| YouTube Channel

णिश (Niza)

 
शब्दसागरः
English
णिश r. 1st cl. (नेशति प्रणेशति) To meditate profoundly.
Wilson
English
णिश r. 1st cl. (नेशति प्रणेशति) To meditate profoundly.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
निश्
मूलधातुः:
णिश
धात्वर्थः:
समाधौ (शीलम्)
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
निशति
धातुप्रदीपः
Sanskrit
णिशँ णिश समाधौ
- नेशति प्रणेशति निशा सप्तमीबहुवचने निशासु निट्सु निच्शु (78) ।। 723 ।।
शब्दकल्पद्रुमः
Sanskrit
णिश, शीले इति कविकल्पद्रुमः
(भ्वां-परं-अकं-सेट् ।) शीले समाधौ नेशति योगी निनि-शतुः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
णिश समाधौ
भ्वा०
पर०
सक०
सेट् नेशति प्रणेशति अनेशित् निनेश
क्षीरतरङ्गिणी
Sanskrit
णिशँ णिश समाधौ
-प्रणेशति निशा 702
धातुवृत्तिः
Sanskrit
णिशँ णिश (अर्थः) समाधौ
तालव्योष्मान्तः ( नेशति प्रणेशति निनेश नेनिशानि निनिशिषति निनेशिषति निशित्वा नेशित्वा नेनिश्यते नेनेष्टि ) व्रश्चादिना षत्वं त्वष्टुम् ( नेशयति अनीनिशत् ) अत्र मैत्रेयो निशाशब्दमस्मादाह तस्याभिप्रायः, क्किपि आयं चैव हलन्तानां यथा वाचा निशा दिशेति टाप् अन्ये तु नितरां शेरतेस्यामिति शेतेधिकरणे डप्रत्यये व्युत्पादयन्ति निशायां भवं ( नैशिकम् ) "निशाप्रदोषाभ्यां च'' इति शैषिकः पक्षे ठञ् तदभावे प्राग्दीव्यतीयेऽणि (नैशम्)709
कृदन्तरूपमाला
Sanskrit
1 {@“णिश समाधौ”@} 2 प्रणेशकः-शिका, नेशकः-शिका, निनिशिषकः-निनेशिषकः-षिका, नेनिशकः-शिका, इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककिटतिवत् 3 ज्ञेयानि।
निट्-निशौ-निशः, निशा, 4 इत्यस्याधिकानि रूपाणीति विशेषः।
प्रासङ्गिक्यः
01
=>
(६७८)
02
=>
(१-भ्वादिः-७२२। अक। सेट्। पर।)
03
=>
(१९०)
04
=>
[[१। ‘सम्पदादिभ्यः क्विप्’ (वा। ३-३-९४) इति भावे स्त्रियां क्विप्। ‘आपं चैव हलन्तानां यथा वाचा निशा दिशा।।’ इति वचनेन टापि निशा इति भवति।]]