| YouTube Channel

णिदृ (NidR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
निद्
मूलधातुः:
णिदृ
धात्वर्थः:
कुत्सा-सन्निकर्षयोः
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
नेदति-ते
धातुप्रदीपः
Sanskrit
णिदृँ णिदृ
मानकरूपान्तरम् - णेदृँ
णेदृ कुत्सा, सन्निकर्षयोः
- नेदति नेदते प्रणिद्यते नेदति नेदते प्रणेद्यते ।। 874, 875 ।।
क्षीरतरङ्गिणी
Sanskrit
णिदृँ णिदृ
मानकरूपान्तरम् - णेदृँ
णेदृ कुत्सा, संनिकर्षयोः
- प्रणेदति निद्यते, नेद्यते अनिनेदत् णिवृ णेवृ इति प्राच्चो हेवाकिनः 442, 843
धातुवृत्तिः
Sanskrit
णिदृँ णिदृ
मानकरूपान्तरम् - णेदृँ
णेदृ (अर्थः) कुत्सा, सन्निकर्षयोः
(नेदती) इत्यादि, मिदृमेदृवत् (प्रणेदति) "उपसर्गात्'' इति णत्वम् निन्दतीति कुत्सायां गतम् 857
कृदन्तरूपमाला
Sanskrit
1 {@“णिदृ कुत्सासन्निकर्षयोः”@} 2 ‘प्रत्येकं निदिनेद्योः स्तां नेदते नेदतीत्युभे।
कुत्सायां सन्निकर्षे वा, कुत्सामात्रे तु निन्दति।।’ 3 इति देवः।
प्रणेदकः-दिका, नेदकः-दिकाः, निनिदिषकः-निनेदिषकः-षिका नेनिदकः-दिका
नेदिता-त्री, नेदयिता, त्री निनिदिषिता-निनेदिषिता-त्री, नेनिदिता-त्री
4 5 निद्यमानः, इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककिटतिवत् 6 ज्ञेयानि।
अस्य धातोरूभयपदित्वात् नेदमानः, नेदयमानः, निनिदिषमाणः, निनेदिषमाणः, नेदिष्यमाणः, निनिदिषिष्यगाणः-निनेदिषिष्यमाणः
इति शानजन्तानि रूपाण्यधिकानीति विशेषः।
प्रासङ्गिक्यः
01
=>
(६७५)
02
=>
(१-भ्वादिः-८७१। सक। सेट्। उभ।)
03
=>
(श्लो। ११४)
04
=>
[पृष्ठम्०६२७+ २४]
05
=>
[[आ। ‘नित्यं प्रमोहामिदितोरुमेदैः प्रमेधिता सद्भिरनिद्यमानैः।’ धा। का। २। २६।]]
06
=>
(१९०)