| YouTube Channel

णिद (Nida)

 
Wilson
English
णिद (इ) णिदि r. 1st cl. (निन्दति-ते प्रणिन्दति) also (ऋ)
णिदृ r. 1st cl. (नेदति-ते प्रणेदति)
1 To abuse, to censure, to reproach, to reprove or revile, to despise or
condemn, &c. (The second root means also)
2 To approach, to come near. The change of after a preposition is
optional in the derivatives of the first of these roots.
शब्दकल्पद्रुमः
Sanskrit
णिद, कुत्सने इति कविकल्पद्रुमः
(भ्वां-परं-सकं-सेट्-इदित् ।) निंसनिन्दनिक्षां णोपदेश-फलं चिन्त्यम् णत्वविकल्पने स्वरूपग्रहणात् ।केचित्तु कृतिविकल्पमिच्छन्ति त्यादौ तूपसर्गा-दसमासे उपसर्गात् समासे त्यादौ नित्यमित्यर्थः ।यथा, प्रणिन्दकः प्रनिन्दकः प्रणिन्दति भट्टौतु त्यादावपि विकल्पो दृश्यते इ, कर्म्मणिनिन्द्यते निन्दति दुष्टं लोकः इति दुर्गा-दासः
णिद, सन्निधौ कुत्सने इति कविकल्प-द्रुमः
(भ्वां-उभं-अकं-कुत्सने-सकं-सेट्-ऋदित् ।) सन्निधिः सन्निकर्षः ऋ, अनिनेदत् ।ञ, नेदति नेदते दयालुं दीनः निनिदुः इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
णिद सन्निधाने अक० निन्दने
सक०
भ्वा०
उभ०
सेट् ।नेदति--ते प्रणेदति--तै अनेदीत् अनेदिष्ट निनेदनिनिदे
णिद कुत्सने
भ्वा०
पर०
सक०
सेट् इदित् निन्दति प्रणि-न्दति अनिन्दीत् कृत्सु वा णत्पमिति पाणिनिः ।सर्वत्र वा णत्वम् मुग्ध०“निनिन्द रूपं हृदयेन पार्वती” कुमा० “निन्दन्तस्तवसामर्य्यम्” गीता “अनिन्द्यं निन्दते यो हि”भा० व० २५२ अ० आर्षस्तङ् “न निन्दा निन्द्यंनिन्दति किन्तु विधेयं स्तौति” भीमांसा