णी (NI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishणी (ञ) णीञ् r. 1st cl. (नयति-ते)
1. To conduct, to drive or guide to
cause progressive conveyance.
2. To obtain, to get. The
root is inflected as the deponent verb, implying, 1. Instruction,
as नयते शास्त्रे he instructs in the Sastra
2. Worshipping, विष्णुं नयते
he worships VISHNU
also with prepositions in the sense of
1.
Paying, भृत्यमुपनयते he pays the hire
2. Paying as a debt, ऋणं
विनयते he discharges the debt
3. Casting or lifting up, दण्डमुन्नयते
he lifts up the stick
4. Giving, द्रव्यं विनमते he gives the things
and 5. Brahmanical Investiture, पुत्त्रमुपनयते he invests his son
with the thread: it is also deponent, governing an incorporeal
object existing in the agent, as क्रोधं विनयते he suppresses wrath
if the object is not in the agent the verb is active, as गुरोः क्रोधं
विनयति he appeases his teacher's anger
as also if the object is
corporal, as गण्डं विनयति he turns away the cheek. The root occurs
with many prefixes, and in a great variety of meanings
1. With
अनु, a To ask, to entreat. b To make like or resembling. c. To
favour.
2. With अप, a To take away, to remove. b. To attract.
3.
With अभि, a. To indicate by signs. b. To be kind or civil to.
4. With
आङ् To bring.
5. With उत्, To raise up.
6. With उप, To approach,
to go near to (see also above.)
7. With दुर्, To act or behave
wickedly.
8. With निर्, a. To get or obtain. b. To ascertain, to de-
termine.
9. With परि, a. To marry. b. To take cognizance of.
10. With
प्र, a. To punish. b. To love.
11. With वि, a. To take away, to make
remote or distant. b To behumble or modest.
12. With वि and अप,
To remove, to dispel, to disperse.
13. With वि and निर्, To decide
by law.
14. With सम्, a. To collect. b. To discharge.
15. With सम्
and अनु, To entreat.
16. With सम् and आङ्, To assemble to
collect, &c.
Yates
Englishणी नयति, ते 1.
c. To conduct, lead
to, get. With अनु to intreat, to
assimilate, to favour
with अप
to remove, attract
with अभि
to indicate by signs, be kind to
with आ to bring
with उत् to
raise up
with उप to approach
with दुर् to behave ill
with निर्
to get, to ascertain
with परि to
marry
with प्र to love
with वि
to remove to a distance, be hum-
ble
with सु to be polite
with सं
to collect or assemble
with वि
and अप to disperse
with वि and
निर to decide by law
with सं
and अनु to intreat
with सं and
आ to collect, to assemble.
Wilson
Englishणी (ञ) णीञ् r. 1st cl. (नयति-ते)
1 To conduct, to drive or guide, to cause progressive conveyance.
2 To obtain, to get. The root is inflected as the deponent verb, implying.
1 Instruction, as नयते शास्त्रे he instructs in the Śāstra
2 Worshipping, विष्णुंनयते he worships VIṢṆU
also
with prepositions in the sense of
1 Paying, भृत्यमुपनयते he pays the hire
2 Paying as a debt, ऋणम्विनयते he discharges the debt
3 Casting or lifting up, दण्डमुन्नयते he lifts up the stick
4 Giving, द्रव्यम्बिनयते he gives the things
and
5 Brahmanical Investiture, पुत्त्रमुपनयते he invests his son with the thread: it is also deponent, governing an incorporeal object existing in the agent, as क्रोधम्विनयते he suppresses wrath
if the object is not in the agent the verb is active, as गुरोःक्रोधम्विनयति he appeases his teacher's anger
as also if the object is corporal, as गण्डं विनयति he turns away the cheek. The root occurs with many prefixes, and in a great variety of meanings
1 With अनु,
^a To ask, to entreat.
^b To make like or resembling.
^c To favour.
2 With अप,
^a To take away, to remove.
^b To attract.
3 With अभि,
3 To indicate by signs.
^b To be kind or civil to.
4 With आङ्, To bring.
5 With उत्, To raise up.
6 With उप, To approach, to go near to, (see also above.)
7 With दुर्, To act or behave wickedly.
8 With निर्,
^a To get or obtain.
^b To ascertain, to determine.
9 With परि,
^a To marry.
^b To take cognizance of.
10 With प्र,
^a To punish.
^b To love.
11 With वि,
^a To take away, to make remote or distant.
^b To be humble or modest.
12 With वि and अप, To remove, to dispel, to disperse.
13 With वि and निर्, To decide by law.
14 With सम्,
^a To collect.
^b To discharge.
15 With सम् and अनु, To intreat.
16 With सम and आङ्, To assemble, to collect, &c.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritणी प्रापणे द्विक० अनिट् । नयति प्रणयतिअनैषीत्” । प्रधाने कर्म्मणि लादयः । अजा ग्रामं नीयते ।अनेष्ट निनाय निनयिथ निनेथ निन्ये नेता न्येष्यति तेनेतव्यः । नेयः नीतः नीतिः नीत्वा विनीय ।“सर्वान्नेष्यामि वः सदा । वृजिनात्तारयिष्यामि” भा०आ० ६०५२ श्लो० “गमनाय मतिं चक्रे ताश्चैनं नित्यु-रङ्गनाः” रामा० बा० ९ अ० । “नयिष्यामि च वाहि-नीम्” रामा० ५ । ९१ । अ० । आर्ष इट् । “दैवेनकिलयस्यार्थः स नीतोऽपि विपद्यते” भा० वि० २० अ० ।यापने च “निनाय सात्यर्थहिमोत्किरानिलाः । सहस्यरात्रीरुदवासतत्पराः” कुमा० ।सम्मानने आत्म० “शास्त्रे नयते शास्त्रस्थं सिद्धान्तं शि-ष्येभ्यः न्प्रापयतीत्यर्थः तेन च सम्माननं फलितम्” सि० कौ०ज्ञाने निश्चये आत्म० । “तत्त्वं नयते निश्चिनोति” सि० कौ०अति + अतिक्रम्य नयने । “न स्वर्गं लोकमतिनयेत्” छा० उ०वि + अति अपवाहने । “व्यतिनीय कालमुपसदांचतुर्थम्” आश्वा० श्रौ० १२ । ८ । ३५ । “व्यतिनीय अपोह्य” नारा०अनु + स्वाभीष्टप्रवेशनाय सान्त्ववाक्यादिप्रयोगे । “भवतो-ऽनुनयाम्येवं पुरूराज्येऽभिषिच्यताम्” भा० आ० ८४ अ० ।“प्रणिपातेन सान्त्वेन दानेन च महायशाः । ऋत्बिजो-ऽनुनयामास” भा० आ० २२३ अ० । आर्ष आमुः ।“अनुनीता त्वमस्माभिश्चिरं सान्त्बेन मैथिलि!” रामा०सु० २५ अ० ।अप + अपहरणे अन्यत्रनयने “यत्र संसप्तकाः पाथैमपनिन्थू-रणाजिरात्” भा० आ० ५३० श्लो० ।अभि + २९२ पृ० अभिनयशब्दोक्तार्थे । “गीतानिरम्याणि जगुः प्रहृष्टा कान्ताभिनीतानि मनोहराणि”हरि० ८४४८ अ० । “तदुक्तेमभिक्नीयाभियुक्तैः” वेदा० सा०आभिमुख्येन नयने च । “दृष्ट्वा शरं ज्यामभिनीयमानम्”भा० व० ७६९ श्लो० । प्रधाने कर्म्मणि शानच् ।अव + अधोनयने । “मन्थे सम्पातमवनयेत्” छा० उ० ।“ऋवोषो अत्रिमवनीतसुन्निन्थथुः” ऋ० १ । ११६ । ८ ।आ + दूरस्थस्यान्तिकप्रापणे । “दूरादिन्द्रमनयन्ना सुतेन” ऋ०७ । ३३ । २ “रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम्” भा० द्रो०१४७ अ० । “पुत्रीयता तेन वराङ्गनाभिरानायि विद्वान्क्रतुषु क्रियावान्” (पुरीमृष्यशृङ्गः) संयोजने च“तप्ते पयसि दध्यानयति सा वैशदेव्यामिक्षा भवति” श्रुतिःअभि + आ + आभिमुख्येन नयने “दधिमधुसर्पिरातपवर्ष्याआपो ऽभ्यानीय” ऐत० ब्रा०परि + आ + परित आनयने । “पाञ्चालराजं द्रुपदं गृहीत्वारणमूर्द्धनि । पर्य्यनयत भद्रं वः सा स्यात् परम-दक्षिणा” भा० आ० १३८ अ० ।प्रति + आ + प्रतिकूलतया आनयने गतस्य पुनराननयने “प्रत्या-नेष्यति शुत्रुभ्यो वन्दीमिव जयश्रियम्” कुमा०उद् + ऊर्द्धं नयने “किं स्विदादित्यमुन्नयति” भा० व० १७३अ० । “रेतोधाः पुत्र उन्नयति नरदेव! यमक्षयात्”भा० आ० ७४ अ० । उद्भावने लिङ्गदर्शनेनानुमाने च“नीचासन्तमुदनयः परावृजम्” ऋ० २ । १३ । १२ ।उत्सञ्जने उत्क्षेपे आत्म० । “दण्डमुन्नयते उत्क्षिपती-त्यर्थः” सि० कौ० ।उप + उपस्थापने “उपनिन्थुर्महाभागं दुहितृत्वेन जाह्न-वीम्” हरिवं० १४२१ । “महत्या सेनया राजा दमयन्तो-मुपानयत्” भा० व० ३०६३ श्लो० । दिव्जानामसाधारणेसंस्कारभेदे आत्म० । आचार्य्यः शिष्यमुपनयते । “गर्भा-ष्टमेऽष्टमे वाऽव्दे ब्राह्मनस्थोपनायनम्” “उपनीय ददद्वेदानाचार्य्यः स उदाहृतः” मनुः । “आचार्य्य उप-नयमानो ब्रह्मचारिणम्” अथ० ११ । ५ । ३ “तथेति तंहोपनित्ये” शत० ब्रा० ११ । ५ । ३ । १३ । “समिधमाहरउप त्वा नेष्ये” छा० उ० । स च संस्कारः वेदार्हताप्रयोजकः । तस्य परगामिफलकत्वात् परस्मैपदे प्राप्तेसम्मानोत्सञ्जनाचार्य्यकरणेत्यादिना पा० तङ् विहितः ।“न हि उपनयनमात्रेणाचार्य्यत्वं किन्तु तत्पुर्वकाध्यापनेन“उपनीय दददु वेदान् आचार्य्यः स उदाहृतः इतिस्मृतेः” इत्याशयेन उपनयनपूर्वकेनाध्यापनेन हि उपनेतरि आचार्य्यतं क्रियते इति” सि० कौ० उक्तम् । “यस्यप्रपितामहादेर्नानुस्मर्य्यते उपनयनम्” आपस्तम्बः भृतिदानेनसमीपप्रापणे आत्म० । “कर्म्मकरानुपनयते भृतिदानेनस्वसमीपं प्रापयतीत्यर्थः” सि० कौ०नि + उत्सर्जने । “उदकं निनयेच्छेषं शनैः पिण्डान्तिकेपुनः” मनुः । “निनयेत् उत्सृजेत्” कुल्लू० । “ओष-धिभ्यो वृष्टिं निनयति” तैचि० २ । ४ । ९२३ । नितरानयने च “पूर्णपात्रमन्तर्वेदि निनयति” तैत्ति० १ । ७ । ५ । ३“दासी कुम्भं वहिर्ग्रामान्निनयेयुः स्वबान्धवाः । पतितस्यबहिः कुर्य्युः सर्वकार्य्येषु चैव तम्” “चरितव्रत आयातेनिनयेरन्नवं घटम्” याज्ञ० ।निर् + निश्चये अवधारणे तदभावाप्रकारकत्वे सति तत्प्रकारके ज्ञानभेदे । “देवःपतिर्विदुषि! नैषधराजगत्यानिर्णीक्यते न किम्, न व्रियते भवत्या” नैष० “पुरावृत्तकथो-द्गारैः कथं निर्णीयते परः” हितो० ।परा + पुनरानयने गतस्य पुनः स्वस्थानप्रापणे “पुनः कृत्यांकृत्याकृते हस्तगृह्य पराणय” अथ० ५ । १४ । ४ ।परि + परितो नयने “तेषां वृत्तं परिणयेत् सम्यग्राष्ट्रेषुतच्चरैः” मनुः । प्रदक्षिणीकरणे “तौ दम्पतीः त्रिःपरिणीयं वह्निम्” कुमा० । “अगृह्णां यच्च ते पाणिमग्निंपर्य्यणयं च यत्” रामा० अयो० ४२ अ० । विवाहरूपसंस्कारभेदे च “वरयित्वा यथान्यायं मन्त्रवत् परि-णिय च” भा० आ० ६१३४ श्लो० । “सर्वाः परिणयेत्विप्रः” स्मृतिः “परिणेष्यति पार्वतीं यदा” कुमा० ।वि + क्षेपे उपसम्पत्तौ प्रवेशने विधाने च “प्रणीतःसंस्कृताग्नौ ना यज्ञपात्रन्तरे स्त्रियाम् । त्रिषु क्षिप्तोप-सम्पन्नविहितेषु प्रवेशिते” मेदि० । तत्र क्षेपे “तेनसम्यक् प्रणीतानि शरक्जालानि भागशः” भा० भी० ८७ अ० ।विधाने “प्रणोय दारिद्र्यदरिद्रतां नृपः” नैष० ।“मुकुन्दं सच्चिदानन्दं प्रणिपत्य प्रणीयते” सुग्ध० “स एव“धर्मो मनुना प्रणीतः” रघुः “यदि न प्रणय्द्दण्डं राजादण्डेष्वतन्त्रितः” मनुः ।अग्निसंस्कारभेदे । “अग्निपणयनं कृत्वा” स्मृतिः ।अग्न्याधेय शब्देदृश्यम् “महाध्वरे वह्निरभिप्रणीतः” भट्टिः ।उपसम्पत्तिः स्नेहभेदः । प्रणयः । प्रणयिजनः । “प्रणयस्वयथाश्रद्दं राजन्! किं कारवाणि ते” भा० व० २१६० श्लो० ।“सञ्चये च विनाशान्ते मरणान्ते च जीविते । “संयोगेच वियोगान्ते को नु विप्रणयेन् मनः” भा० शा० ३८९१श्लो० “भक्तिप्रोतिप्रणयसहितं मानदम्भाद्युपेतम्” उद्ध० दू०प्रति + पुनः प्रापणे यतो गतिस्तत्रैव पुनर्नयने ।“प्रतिनेतुमयोध्याम्” रामा० २ । ९० अ० । “तेभ्यःएनान् प्रतिनयामि बद्ध्वा” अ० ८ । ८ । १० “भद्रं न सर्व-मेतद्वित्तं गृहं प्रतिनेतुं युज्यते” पञ्चत० ।वि + अपसरणे “अहं हि ते विनेष्यामि युद्धश्रद्धामितःपरम्”भा० उ० ३४७५ श्लो० । भारमेनं विनेष्यामि पाण्ड-वानां महात्मनाम्” भा० भी० ५० अ० । शिक्षाविशेषे“विनितैस्तु व्रजेन्नित्यमाशुगैः” “नाविनितैर्ब्रजेद्धुर्यैः”मनुः । “तपस्विसंसर्गविनीतसत्त्वे” (तपोवने) “वन्यान्विनेष्यन्निव दुष्टसत्वान्” रघुः । “स्वधर्माच्चलितान् राजा वि-नीय स्थापयेत् पथि” याज्ञ० आनुकूल्यार्थमनुनये विनयः ।ऋणादेर्निर्यातने आत्म० । करं विनयते राज्ञे देयंभागं परिशोधयतीत्यर्थः” सि० कौ० । व्यये विनियोगेआत्म० । शतं विनयते धर्म्मार्थं विनियुङ्क्ते इत्यर्थःसि० कौ० । अपनयने कर्तृशरीरभिन्ने कर्मणिकर्त्तृस्थे क्रियाफले आत्म० । क्रोधं विनयते अपगमयतिक्रोधापसारणफलस्य चित्तप्रसादस्य कर्तृस्थत्वात् “स्व-रितञितः” इत्येव सिद्धे नियमार्थमिदं तेनेह न गण्डंविनयति, गण्डस्य शरीरावयवत्वात् कर्तृस्थत्वेऽपिन तङ् । कर्त्तृस्थे इत्युक्तेः गुरोः क्रोधं विनयतित्येव ।सम् + संयोजने । “ब्रह्मण्यात्मानं संनयन्” भाग० ६ । १० । १“ओषधिभ्योऽध्यात्मन् समनयन्” तैत्ति० व्रा० २ । ५ । ३ । ३ स्था-पने च “कंसे पृषदाज्यं संनीय” वृह० उ० ६ । ४ । २४ मिश्रणे“दधिमधुहविषा धृतं संनीय” वृह० उ० वैदिकहविः ।संस्कारभेदे सांनाय्यं हविः “नासोमया संनयेत्” तैत्ति०स० २ । ५ । ५ । १ ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
