| YouTube Channel

णिजिँर् (Niji~r)

 
धातुप्रदीपः
Sanskrit
निजिर् शौच, पोषणयोः
- नेनेक्ति नेनिक्ते नेनिक्तः नेनिजाते नेनिजति नेनिजते प्रणेनेक्ति नेक्ता अनेनेक् अनेनिक्त अनेनिक्ताम् अनेनिजाताम् अनेनिजुः अनेनिजत अनैक्षीत् अनीजत् अनिक्त नेजयति अनीनिजत् प्रणिनिक्षति निनिक्षते नेनिजत् नेनिजानः नेनिजतौ नेनिजानौ निक्तम् निर्णेजकः निजम् 11
क्षीरतरङ्गिणी
Sanskrit
णिजिर् शौच, पोषणयोः
- इतस्त्रयोऽनिट उभयपदिनश्च निजां त्रयाणां गुणः श्लौ (7475)-नेनेक्ति नाभ्यस्तस्याचि पिति सार्वधातुके (7338) गुणः-नेनिजानि अनिजत्, अनैक्षीत् 11
धातुवृत्तिः
Sanskrit
णिजिर् (अर्थः) शौच, पोषणयोः
एतदादयो विष्लृपर्यन्तास्त्रयोऽनुदात्तास्स्वरितेतः ( नेनेक्ति, नेनिक्तः, नेनिजति, नेनेक्षि, नेनेज्मि, नेनिज्वः, ) "निजां त्रयाणां गुणश्श्लौ'' इत्यभ्यासस्य गुणः झलि पदान्ते "चोः कुः'' इति कुत्वे "खरि च'' इति चर्त्वम् (निनेज, निनिजतुः, निनेजिथ, निनिज, निनिजिव ) क्रादिनियमादिट्, ( नेक्ता नेक्ष्यति, नेनेक्तुनेनिक्तात्, नेनिक्ताम्, नेनेग्धि, ) हेरपित्त्वान्ङित्त्वान्न गुणः ( नेनिजानि, "नाभ्यस्तस्य'' इति गुणनिषेधः ( अनेनेक्, अनेनिक्ताम्, अनेनितुः, अनेनेक्, अनेनिजम् ) अन्तरङ्गतवान्मिपोमि "नाभ्यस्तस्याचि पिति'' इति गुणनिषेधः (नेनिज्यात्, नेनिज्यातां, नेनिज्याः, नेनिज्याम् ) आशिषि ( निज्यात् अनिजत्, अनिजताम्, अनिजद्, अनिजः, ) "इरितो वा'' इति च्लेर्वाङ् परस्मैपदे अन्यदा ( अनैक्षीत्, अनैक्ताम्, अनैक्षुः, अनैक्षी, अनैक्षम्, अनैक्ष्व, ) "वदव्रज'' इति वृद्धिः झलि सिज्लोपः ( नेनिक्ते, नेनिजाते, नेनिजते, नेनिक्षे, नेनिजे, नेनिज्वहे, निनिजे, निनिजिवहे नेक्ता नेक्ष्यते नेनिक्तां, नेनिक्ष्व, नेनिजै अनेनिक्त, अनेनिक्थाः, अनेनिजि नेनिजीत नेनिजीयाताम् ) आशिषि (निक्षीष्ट अनिक्त, अनिक्षातां) "लिङ्सिचावात्मनेपदेषु'' इति लिङ्सिचोः कित्त्वान्न गुणः ( निनिक्षति, निनिक्षते ) "हलन्ताच्च'' इति सनः कित्त्वम् ( नेनिज्यते, नेनिजीति, नेनेक्ति नेजयति, अनीनिजत् निक्त्वा, निक्तः, निक्तवान् निजः ) इगुपधलक्षणः कः ( निर्णेजलः ) ण्वुक् ( प्रणेनेक्ति ) "उपसर्गादसमासेऽपि'' इति णत्वम् "उभौ साभ्यासस्य'' इति लिङ्गात् कृते द्विर्वचने प्रवर्तते 11