| YouTube Channel

णुद (Nuda)

 
शब्दसागरः
English
णुद r. 6th cl. (औ) औणुद (नुनति नुदते) 1. To cast, to command, to direct,
to throw or send
the act of ordering being considered analogous
to that of throwing.
2. To go or proceed. With अप, To remove.
With निर् 1. To throw out.
2. To confess, to acknowledge. With वि,
To be happy. With सं in the causal, To drive, (as horses.)
Wilson
English
णुद r. 6th cl. (औ) औणुद (नुदति नुदते)
1 To cast, to command, to direct, to throw or send
the act of ordering being
considered analogous to that of throwing.
2 To go or proceed.
With अप, To remove.
With निर्,
1 To throw out.
2 To confess, to acknowledge.
With वि, To be happy.
With सं in the causal To drive, (as horses.)
Shabdartha Kaustubha
Kannada
णुद - प्रेरणे (तुदा० उभ० सक० अनि०) नुदति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ಪ್ರೇರಿಸು /ತಳ್ಳು /ನೂಕು
प्रयोगाः - > "मन्दं मन्दन्नुदति पवनश्चानुकूलो यथा त्वाम्"
उल्लेखाः - > मेघ० १-९
णुद - प्रेरणे (तुदा० उभ० सक० अनि०) नुदति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ನಿವಾರಿಸು /ಹೋಗಲಾಡಿಸು
प्रयोगाः - > "प्रसह्य तेजोभिरसङ्ख्यतां गतैरदस्त्वया नुत्तमनुत्तमं तमः"
उल्लेखाः - > माघ० १-२७
णुद - प्रेरणे (तुदा० उभ० सक० अनि०) नुदति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ಹೊಡೆದೋಡಿಸು
प्रयोगाः - > "नुनुदे तनुकण्डु पण्डितः पटुचञ्चूपुटकोटिकुट्टनैः"
उल्लेखाः - > नैष० २-४
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
नुद्
मूलधातुः:
णुद
धात्वर्थः:
प्रेरणे
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
नुदति-ते
धातुः:
नुद्
मूलधातुः:
णुद
धात्वर्थः:
प्रेरणे
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
नुदति
धातुप्रदीपः
Sanskrit
णुदँ नुद प्रेरणे
- नुदति नुदते प्रणुदते नुनोद नोत्ता नुत्तं नुन्नम् पुनः परस्मैपदिष्वयं पठिष्यते कर्त्रभिप्राये क्रियाफलेऽपि परस्मैपदार्थम् 2
णुदँ नुद प्रेरणे
- नुदति नुनोद नोत्ता 152
शब्दकल्पद्रुमः
Sanskrit
णुद, प्रेरणे इति कविकल्पद्रुमः
(तुदां-उभं-सकं-अनिट् ।) श, नुदति नुदतेशरं योधः औ, नोत्ता इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
णुद प्रेरणे तुदा०
उभ०
सक०
अनिट् नुदति--ते प्रणुदतिअनौस्मीत् अनुत्त नुनोद नुनुदे नोत्ता नोत्स्यति तेनोदनम् नोत्तुम् नुन्नः नुत्तः “मन्दं मन्दंनुदति पवनश्चानुकूलो यथा त्वाम्” मेघ० खण्डनेअपसारणे नुनुदे तनुकण्डु पण्डितः” नैष० अद-स्त्वया नुन्नमनुचमं तमः” माघः “प्रणुद्यान्मेवृजिनं देवदेवः” हरिवं १३१ अ० “विधिना संप्रणु-दितः” भा० व० अ० अनुदात्तेत्त्वेऽपि इट् आर्षः ।नोदं करोतीति णिच् नोदयति नोदितः नोद्यमानः ।“ते नोद्यमाना विधिवत् बाहुकेन हयोत्तमा” भा० व०७१ अ० “अङ्कुशाङ्गुष्ठनोदिताः” भो० १९ अ० ।धातुपाठे स्वरित्सु णुद प्रेरण इति पाठेऽपि पुन-स्तथैबोत्तरत्र पाठः कर्त्रभिप्राये क्रियाफलेऽपि परस्मै-पदार्थः” सि० कौ० ।अप + अपसारने “जरां रोगमपनुद्य शरिरात्” साङ्ख्या० गृ०“आच्छाद्य महाबाहुर्वलात्तृष्णानपानुदत्” भा० आश्व०६२ अ० “अलक्ष्मीं व्यपनोत्स्यथ” भा० व० ११५ अ० ।“अभिद्रवार्जुन! क्षिप्रं कुरून् द्रोणदापानुद” भा० द्रो०१९० अ० ।परा + अपसारणे “तन्न पराणुद विभो! कश्मलं मानसंमहत्” भाग० श्लो० ।प्र + प्रकर्षेण नोदने चालने “स शत्रुसेनां तरसा प्रणुद्य”भा० वि० ६४ अ० अपसारणे “ततोऽन्धकारं प्रणुदन्नुद-तिष्ठत चन्द्रमाः” भा० व० ३३ अ० ।वि + विशेषणे नोदने “चोदयामास तानश्वात् विनुन्नाद्भीष्म-सायकैः” भा० भी० ४८४६ श्लो० णिजन्तस्य दुःखा-द्यपसारणे “लक्ष्मीविर्नोदयति येन दिगन्तलम्बी” रघःमल्लिनाथस्तु तत्करोतीत्यर्थे नामधातुरयमित्याह ।“पुष्पं फलं चार्त्तवमाहरस्व विनोदयिष्यन्ति नवाभि-षङ्गादु” रघुः “कथं वा देवी सरुजत्वात् विनोद्यते”मालविकाग्नि० “लोलं विनोदय मनः सुमनोलतासु” ।सा० द०
क्षीरतरङ्गिणी
Sanskrit
णुदँ णुद प्रेरणे
- प्रणुदति प्रणुदते नोत्ता नुदविदोन्दत्रा (8256) इति वा निष्ठानत्वं-नुत्तः, नुन्नः ग्लानुदिभ्यां डौ (उ0 264)-नौः 2
णुदँ णुद प्रेरणे
- नुदति तुन्दशोकयोः परिमृजापनुदोः (325) कः-शोकापनुदः पुत्रः नुदिस्तुदेरनन्तरं पठितः (62) स्वरितेत्, तस्मादिह परस्मैपदिमध्ये पाठ्यः 145
धातुवृत्तिः
Sanskrit
णुदँ णुद (अर्थः) प्रेरणे
( प्रणुदते प्रणुदति ) इत्यादि तुदिवत् "उपर्गादसमासेऽपि'' इति णत्वम् ( नुत्वा नुत्तः नुन्नः नुत्तवान् नुन्नवान् ) "नुदविद'' इति नत्वविकल्पः काकुर्जिह्वा सास्मिन्नुद्यते इति काकुदं तालु "घञर्थे कविधानम्'' इति कः पृषोदरादित्वान्नुशब्दलोपः पररूपं ( शोकापनुदः ) "तुन्दशोकयोः परिमृजापनुदोः'' इत्यनयोः कर्मणोरुपपदयोः परिमृजापनुदोः कप्रत्ययः कर्मण्यणोपवादः अयं शोकमपनुद्य सुखस्याहर्त्तरि, [ आलस्यसुखाहरणयोरिति वक्तव्यम् ] इति वचनात् यस्तु दुःख्रामेकमपनुदति सुखं नाहरति तत्राणि शोकापनोद इति भवति अयं परस्मैपदिष्वपि पठ्यते तेनायं भाषायां परस्मैपद्येवेति वर्द्धमानः स्वाम्यपि तथा परस्मैपदिष्वेवामुं पपाठ उभयमात्रेयमैत्रेयाद्यनेकव्याख्याविरुद्धम्, यदाहुरुभयपदिषु पठितस्यास्य पुनः परस्मैपदिषु पाठः कर्त्रभिप्रायेऽपि परस्मैपदार्थ इति 2
णुदँ णुद (अर्थः) प्रेरणे
कर्त्रभिप्रायेऽपि क्रियाफले परस्मैपदार्थः पुनः पाठः, ( नुदति ) इत्यादि रूपं पूर्ववत् 142
कृदन्तरूपमाला
Sanskrit
1 {@“णुद प्रेरणे”@} 2 नोदकः-दिका, नोदकः-दिका, 3 नुनुत्सकः-त्सिका, नोनुदकः-दिका
4 नोत्ता-त्री, नोदयिता-त्री, नुनुत्सिता-त्री, नोनुदिता-त्री
5 6 नुदन् ती-न्ती, नोदयन्-न्ती, नुनुत्सन्-न्ती
-- नोत्स्यन्-न्ती-ती, नोदयिष्यन्-न्ती-ती, नुनुत्सिष्यन्-न्ती-ती
-- नुदमानः, 7 प्रणुदमानः, नोदयमानः, नुनुत्समानः, नोनुद्यमानः
नोत्स्यमानः, नोदयिष्यमाणः, नुनुत्सिष्यमाणः, नोनुदिष्यमाणः
अपनुत्-अपनुद्-अपनुदौ-अपनुदः
-- -- 8 नुन्नः-नुत्तः- 9 प्रणुन्नम्-नुत्तम्-नुन्नम्-नुन्नवान्-नुत्तवान्, नोदितः, नुनुत्सितः, नोनुदितः-तवान्
10 नुदः, 11 शोकापनुदः, 12 13 शोकापनोदः, विनोदी, नोदः, 14 नुनुत्सुः, नोनुदः
नोत्तव्यम्, नोदयितव्यम्, नुनुत्सितव्यम्, नोनुदितव्यम्
नोदनीयम्, नोदनीयम्, नुनुत्सनीयम्, नोनुदनीयम्
नोद्यम्, नोद्यम्, नुनुत्स्यम्, नोनुद्यम्
ईषन्नोदः-दुर्नोदः-सुनोदः
-- -- नुद्यमानः, नोद्यमानः, नुनुत्स्यमानः, नोनुद्यमानः
नोदः-विनोदः, 15 काकुदः 16, नुनुत्सः, नोनुदः
17 नोत्तुम्, नोदयितुम्, नुनुत्सितुम्, नोनुदितुम्
नुत्तिः, नोदना, नुनुत्सा, नोनुदा
नोदनम्, नोदनम्, नुनुत्सनम्, नोनुदनम्
नुत्त्वा, नोदयित्वा, नुनुत्सित्वा, नोनुदित्वा
प्रणुद्य, प्रणोद्य, प्रणुनुत्स्य, प्रणोनुद्य
नोदम् २, नुत्त्वा २, नोदम् २, नोदयित्वा २, नुनुत्सम् २, नुनुत्सित्वा २, नोनुदम्
नोनुदित्वा
18 इति डौप्रत्ययः।
टिलोपः।
नुदति, नुद्यते घा नौः = प्लवः।]] नौः।
प्रासङ्गिक्यः
01
=>
(६८४)
02
=>
(६-तुदादिः-१२८२। सक। अनि। उभ।)
03
=>
[[४। धातोरनुदात्तत्वेनेडभावे, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वे, लघूपधगुणो न। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[[५। ‘एकाच उपदेशेऽनुदात्तात्’ (७-२-१०) इति इण्णिषेधे, ‘पुगन्तलघूपधस्य च’ (७-३-८६) इति गुणः। एवं तव्यदादिष्वपि ज्ञेयम्।]]
05
=>
[पृष्ठम्०६३४+ २७]
06
=>
[[१। ‘तुदादिभ्यः--’ (३-१-७७) शः विकरणप्रत्ययः। शस्य ङिद्वद्भावादङ्गस्य गुणो न। स्त्रियाम्, ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति नुम् वा।]]
07
=>
[[आ। ‘तुदन् कुचरितान् शुमे प्रणुदमान इष्टं दिशन् प्रमृष्टपललान् क्षिपन् अरिमतिं कृषन् माधवः।’ धा। का। २। ७२।]]
08
=>
[[२। ‘नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्’ (८-२-५६) इत्यनेन निष्ठातकारस्य धातुदकारस्य नत्वविकल्पः तेन रूपद्वयम्।]]
09
=>
[[B। ‘दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहम्।।’ शि। व। ९। ७१।]]
10
=>
[[३। ‘इगुपध--’ (३-१-१३५) इति कर्तरि कप्रत्ययः।]]
11
=>
[[४। ‘तुन्दशोकयोः परिमृजापनुदोः’ (३-२-५) इत्यत्र ‘आलस्य सुखाहरणयोरिति वक्तव्यम्’ (वा। ३-२-५) इति वचनात् शोकनिवृत्तिपूर्वकं सुखसम्पादके पुत्रादौ शोकापनुद इति कप्रत्ययो भवति। कर्मण्यणोऽपवादः।]]
12
=>
[[C। ‘पौरा निवर्तध्वमिति न्यगादीत् तातस्य शोकापनुदा भवेत।’ भ। का। ३। १५।]]
13
=>
[[५। केवलं शोकमात्रं यः अपनुदति, तु सुखस्याहर्ता, तत्र ‘कर्मण्यण्’ (३-२-१) इत्यणेव।]]
14
=>
[[ड्। ‘यदवादिषमप्रियं तव प्रियमाधाय नुनुत्सुरस्मि तत्।’ नैषधे-- २। ११।]]
15
=>
[[६। काकुः = जिह्वा। सा अस्मिन् नुद्यते इति काकुदम् = तालु। घञर्थे कविधानम्। पृषोदरादित्वात्-- (६-३-१०९) नुशब्दस्य{??} लोपः।]]
16
=>
[तालु]
17
=>
[पृष्ठम्०६३५+ २८]
18
=>
[[१। ‘ग्लानुदिभ्यां डौः’ [द। उ। २-१२]
1 {@“णुद प्रेरणे”@} 2 नोदकः-दिका, नोदकः-दिका, नुनुत्सकः-त्सिका, नोनुदकः-दिका
इत्यादीनि सर्वाण्यपि रूपाणि पूर्वलिखिततौदादिकनुदतिवत् 3 ज्ञेयानि।
अस्य घातोः परस्मैपदिषु पाठात् शानच्प्रत्ययो भवति।
तुदादावेव पुनः पाठफलं तु--कर्तृगामिन्यपि क्रियाफले परस्मैपदित्वमिति बोध्यम्।
प्रासङ्गिक्यः
01
=>
(६८५)
02
=>
(६-तुदादिः-१४२६। सक। अनि। पर।)
03
=>
(६८४)