णिदि (Nidi)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaणिदि - कुत्सायाम् (भ्वा० पर० सक० से०) निन्दति ।
पदविभागः - > धातुः
कन्नडार्थः - > ನಿಂದಿಸು /ದೂಷಿಸು /ದೂರು
प्रयोगाः - > "निनिन्द रूपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारिता"
उल्लेखाः - > कुमा० ५-१
धातुपाठः (Krishnacharya)
Sanskrit निन्द्
णिदि
कुत्सायाम्
भ्वादिः
सकर्मकः
सेट्
परस्मैपदी
निन्दति
धातुप्रदीपः
Sanskritणिदिँ णिदि कुत्सायाम्
- निन्दति । प्रणिन्दति । निन्दकः । निन्दा । अस्य नोपदेशत्वं वैचित्र्यार्थम् । वा निंसनिक्षनिन्दाम् (8/4/33) इति विकल्पविधानात् । केचित्तु कृति प्रत्यये विकल्पमिच्छन्ति । तिङि पुनर् उपसर्गादसमासेऽपि (8/4/14) इत्यादिना णोपदेशत्वान्नित्यमेव णत्वं भवतीति व्याचक्षते । भट्टिकाव्ये तु तिङ्यपि विकल्पो दर्शितः-''प्रणिन्दिष्यति नो भूयः'' इति ।। 64 ।।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
क्षीरतरङ्गिणी
Sanskritणिदिँ णिदि कुत्सायाम्
निन्दति निन्दा वा निंसनिक्षनिन्दाम् (7433) णत्वम् - प्रणिन्दिता, प्रनिन्दिता निन्दहिंस (32146) इति वुञ् - निन्दकः 63
धातुवृत्तिः
Sanskritणिदिँ णिदि (अर्थः) कुत्सायाम्
( निन्दति निनिन्द निनिन्दिथ निनिन्दिव निन्दितेत्यादि ) कर्मादौ ( निद्यते ) इत्यादि ( प्रणिन्दति ) "उपसर्गादसमासेपि'' इति णत्वम् अत्र मैत्रेयाभरणसम्मतकाराः "वा निंसनिक्षनिन्दाम्'' इति णत्वविकल्पमिच्छन्ति, तदयुक्तम् यतोत्र "कृत्यचः'' इत्यतः कृतीति वर्त्तते, तच्च निन्दादिभिर्विशेष्यमाणमर्थात्परसप्तम्यन्तमिति उपसर्गस्थान्निमित्तात्परस्य निंसादिनकारस्य कृति परे वा णत्वमिति सूत्रार्थः तथा च शाकटायनः "निंसनिक्षनिन्दः कृति वा' इति एवं हि प्रकरणमबाधितं भवति णोपदेशश्च सार्थकः वृत्तौ च प्रणिन्दनम् प्रनिन्दनमिति कृदन्तमेवोदाहारि ( निन्दकः ) "निन्दहिंस'' वुन् णिदृकुत्सासन्निकर्षयोरिति दिवादौ 66
कृदन्तरूपमाला
Sanskrit1 {@“णिदि कुत्सायाम्”@} 2 ‘कुत्सायां सन्निकर्षे वा, कुत्सामात्रे तु निन्दति।।’ 3 इति देवः।
4 प्रणिन्दकः-प्रनिन्दकः-न्दिका, निन्दकः-न्दिका, निनिन्दिषकः-षिका, नेनिन्दकः-न्दिका
निन्दिता-त्री, निन्दयिता-त्री, निनिन्दिषिता-त्री, नेनिन्दिता-त्री
निन्दितम्-तः-तवान्, 5 निन्दकः 6, इत्यादीनिसर्वाण्यपि रूपाणि भौवादिक, जिन्वतिवत् 7 ज्ञेयानि।
01 (६७४)
02 (१-भ्वादिः-६६। सक। सेट्। पर।)
03 (श्लो ११४)
04 [[२। ‘वा निंसनिक्षनिन्दाम्’ (८-४-३३) इति कृत्प्रत्ययपरकधातुसम्बन्धिनकारस्य णत्वं विकल्पेन भवति।]]
05 [[३। ‘निन्दहिंसक्लिशखाद--’ (३-२-१४६) इत्यादिना तच्छीलादिपु कर्तृषु वुञ्। अकादेशः।]]
06 [[आ। ‘निन्दको रजनिम्मन्यं दिवसं क्लेशको निशाम्।’ भ। का। ७। १३।]]
07 (६०४)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
