| YouTube Channel

णिसि (Nisi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
निंस्
मूलधातुः:
णिसि
धात्वर्थः:
चुम्बने
गणः:
अदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
निंस्ते
धातुप्रदीपः
Sanskrit
णिसिँ णिसि चुम्बने
- निंस्ते निंस्से निंसे प्रणिंस्ते प्रनिंसते निनिंसे निंसिता ।। 15 ।।
क्षीरतरङ्गिणी
Sanskrit
णिसिँ णिसि चुम्बने
- निंस्ते वा निंसनिक्षनिन्दाम् (8433) णत्वम् प्रणिंस्ते प्रनिंस्ते 15
धातुवृत्तिः
Sanskrit
णिसिँ णिसि (अर्थः) चुम्बने
इदिद्दत्यान्तः ( निंस्ते ) इत्यादि कसिवत् अत्रात्रेयादयः प्रणिंस्ते प्रर्निस्त इत्युदाहृत्य "वा निंस'' इति णत्वविकल्पमाहुः अस्माभिस्तु तत्कृतिपर इति निन्दतावुपपादितम् आभरणकारस्तु तालव्यान्तं पठित्वा "वा निंश'' इति सूत्रमपि स्पपाठानुगुणं पपाठ तत्तु "नुम्विसर्जनीयशर्व्यवायेऽपि'' इत्यत्र वृत्तिन्यासपदमञ्जर्याद्यपर्यालोचनविजृम्भितं, तत्र हि नुमादिभिः प्रत्येकं व्यवाये षत्वमिष्यते तेन निंस्से निंस्वेत्यत्र भवतीत्युक्तम्, अस्य तालव्यान्तत्वे व्रश्चादिषत्वे "षढोः'' इति कत्वे कवर्गात्परत्वेन षत्वं दुर्वारमिति कथं प्रत्युदाह्रियेत 15
कृदन्तरूपमाला
Sanskrit
1 {@“णिसि चुम्बने”@} 2 3 प्रणिंसकः-प्रनिंसकः-सिका, निंसकः-सिका, निनिंसिषकः-षिका, 4 नेनिंसकः-सिका
5 रमोष्ठनिंसी- 6 इत्यादीनि सर्वाण्यपि रूपाणि भौवादिक- जिन्वतिवत् 7 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(६७९)
02
=>
(२-अदादिः-१०२५। सक। सेट्। आत्म।)
03
=>
[[२। ‘वा निंसनिक्षनिन्दाम्’ (८-४-३३) इति कृत्प्रत्ययपरकस्य धातुनकारस्य णत्व- विकल्पः।]]
04
=>
[पृष्ठम्०६२८+ ३१]
05
=>
[[१। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
06
=>
[[आ। ‘स्वीयैश्चकंसे कशनीयकासी रमोष्ठनिंसी नतचित्तनिञ्जी।।’ धा। का। २। ४५।]]
07
=>
(६०४)