूपम्
शप औत्सर्गिकत्वात्।
ईप्सकः-इत्यादि रूपम्।
ण्यन्तात् सनि तु-- आपिपयिषकः-षिका, आपिपयिष्यम्
आपिपयिषिता-त्री, आपिपयिष्यमाणः
आपिपयिषन्-न्ती, आपिपयिषितुम्
आपिपयिषिष्यन्-न्ती-ती, आपिपयिषः
आपिपयिषमाणः, आपिपयिषा
आपिपयिषिष्यमाणः, आपिपयिषणम्
आपिपयिषितः-तं-तवान्, आपिपयिषित्वा
आपिपयिषुः, समापिपयिष्य
आपिपयिषितव्यम्
आपिपयिषणीयम्
आपिपयिषम्
आपिपयिषित्वा
इति रूपाणि ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(६०)
02
=>
(१०-चुरादिः-१८४०-सक। सेट्। उभ।)
03
=>
(१३७)
04
=>
(५९)
05
=>
(१-३-७८)
06
=>
[[आ। “आपन् खेदमरिं तनञ्जनहितं चिक्रीड गोपेर्हरिः तूर्योत्थो वितनन् ध्वनिर्दिवमगात् दतो यथा वादितः” धा। का। ३-५१।]]
1 {@“ईर क्षेपे”@} 2 ‘ईरयतीरति।
ईरेः क्षेपे विभाषा णौ लुकीर्ते गतिकम्पयोः।’ 3 इति देवः।
‘आधृषाद्वा’ 4 इति णिचो वैकल्पिकत्वम्।
ण्यन्तात् शुद्धाच्च धातोः पूर्वोक्तेरतिवत् 5 रूपाणि सर्वाणि ज्ञेयानि।
णिजभावपक्षे ‘शेषात् कर्तरि परस्मैपदम्’ 6 इति शास्त्रात् शतरि ईरन्-न्ती ईरिष्यन्-न्ती-ती इति रूपाणि--इति विशेषः।
ण्यन्तात् सनि तु-- ईरिरयिषकः-षिका, ईरिरयिष्यम्
ईरिरयिषिता-त्री, ईषदीरिरयिषः
ईरिरयिषन्-न्ती, ईररियिष्यमाणः
ईरिरयिषिष्यन्-न्ती-ती, ईरिरयिषितुम्
ईरिरयिषमाणः, ईरिरयिषा
ईरिरयिषिष्यमाणः, ईरिरयिषणम्
ईरिरयिषितः-तवान्, ईरिरयिषित्वा
ईरिरयिषुः, समीरिरयिष्य
ईरिरयिषितव्यम्, ईरिरयिषम्
ईरिरयिषणियम्
ईरिरयिषित्वा २। -- इत्यादि रूपाणि।
7
प्रासङ्गिक्यः
01
=>
(८४)
02
=>
(१०-चुरादिः-१८११-सक। सेट्। उभ। आधृषीयः)
03
=>
(श्लो। १५३)
04
=>
(ग। सू। चुरादौ)
05
=>
(८३)
06
=>
(१-३-७८)
07
=>
[पृष्ठम्००८६+ २४]
1 {@“गर्ह निन्दायाम्”@} 2 आधृषीयः।
“ण्यन्तस्य ग्रहणे गृहेर्गृहयते तत्रानदन्ताद् गृहेः भूवादेः शपि गर्हते, श्नि तु पदे गृह्णात्यगृह्णीत च।
गर्हेर्वा णिचि निन्दनार्थविषये गर्हेत् तथा गर्हयेत् भूवादेः शपि कुत्सनार्थविषये गर्हेर्भवेत् गर्हते।।” 3 इति देवः।
अस्य धातोराधृषीयत्वात् ‘आधृषाद्वा’ 4 इति णिचो वैकल्पिकत्वम्।
णिच्पक्षे, णिजभावपक्षे कुत्सार्थकभौवादिकगर्हतिवत् 5 सर्वाणि रूपाणि ज्ञेयानि।
णिजभावपक्षे शुद्धात् सनि, यङि तत्र लिखितान्येव रूपाण्यस्यापि।
शुद्धाद्धातोः ‘शेषात् कर्तरि--’ 6 इति शतैव।
7 गर्हन्-न्ती, इति रूपम्।
ण्यन्तात् सनि तु-- 8 जिगर्हयिषकः-षिका, जिगर्हयिषितम्-तः-तवान्, जिगर्हयिषिता-त्री, जिगर्हयिषुः, जिगर्हयिषिषन्-न्ती, जिगर्हयिषितव्यम्, जिगर्हयिषिष्यन्-न्ती-ती, जिगर्हयिषणीयम्, जिगर्हयिषमाणः, जिगर्हयिष्यम्, जिगर्हयिषिष्यमाणः, ईषज्जिगर्हयिषः-दुर्जिगर्हयिषः-सुजिगर्हयिषः, जिगर्हयिट्- 9 जिगर्हयिड्-यिषौ-यिषः, जिगर्हयिष्यमाणः, जिगर्हयिषः
जिगर्हयिषित्वा
जिगर्हयिषितुम्
सञ्जिगर्हयिष्य
जिगर्हयिषा
जिगर्हयिषम्
जिगर्हयिषित्वा २। जिगर्हयिषणम्
इति रूपाणि इति विशेषः।
प्रासङ्गिक्यः
01
=>
(३८६)
02
=>
(१०-चुरादिः-१८४६। अक। सेट्। उभ।)
03
=>
(श्लो। १९४)
04
=>
(ग। सू। चुरादौ)
05
=>
(३८५)
06
=>
(१-३-७८)
07
=>
[[B। ‘वचन्तो मानन्तो हरिविभवमानन्दमखिला बभूबुर्गर्हन्तो मनसि नृपतिं मार्गितखलम्। स्त्रियश्चोत्कण्ठन्त्यो ददृशुरजितं मृष्टतनवः मृपस्त्वेतन्नामर्षत रिपुजनाधर्षितबलः।।’ धा। का। ३। ५२।]]
08
=>
[पृष्ठम्०३७९+ २४]
09
=>
[[१। क्विपि अतो लोपे कृते, ‘झलां जशोऽन्ते’ (८-२-३९) इति डकारः। चर्त्वविकल्पः]]
1 {@“गुप भाषार्थः”@} 2 “णौ गोपयति भाषा3र्थे, निन्दायां से जुगुप्सते।
गोपायेद् रक्षणे त्वाये, व्याकुलत्वे तु गुप्यति।।” 4 इति देवः।
‘भासार्थः’ इति क्षीरस्वामी।
गोपकः-पिका, गोपयिता-त्री, इत्यादीनि रूपाणि पूर्वलिखितदैवादिक- गुपधातोः 5 ण्यन्तस्येव ज्ञेयानि।
ण्यन्तात् सनि तु-- जुगोपयिषकः-षिका, जुगोपयिष्यम्, जुगोपयिषिता-त्री, ईषज्जुगोपयिषः-दुर्जुगोपयिषः-सुजुगोपयिषः
जुगोपयिषन्-न्ती, जुगोपयिष्यमाणः
जुगोपयिषिष्यन्-न्ती-ती, जुगोपयिषः
जुगोपयिषमाणः, जुगोपयिषितुम्
जुगोपयिषिष्यमाणः, जुगोपयिषा
जुगोपयिट्-जुगोपयिषौ-जुगोपयिषः, जुगोपयिषणम्
जुगोपयिषितम्-तः-तवान्, जुगोपयिषित्वा
जुगोपयिषुः, प्रजुगोपयिष्य
जुगोपयिषितव्यम्, जुगोपयिषणीयम्, जुगोपयिषम्
जुगोपयिषित्वा २। इति रूपाणि, इति विशेषः।।
6
प्रासङ्गिक्यः
01
=>
(४१०)
02
=>
(१०-चुरादिः-१७७२। अक। सेट्। उभ। आस्वदीयः।)
03
=>
(सा)
04
=>
(श्लो। १२९)
05
=>
(४०९)
06
=>
[पृष्ठम्०३९९+ २६]
1 {@“गुर्द पूर्वनिकेतने”@} 2 ‘पूर्वनिकेनतम् = पूर्वव्यवहार इत्येके।’ इति धा।
का।
व्याख्या।
पूर्वनिकेनतम् = आद्यनिवासः, इति क्षीरस्वामी।
‘पूर्व’ इति धात्वन्तरमिति केचित्।
गूर्दकः-गुर्दकः-र्दिका, गुर्द 3 यिता-त्री, गुर्दितम्- 4 तः-तवान्, इत्यादीनि रूपाणि भौवादिककूर्दधातौ 5 ण्यन्तरूपवत् ज्ञेयानि।
ण्यन्तात् सनि तु -- 6 जुगूर्दयिषकः-षिका, जुगूर्दयिषितः-तवान्
जुगूर्दयिषिता-त्री, जुगूर्दयिषुः
जुगूर्दयिषन्-न्ती, जुगूर्दयिषितव्यम्
जुगूर्दयिषिष्यन्-न्ती-ती, जुगूर्दयिषणीयम्
जुगूर्दयिषमाणः, जुगूर्दयिष्यम्
जुगूर्दयिट्-जुगूर्दयिषौ-जुगूर्दयिषः, ईषज्जुगूर्दयिषः- 7 दुर्जुगूर्दयिषः-सुजुगूर्दयिषः, जुगूर्दयिषणम्
जुगूर्दयिष्यमाणः, जुगूर्दयिषित्वा
जुगूर्दयिषः, प्रजुगूर्दयिष्य
जुगूर्दयिषितुम्, जुगूर्दयिषा, जुगूर्दयिषम्
जुगूर्दयिषित्वा २। इति रूपाणि, इति विशेषः।
प्रासङ्गिक्यः
01
=>
(४१५)
02
=>
(१०-चुरादिः-१६६६। अक। सेट्। उभ।)
03
=>
(गूर्द)
04
=>
[[C। ‘खेदस्त्वियान् पटहगर्दनगर्जिताशे रङ्गे सगर्धनसुगुर्दितवीरलोके।’ धा। का। ३-३१।]]
05
=>
(२३०)
06
=>
[[३। ‘उपधायां च’ (८-२-७८) इति सर्वत्र दीर्घः। ‘ह्रस्वः’ (७-४-५९) इति अभ्यासह्रस्वः। ‘र्वोरुपधायाः--’ (८-२-७८) इति दीर्घस्य वैकल्पिकत्वे ‘जुगुर्दयिषकः- षिका’ इति रूपमपि साधु। एवं सर्वत्र। दीर्घस्य वैकल्पिकत्वे प्रमाणं तु २३०- धातुटिप्पणे निरूपितम्।]]
07
=>
[पृष्ठम्०४०५+ २५]
1 {@“गृ विज्ञाने”@} 2 आकुस्मीयः।
‘ज्ञाने गारयते, गिरेन्निगरणे, शब्दे गृणाति त्रयं युक्तं, ग्रो गरतीति सेकविषये ह्रस्वान्तधातोः शपि।’ 3 इति देवः।
गारकः-रिका, गारयिता-त्री, 4 गारितम्-तः-तवान्
इत्यादीनि सेचनार्थकभौवादिकगृधातुवत् 5 ण्यन्ताद्रूपाणि सर्वाणि बोध्यानि।
ण्यन्तात् सनि तु -- जिगारयिषकः-षिका, ईषज्जिगारयिषः-दुर्जिगारयिषः-सुजिगारयिषः
जिगारयिषिता-त्री, जिगारयिष्यमाणः
6 जिगारयिषमाणः, जिगारयिषः
जिगारयिषिष्यमाणः, जिगारयिषितुम्
जिगारयिट्-जिगारयिषौ-जिगारयिषः, जिगारयिषा
जिगारयिषितः-तवान्, जिगारयिषणम्
जिगारयिषुः, जिगारयिषित्वा
जिगारयिषितव्यम्, प्रजिगारयिष्य
जिगारयिषणीयम्, जिगारयिष्यम्, जिगारयिषम्
जिगारयिषित्वा २। इति रूपाणीति विशेषः।
प्रासङ्गिक्यः
01
=>
(४२१)
02
=>
(१०-चुरादिः-१७०८। सक। सेट्। आत्म।)
03
=>
(श्लो। ३३)
04
=>
[[आ। ‘इत्यादि वाद्यशतदेवनमध्य एव लोकः समालपदगारितकृष्णवीर्यः।’ धा। का। ३-३७।]]
05
=>
(४२०)
06
=>
[[१। ‘आकुस्मादात्मनेपदिनः’ (गणसूत्रं चुरादौ) इति वचनात् ण्यन्तात् आत्मनेपदमेव।]]
1 {@“घृ प्रस्रवणे”@} 2 स्रावणे इत्येके।
संप्रस्रवणे इति मा।
धा।
वृत्तौ।
‘यद्दीप्तौ क्षरणे जिघर्त्ति तदिदं केचिद्विदुश्छान्दसम्।।’ 3 इति देवः।
घारकः-रिका, घारयिता-त्री, घारयन्-न्ती, 4 धारितम्, इत्यादीनि रूपाणि सेचनार्थकगृधातुवत् 5 बोध्यानि।
ण्यन्तात् सनि तु इमानि रूपाणि--जिघारयिषकः-षिका, जिघारयिषिता-त्री
जिघारयिषन्-न्ती, जिघारयिषिष्यन्-न्ती-ती, जिघारयिषमाणः, जिघारयि- षिष्यमाणः, जिघारयिट् - जिघारयिषौ - जिघारयिषः, जिघारयिषितः- तवान्, जिघारयिषः, जिघारयिषितव्यम्, जिघारयिषणीयम्, जिघारयिष्यम्, ईषद्जिघारयिषः-दुर्जिघारयिषः-सुजिघारयिषः, जिघारयिष्यमाणः, जिघारयिषः, जिघारयिषितुम्, जिघारयिषा, जिघारयिषणम्, जिघारयिषित्वा, प्रजिघारयिष्य, जिघारयिषम् २, जिघारयिषित्वा २। इति।
6
प्रासङ्गिक्यः
01
=>
(४७७)
02
=>
(१०-चुरादिः-१६५१। सक। अनि। उभ।)
03
=>
(श्लो। ३३)
04
=>
[[B। ‘इत्थं सुगाजितमृदङ्गविमार्जनानि संवार्य मर्चयति घारितशङ्कमस्मिन्।’ धा। का। ३। २८।]]
05
=>
(४२०)
06
=>
[पृष्ठम्०४६३+ २६]
1 {@“चन श्रद्धोपहननयोः”@} 2 आधृषीयः।
“तनु श्रद्धोपकरणयोः, उपसर्गात् दैर्घ्ये च” इत्यस्य पाठान्तरमिदम्।
अस्य, आधृषीयत्वेन णिचो वैकल्पिकत्वात्, णिजभावपक्षे शुद्धात्-सन्नन्तात् 3 यङन्ताच्च भौवादिकचनधातुवत् 4 रूपाणि ज्ञेयानि।
ण्यन्तात्, ण्यन्तप्रकृतिकसन्नन्ताच्च इमानि रूपाणि -- चानकः-निका, चिचानयिषकः-षिका
चानयिता-त्री, चिचानयिषिता-त्री
चानयन्-न्ती, चिचानयिषन्-न्ती
चानयिष्यन्-न्ती-ती, चिचानयिषिष्यन्-न्ती-ती
चानयमानः, चिचानयिषमाणः
चानयिष्यमाणः, चिचानयिषिष्यमाणः
विचान्-विचानौ-विचानः
-- -- चानितः, चिचानयिषितः-तवान्
चानः, चिचानयिषुः
चानयितव्यम्, चिचानयिषितव्यम्
चाननीयम्, चिचानयिषणीयम्
चान्यम्, चिचानयिष्यम्
ईषच्चानः-दुश्चानः-सुचानः
चान्यमानः, चिचानयिष्यमाणः
चानः, िचानयिषः
चानयितुम्, चिचानयिषितुम्
चानना, चिचानयिषा
चाननम्, चिचानयिषणम्
चानयित्वा, चिचानयिषित्वा
प्रचान्य, प्रचिचानयिष्य
चानम् २, चानयित्वा २, चिचानयिषम्
चिचानयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(४९५)
02
=>
(१०-चुरादिः-१८४१। सक। सेट्। उभ।)
03
=>
[पृष्ठम्०४७७+ २८]
04
=>
(४९४)
1 {@“चर्च अध्ययने”@} 2 -- ‘अध्ययने चर्चयेत् चर्चतीति तु।
हिंसायां तर्जने शेतु तथैव परिभाषणे।।’ 3 इति देवः।
4 अस्य धातोः ण्यन्ते सर्वाणि रूपाणि भौवादिकचर्चतिवत् 5 बोध्यानि।
शतरि 6 सञ्चर्चयन्-न्ती।
क्तिन्विषये तु ‘ण्यासश्रन्थो युच्’ 7 इति युजपवादः, ‘चिन्तिपूजिकथिकुम्बिचर्चश्च’ 8 इत्यादिना अङ् भवति, इति विशेषः।
ण्यन्तात् सनि तु रूपाणि लिख्यन्ते -- चिचर्चयिषकः-षिका, चिचर्चयिषिता-त्री, चिचर्चयिषन्-न्ती, चिचर्चयिषिष्यन्-न्ती-ती
चिचर्चयिषमाणः, चिचर्चयिषिष्यमाणः, चिचर्चयिट्-यिषौ-यिषः, चिचर्चयिषितः-तवान्, चिचर्चयिषुः, चिचर्चयिषितव्यम्, चिचर्चयिषणीयम्, चिचर्चयिष्यम्, ईषच्चिचर्चयिषः इत्यादि, चिचर्चयिष्यमाणः, चिचर्चयिषः, चिचर्चयिषितुम्, चिचर्चयिषा, चिचर्चयिषणम्, चिचर्चयिषित्वा, -- प्रचिचर्चयिष्य, -- चिचर्चयिषम्
चिचर्चयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(५०७)
02
=>
(१०-चुरादिः-१७१३। सक। सेट्। उभ।)
03
=>
(श्लो। ५४)
04
=>
[पृष्ठम्०४९१+ २७]
05
=>
(५०५)
06
=>
[[आ। ‘सञ्चर्चयन् अपनयानथ बुक्कयिष्णुः श्वेवोग्रशब्दनपरः कररुद्धकाणः। मल्लो जिजम्भिषुरसूदितवीर्यमीशं मुष्ट्या जजास बहु पाशितवांश्च दोष्णा।।’ धा। का। ३-३८।]]
07
=>
(३-३-१०७)
08
=>
(३-३-१०५)
1 {@“चल भृतौ”@} 2 भृतिः = भरणम्, पोषणमिति यावत्।
‘--भृत्यां चालयेत्, कम्पने चलेत्।’ 3 इति देवः।
चालकः-लिका, 4 चाल्यम्, इत्यादीनि रूपाणि सर्वाण्यपि ण्यन्तात् भौवादिकचलतिवत् 5 ऊह्यानि।
ण्यन्तात् सनि तु-- चिचालयिषकः-षिका, चिचालयिषिता-त्री, चिचालयिषन्-न्ती, चिचालयिषिष्यन्-न्ती-ती, चिचालयिषमाणः, चिचालयिषिष्यमाणः, चिचालयिट्-यिषौ-यिषः, चिचालयिषितम्-तः-तवान्
चिचालयिषुः, चिचालयिषितव्यम्, चिचालयिषणीयम्
चिचालयिष्यम्, ईषच्चिचालयिषः-दुश्चिचालयिषः-सुचिचालयिषः चिचालयिष्यमाणः, चिचालयिषः, चिचालयिषितुम्
चिचालयिषा, चिचालयिषणम्, चिचालयिषित्वा, प्रचिचालयिष्य
चिचालयिषम्
चिचालयिषित्वा २। इति रूपाणीति विशेषः।
इति रूपाणीति विशेषः।
6
प्रासङ्गिक्यः
01
=>
(५१२)
02
=>
(१०-चुरादिः-१६०८। सक। सेट्। उभ।)
03
=>
(श्लो। १५८)
04
=>
[[B। ‘काल्यप्रवेदनकरोऽयमवेलयद् द्राग् अन्याश्च तेलितकृपः खलु कंसचाल्यान्।’ कंसचाल्यान् = कंसपोष्यान् इत्यर्थः। धा। का। ३-२२।]]
05
=>
(५१०)
06
=>
[पृष्ठम्०४९४+ २४]
1 {@“छृदी सन्दीपने”@} 2 ‘छृद--’ इति केचित् पठन्ति।
‘छृदी सन्दीपने वा णौ छर्दयेच्छर्दतीत्युभे।
छृन्ते छृणत्तीति पदे दीप्तिदेवनयोः श्नमि।।’ 3 इति देवः।
अस्य धातोः आधृषीयत्वेन णिज्विकल्पः।
ण्यन्तात्, णिजभावपक्षे शुद्धात् शुद्ध- प्रकृतिकसन्नन्तात्-यङन्ताच्च छर्दकः र्दिका, छर्दकः-र्दिका, 4 चिच्छर्दिषकः-षिका, चरीच्छृदकः-दिका
इत्यादीनि सर्वाण्यपि रूपाणि रौधादिकछर्दतिवत् 5 ज्ञेयानि।
निष्ठायाम्- 6 छर्दितः।
ण्यन्तात् सनि तु इमानि रूपाणीति विशेषः।
चिच्छर्दयिषकः-षिका, चिच्छर्दयिषिता-त्री, चिच्छर्दयिषन्-न्ती, चिच्छर्द- यिषिष्यन्-न्ती-ती, चिच्छर्दयिषमाणः, चिच्छर्दयिषिष्यमाणः, 7 चिच्छर्दयिट्- यिषौ-यिषः, चिच्छर्दयिषितः-तवान्, चिच्छर्दयिषुः, चिच्छर्दयिषितव्यम्, चिच्छर्दयिषणीयम्, चिच्छर्दयिष्यम्, ईषच्चिच्छर्दयिषः-दुश्चिच्छर्दयिषः- सुचिच्छर्दयिषः, चिच्छर्दयिष्यमाणः, चिच्छर्दयिषितुम्, चिच्छर्दयिषा, चिच्छर्दयिषणम्, चिच्छर्दयिषित्वा, प्रचिच्छर्दयिष्य, चिच्छर्दयिषम् २, चिच्छर्दयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(५७४)
02
=>
(१०-चुरादिः-१८२१। सक। सेट्। उभ। आधृषीयः)
03
=>
(श्लो। ११५)
04
=>
[[२। ‘सेऽसिचि--’ (७-२-५७) इति इड्विकल्पः नास्य धातोर्भवति। तत्र रुधादि- साहचर्येण, ‘उ छृदिर्--’ इति रौधादिकधातोरेव ग्रहणात्। अत एवात्र धातौ ईदित्करणं सार्थकम्। अन्यथा, णिजभावपक्षे, ‘सेऽसिचि-’ (७-२-५७) इतीड्वि- कल्पनेन, ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधे सिद्धे ईदित्करणं व्यर्थं स्यात्। प्रकृते तु णिजभावपक्षे शुद्धे ‘श्वीदितः--’ (७-२-१४) इतीण्णिषेधः।]]
05
=>
(५७३)
06
=>
[[आ। ‘प्रजहार हरिं रणेष्वतर्पन् सुदृढं छर्दितमन्युरप्रदर्भन्।।’ धा। का। ३। ४९।]]
07
=>
[[३। अतो लोपे जश्त्वचर्त्वयोः रूपम्।]]
1 {@“ज्रि वयोहानौ”@} 2 “जॄ--’ इति चौरादिकघातोर्नन्दिसम्मतः पाठ एवम्” इति मा।
धा।
वृत्तौ।
आधृषीयत्वेनास्य धातोर्णिज्विकल्पः।
णिच्पक्षे, णिजभावपक्षे च, शुद्धात् सन्नन्तात् यङन्ताच्च जिधातुवत् 3 धातुस्वरूपनिबन्धनकार्याणि विना बोध्यानि।
ण्यन्तात् सनि तु-- जिज्राययिषकः-षिका, जिज्राययिषिता-त्री, जिज्राययिषन्-न्ती, जिज्राय- यिषिष्यन्-न्ती-ती, जिज्राययिषमाणः, जिज्राययिषिष्यमाणः, जिज्राययिट्- यिषौ-यिषः, जिज्राययिषितः-तवान्, जिज्राययिषुः जिज्राययिषितव्यम्, जिज्राययिषणीयम्, जिज्राययिष्यम्, ईषज्जिज्राययिषः-दुर्जिज्राययिषः-सुजि- ज्राययिषः, जिज्राययिष्यमाणः, जिज्राययिषः, जिज्राययिषितुम्, जिज्राय- यिषा, जिज्राययिषणम्, जिज्राययिषित्वा, प्रजिज्राययिष्य, जिज्राययिषम् २, जिज्राययिषित्वा
इति रूपाणीति विशेषः।
4
प्रासङ्गिक्यः
01
=>
(६३०)
02
=>
(१०-चुरादिः-१८१६। सक। सेट्। उभ। आधृषीयः।)
03
=>
(५९९)
04
=>
[पृष्ठम्०५९९+ २७]
1 {@“णू स्तवने”@} 2 कुटादिः।
‘--स्तुत्यां नुवति, नौति वा।।’ 3 इति देवः।
नावकः-विका, 4 नुविता-त्री, नुवन्-ती-न्ती, नुविष्यन्-न्ती-ती, प्रणूः, 5 प्रण्वौ-प्रण्वः, 6 नूतम्-नूतः-नूतवान्, नुवः, नुवितव्यम्, नुवनीयम्, नव्यम्, 7 अवश्यनाव्यम्, ईषन्नुवः-दुर्नुवः-सुनुवः, नूयमानः, नुवः-नुवितुम्, 8 9 नूतिः, नुवनम्, नूत्वा, प्रणूय, नावम् नूत्वा इति शुद्धाद्धातो रूपाणि।
ण्यन्तात्, सन्नन्तात् यङन्ताच्च क्रमेण नावकः-विका, नुनूषकः, षिका, नोनूयकः-यिका
इत्यादीनि रूपाणि आदादिकनौतिवत् 10 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(६८६)
02
=>
(६-तुदादिः-१३९७। सक। सेट्। पर।)
03
=>
(श्लो। २४)
04
=>
[[२। अस्य धातोः कुटादिषु पाठात् ‘गाङ्कुटादिभ्यः--’ (१-२-१) इति ञित्णिद्- भिन्नानां प्रत्ययानां ङिद्वद्भावातिदेशात् ‘क्ङिति च’ (१-१-५) इति गुणनिषेधे, उवङादेशे नुविता नुविष्यन् इत्यादीनि रूपाणि बोध्यानि।]]
05
=>
[[३। क्विबन्ते द्विवचनादौ ‘उपसर्गादसमासेऽपि--’ (८-४-१४) इति णत्वे, ‘ओः सुपि’ (६-४-८३) इति यण्।]]
06
=>
[[४। अस्य कुटादित्वात् विशेषविहितेन ङिद्वद्भावेन क्तप्रत्ययस्य कित्त्वं बाध्यते। अतश्च ‘श्र्युकः क्किति’ (७-२-११) इति निषेधाप्रवृत्त्या इडागमे ‘नुवितः-तवान्’ इति केचिद्वदन्ति। तत्तु समीचीनम्। अत एव ‘गाड्कुटादिम्यः--’ (१-२-१) इति सूत्रे भाष्ये--‘तस्मात् नूत्वा धूत्वा इत्येव भवितव्यम्।’ इत्युक्तिः सङ्गच्छते।]]
07
=>
[[५। ‘ओरावश्यके’ (३-१-१२५) इति ण्यत्। आवादेशः।]]
08
=>
[पृष्ठम्०६३६+ २४]
09
=>
[[आ। ‘नूत्या किं भयधूतविद्रुतगुवल्लोकं तदा तद्ध्रुवत् कोदण्डं कुवमानमैक्षि दलितं भोजेश्वराकूतवत्।।’ धा। का। २। ८२।]]
10
=>
(६८३)
1 {@“तप दाहे”@} 2 आधृषीयः।
‘सन्तापेऽर्थे तपेद् दाहे तापयेत् तपते तपेत्।’ 3 इति देवः।
अस्य धातोः आधृषीयत्वात् णिचो वैकल्पिकत्वं बोध्यम्।
ण्यन्तात्, शुद्धात्, सन्नन्तात्, यङन्ताच्च पूर्वोक्तभौवादिकतपधातुवत् 4 सर्वाण्यपि रूपाणि ज्ञेयानि।
अस्योभयपदित्वात् शानचि--तपमानः-तप्स्यमानः, तितप्समानः, तितप्सिष्यमाणः, इत्यादीनि रूपाण्यधिकानि भवन्ति, इति विशेषः।
5 चित्ततापी इति शुद्धाद्धातोर्णिनिप्रत्यये।
ण्यन्तात् सनि इमानि रूपाणि-- यथा--तितापयिषकः-षिका, तितापयिषिता-त्री, तितापयिषन्-न्ती, तिता- पयिषिष्यन्-न्ती-ती, तितापयिषमाणः, तितापयिषिष्यमाणः, तितापयिट्-ड्- यिषौ-यिषः
तितापयिषितः-तवान्, तितापयिषुः, तितापयिषितव्यम्, तितापयिषणीयम्, तितापयिष्यम्, ईषत्तितापयिषः-दुस्तितापयिषः-सुतिता- पयिषः, तितापयिष्यमाणः, तितापयिषः, तितापयिषितुम्, तितापयिषा, तितापयिषणम्, तितापयिषित्वा, संतितापयिष्य, तितापयिषम् २, तिता- पयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(७०५)
02
=>
(१०-चुरादिः-१८१९। सक। सेट्। उभ।)
03
=>
(श्लो। १३१)
04
=>
(७०४)
05
=>
[[आ। ‘अजरद्वृषवद् विरिक्तपीडः पुनरभ्येत्य विशिष्टचित्ततापि।’ धा। का। ३। ४९।]]
1 {@“पॄ पूरणे”@} 2 ‘पृणाति पूरणे, श्लौ तु पिपर्त्ति, णिचि पारयेत्।।’ 3 इति देवः।
पारकः-रिका, पिपारयिषकः-षिका, पारकः-रिका, पुपूर्षकः-र्षिका, पिपरीषकः-पिपरिषकः-षिका, पोपुरकः-रिका
इत्यादीनि सर्वाण्यपि रूपाणि ण्यन्तात्, ण्यन्तप्रकृतिकसन्नन्तात् शुद्धात् तदुपरि सन्नन्तात् यङन्ताच्च यथायथं जौहोत्यादिकपृधातुवत् 4 बोध्यानि।
ण्यन्तात् सनि--पिपारयिषिता-त्री, पिपारयिषन्-न्ती, पिपारयिषिष्यन्- न्ती-ती
पिपारयिषमाणः, पिपारयिषिष्यमाणः, पिपारयिट्-यिषौ-यिषः, पिपारयिषितम्-तः-तवान्, पिपारयिषुः, पिपारयिषितव्यम्, पिपारयिषणीयम्, पिपारयिष्यम्, ईषत्पिपारयिषः-दुष्पिपारयिषः-सुपिपारयिषः, पिपारयिष्यमाणः, पिपारयिषः, पिपारयिषितुम्, पिपारयिषा, पिपारयिषणम्, पिपारयिषित्वा, प्रपिपारयिष्य, पिपारयिषम् २-पिपारयिषित्वा २, इतीमानि रूपाणीति विशेषः।
णिजभावपक्षे शुद्धात् शतरि-परन्-न्ती, परिष्यन्-न्ती-ती इति रूपाणीति विशेषः।
5
प्रासङ्गिक्यः
01
=>
(१०५७)
02
=>
(१०-चुरादिः-१५४८। सक। सेट्। उभ।)
03
=>
(श्लो। ३६)
04
=>
(१०५२)
05
=>
[पृष्ठम्०८९४+ २७]
1 {@“लु2न्च अपनयने”@} 3 4 “केचिदमुमुदितं पठन्ति, तदनार्षम्
राजदन्तादिषु 5 ‘मृष्टलुचितम्’ इति पाठात्” इति मा।
धा।
वृत्तिः।
अयं भावः--उदित्त्वेन क्त्वायामिड्विक- ल्पनात् ‘यस्य विभाषा’ 6 इति निष्ठायामिण्निषेधः स्यात् इति।]] 7 लुञ्चकः-ञ्चिका, लुञ्चकः-ञ्चिका, लुलुञ्चिषकः-षिका, लोलुचकः-चिका
लुञ्चिता-त्री, लुञ्चयिता-त्री, लुलुञ्चिषिता-त्री, लोलुचिता-त्री
8 लुञ्चन्-न्ती, लुञ्चयन्-न्ती, लुलुञ्चिषन्-न्ती
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिक- कुञ्चतिवत् 9 ज्ञेयानि।
लुञ्चितम्, 10 लुञ्चित्वा-लुचित्वा, इमानि रूपाण्यधि- कानीति विशेषः।
क्विपि-लुक्-लुञ्चौ-लुञ्चः
ण्यन्तात् तु लुन्-लुञ्चौ-लुञ्चः
इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१५०९)
02
=>
[ञ्च]
03
=>
(१-भ्वादिः-१८७। सक। सेट्। पर।)
04
=>
[[[अ]
05
=>
(२-२-३१)
06
=>
(७-२-१५)
07
=>
[पृष्ठम्११७३+ २५]
08
=>
[[आ। ‘चुकोच यत्रोत्कुचिताङ्गमुन्मुदः क्रौञ्चोऽपि लुञ्चन् हृदि सम्यगार्तताम्।।’ धा। का। १-२५।]]
09
=>
(२२२)
10
=>
[[१। क्त्वायाम् ‘वञ्चिलुञ्च्युतश्च’ (१-२-२४) इति कित्त्वविकल्पनात् पक्षे नलोपे रूपद्वयम् इति ज्ञेयम्।]]
1 {@“वद सन्देशवचने”@} 2 आधृषीयः।
तेन णिज्विकल्पः।
‘--भाषणे’ इति हेमचन्द्र-जैन-कातन्त्रादयः।
‘--वाक्सन्देशयोः’ इति वोपदेवः।
‘-- वचने च’ इति द्रुमे इति धा।
का।
3।
‘व्यक्तवाचि वदेद्वा णौ वादयेद् वदते वदेत्।’ 4 इति देवः।
अयं धातुः आत्मनेपदी इति शाकटायनः इति मा।
धा।
वृत्तिः।
वादकः-दिका, विवादयिषकः-षिका
वादकः-दिका, विवदिषकः-षिका, वावदकः-दिका
वादयिता-त्री, विवादयिषिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि ण्यन्तात् सननन्तं विना पूर्वलिखितभौवादिकवदतिवत् 5 ऊह्यानि।
ण्यन्तात् सन्नन्ते इमानि रूपाणीति ज्ञेयम् -- विवादयिषिता-त्री, विवादयिषन्-न्ती, विवादयिषिष्यन्-न्ती-ती, विवा- दयिषमाणः, विवादयिषिष्यमाणः, विवादयिट्-यिषौ-यिषः
विवादयिषितम्-तः- तवान्
विवादयिषुः, विवादयिषितव्यम्, विवादयिषणीयम्, विवादयिष्यम्, ईषद्विवादयिषः-दुर्विवादयिषः-सुविवादयिषः
विवादयिष्यमाणः, विवादयिषः, विवादयिषितुम्, विवादयिषा, विवादयिषणम्, विवादयिषित्वा, प्रविवादयिष्य, विवादयिषम् २, विवादयिषित्वा इति।
प्रासङ्गिक्यः
01
=>
(१५४८)
02
=>
(१०-चुरादिः-१८४२। सक। सेट्। उभ।)
03
=>
(३-५१)
04
=>
(श्लो। १०९)
05
=>
(१५४७)