| YouTube Channel

णु (Nu)

 
शब्दसागरः
English
णु r. 3rd cl. (नौति-प्रणौति) To praise. With आङ् prefixed (आनुते) To
utter a cry of regret. r. 6th cl. (नवति) To praise. अदा-पर सक-वेट्
Yates
English
णु (ल) नौति नुवति 2.
a. To praise.
With to utter a cry of regret.
Wilson
English
णु r. 3rd cl. (नौति प्रणौति) To praise.
With आङ् prefixed (आनुते) To utter a cry of regret. r. 6th cl. (नवति) To praise.
Shabdartha Kaustubha
Kannada
णु - स्तुतौ (अदा० रप० सक० से०) नौति
पदविभागः - > धातुः
कन्नडार्थः - > ಸ್ತೋತ್ರ ಮಾಡು /ಹೊಗಳು
प्रयोगाः - > "द्विधा प्रयुक्तेन वाङ्मयेन सरस्वती तन्मिथुनं नुनाव"
उल्लेखाः - > कुमा० ७-९०
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
नु
मूलधातुः:
णु
धात्वर्थः:
स्तुतौ
गणः:
अदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
नौति
धातुप्रदीपः
Sanskrit
णु स्तुतौ
- नौति प्रणौति प्रणुनाव नविता नुतः ।। 26 ।।
शब्दकल्पद्रुमः
Sanskrit
णु, स्तुतौ इति कविकल्पद्रुमः
(अदां-परं-सकं-सेट् ।) ल, नौति इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
णु स्तुतौ अदा०
पर०
सक०
वेट् नौति प्रणौति अनावीत्-अनौषीत् नुनाव नुनुविथ नुनुविव नोता नवितानविष्यति नोष्यति नोतव्यं नवितव्यं नुतः नुतिःनुत्वा प्रणुत्य “येन नुवन्तमहिंसं पिणक्” ऋ०६ १७ १० “द्विधाप्रयुक्तेन वाङ्मयेन सरस्वतीतन्मिथुनं नुनाव” कुमा० “सादरं नैमि तं भक्त्याश्रीगोपीजनवल्लभम्” स्क०
पु०
“सैन्यं नीलं नुनावच” भट्टिः णिच् नावयति णिच् सन् नुनावयिषतिसन् नुण्णूषते यङ् नोनूयते ।आ + सम्यग्स्तवने आत्म० “पतत्त्रिणः शुभामन्दमानु-बानास्त्वजिह्लदन्” भट्टिः ।प्र + प्रकर्षेण स्तवभे “एददेवं विद्वानक्षरं प्रणौति” छा० उ०
णु गतौ
भ्वा०
आत्म०
सक०
अमोट् निघण्टुः गवते नवतेइत्यादि गतिकर्मसु मिरुक्तोक्तेः नवते “अभीनवन्तेअदूहः प्रियमिन्द्रस्य काम्यम्” ऋ० १० ।“अभीनवन्ते अभिगच्छन्ति” भा० “हरिं नवन्ते अवताउदन्यवः” ऋ० ८६७२७ “नवन्ते गच्छन्ति” भा० ।“गावो धेनवोऽनवन्त” १० ९५
क्षीरतरङ्गिणी
Sanskrit
णु स्तुतौ
- नौति, प्रणविता अङि नुप्रच्छ्योः (1321 वा0) तङ्-आनुते नुनूषति नवः, प्रणवः नुदंशोर्गुणश्च (तु0द0 उ0 654) इति नव 23
धातुवृत्तिः
Sanskrit
णु (अर्थः) स्तुतौ
नौतीत्यादि यौतिवत् (नुनावयिषति अनूनवत्) इत्यत्र पुयण्जपरत्वाभावादभ्यासस्य नेत्वं, ( नुनूषति, ) "सनि ग्रहगुहोश्च'' इत्यनिट्त्वे "इको झल्'' इति सनः कित्त्वे "अज्झनगमां सनि'' इति दीर्घः (प्रणौति) "उपसर्गादसमासेऽपि'' इति णत्वम् (प्रणुनाव) इत्यादौ "उभौ साभ्यासस्य'' इति साभ्यासस्यानितेर्णत्वविधानाज्ज्ञापकात्ततःपूर्वमेव द्विर्वचनमिति परस्य णत्वं भवति, व्यवधानात् णत्वस्य द्विर्वचने पूर्वत्रासिद्धत्वेन णत्वं भविष्यतीति वाच्यम् [पूर्वत्रासिद्धीयमद्विर्वचने] इत्युक्तत्वादित्यात्रेयः हरदत्तस्तु "उभौ साभ्यासस्य'' इत्यनेन [पूर्वत्रासिद्धीयमद्विर्वचन] इत्यस्यानित्यत्वं ज्ञाप्यत इति णत्वस्यासिद्धत्वाद् नुशब्दस्य द्विर्वचने परस्य व्यवधानादणत्वमाह ( आनुते सृगालः ) [ आङि नुपृच्छयोरुपसङ्ख्यानम् ] इति तङ्, आङ्पूर्वोऽयं स्वभावादुत्कण्ठापूर्वके शब्दने वर्तते, तदुक्तं न्यासे, अयं धातुरुत्कण्ठापूर्वके शब्दने आङोत्तरः प्रवर्त्ततइति कैयटपदमञ्जर्योरुदाहरणस्य सोत्कण्ठं शब्दं करोतीत्यर्थं उक्तः ( आनुवाते, आनुवते, आनुषे, आनुवे, आनुवहे, आनुनुवे, आनुनुविषे, आनुनुविध्वे, आनुनुविढ्वे, आनुनुवहे, आनविता, आनविष्यते, आनुताम्, आनुष्व, आनवै, आनवै, आनुत, आनुथाः, आनुवि आनुवीत आनुवीथाः आनुवीय ) आशिषि ( आनविषीष्ट आनविष्ट आनविष्ठाः, आनविषि आनुनूषते ) यङ्लुक्यप्ययन्तङ् भवति आनोनुते ) दीर्घान्तोऽयं तुदादौ 25
कृदन्तरूपमाला
Sanskrit
1 {@“णु स्तुतौ”@} 2 ‘--स्तुत्यां नुवति, नौति वा।।’ 3 इति देवः।
नावकः-विका, नावकः-विका, 4 नुनूषकः-षिका, 5 नुनावयिषकः-षिका, 6 नोनूयकः-यिका
7 नविता-त्री, नावयिता-त्री, नुनूषिता-त्री, नुनावयिषिता-त्री, नोनूयिता-त्री
8 नुवन्-नुवती, नावयन्-न्ती, नुनूषन्-न्ती, नुनावयिषन्-न्ती
-- नविष्यन्-न्ती-ती, नावयिष्यन्-न्ती-ती, नुनूषिष्यन्-न्ती-ती, नुनावयिषिष्यन्-न्ती-ती
-- 9 अनुवानः- 10, नावयमानः, 11 आनुनूषमाणः, नुनावयिषमाणः, नोनूयमानः
आनविष्यमाणः, नावयिष्यमाणः, आनुनूषिष्यमाणः, नुनावयिषिष्यमाणः, नोनूयिष्यमाणः
12 संनुत्-संनुतौ-संनुतः
-- -- -- -- 13 नुतः-नुतम्-नुतवान्, नावितः, नुनूषितः, नुनावयिषितः, नोनूयितः-तवान्
14 नावः, संनावी, नावः, नुनूषुः, नुनावयिषुः, 15 नोनुवः
नवितव्यम्, नावयितव्यम्, नुनूषितव्यम्, नुनावयिषितव्यम्, नोनूयितव्यम्
नवनीयम्
नावनीयम्, नुनूषणीयम्, नुनावयिषणीयम्, नोनूयनीयम्
16 नव्यम्-अवश्यनाव्यम्, नाव्यम्, नुनूष्यम्, नुनावयिष्यम्, नोनूय्यम्
ईषन्नवः-दुर्नवः-सुनवः
-- -- -- नूयमानः, नाव्यमानः, नुनूष्यमाणः, नुनावयिष्यमाणः, नोनूय्यमानः
17 नवः-प्रणवः, नावः, नुनूषः, नुनावयिषः, नोनूयः, नवितुम्, नावयितुम्, नुनूषितुम्, नुनावयिषितुम्, नोनूयितुम्
नुतिः, नावना, नुनूषा, नुनावयिषा, नोनूया
नवनम्, नावनम्, नुनूषणम्, नुनावयिषणम्, नोनूयनम्
नुत्वा, नावयित्वा, नुनूषित्वा, नुनावयिषित्वा, नोनूयित्वा
प्रणुत्य, प्रणाव्य, प्रणुनूष्य, प्रणुनावयिष्य, प्रणोनूय्य
नावम् २, नुत्वा २, नावम् २, नावयित्वा २, नुनूषम् २, नुनूषित्वा २, नुनावयिषम् २, नुनावयिषित्वा, नोनूयम्
नोनूयित्वा।
प्रासङ्गिक्यः
01
=>
(६८३)
02
=>
(२-अदादिः-१०३५। सक। सेट्। पर।)
03
=>
(श्लो। २४)
04
=>
[[१। ‘सनि ग्रहगुहोश्च’ (७-२-१२) इतीण्णिषेधः। ‘इको झल्’ (१-२-९) इति सनः कित्त्वम्। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। कित्त्वात् गुणाभावः। एवं सर्वत्र सन्प्रत्ययविषये प्रक्रिया ज्ञेया।]]
05
=>
[[२। ण्यन्तात् सनि ‘ओः पुयण्--’ (७-४-८०) इति ज्ञापकादन्तरङ्गयोरपि वृद्ध्यावादेश- योः प्रागप्रवृत्तौ, ‘नु’ शब्दस्य द्वित्वे, अभ्यासे उकारश्रवणम्। एवं ण्यन्तात् सनि सर्वत्र ज्ञेयम्।]]
06
=>
[[३। यङि परतः ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः। एवं यङन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
07
=>
[[४। अस्य धातोरुदात्तत्वात् (सेट्त्वात्) ‘आर्धधातुकस्येड् वलादेः’ (७-२-३५) इतीटि गुणावादेशौ। एवं तव्यदादिष्वपि ज्ञेयम्।]]
08
=>
[[५। शतरि, ‘अदिप्रभृतिभ्यः शपः’ (२-४-७२) इति शपो लुकि, ‘अचिःश्नु--’ (६-४-७७) इत्युवङ्।]]
09
=>
[[६। ‘आङि नुप्रच्छ्योरुपसङ्ख्यानम्’ (वा। १-३-२१) इति शानच्। आङ्पूर्घकोऽयं धातुः उत्कण्ठापूर्वके शब्दने वर्तते।]]
10
=>
[[आ। ‘पतत्त्त्रिणः शुभा मन्द्रमानुवानास्त्वजिह्लदन्।।’ भ। का। ८। ६७।]]
11
=>
[[७। ‘पूर्ववत् सनः’ (१-३-६२) इति आङ्पूर्वकादस्मात् सन्नन्तादात्मनेपदम् शानच्।]]
12
=>
[[८। क्विपि, ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुक्। एवं ल्यप्यपि।]]
13
=>
[[९। ‘श्रयुकः क्किति’ (७-२-११) इति इण्णिषेधः। एवम्, क्त्वायाम्, क्तिन्यपि इण्णिषेधो ज्ञेयः।]]
14
=>
[पृष्ठम्०६३३+ २४]
15
=>
[[१। यङन्तात् पचाद्यचि (३-१-१३४), ‘यङोऽचि च’ (२-४-७४) इति लुकि, ‘न धातुलोप--’ (१-१-४) इति गुणनिषेधे उवङादेशः।]]
16
=>
[[२। ‘अचो यत्’ (३-१-९७) इति यति, ‘वान्तो यि प्रत्यये’ (६-१-७९) इति अवादेशः। अवश्यनाव्यम् इत्यत्र ‘ओरावश्यके’ (३-१-१२५) इति ण्यति आवादेशः।]]
17
=>
[[३। ‘ॠदोरप्’ (३-३-५७) इत्यप् भावे। प्रणवः इत्यत्र, ‘उपसर्गादसमासेऽपि णोपदेशस्य’ (८-४-१४) इति णत्वम्।]]