| YouTube Channel

णिका (NikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तुण कौटिल्ये”@} 2 तोणकः-णिका, तोणकः-णिका, तुतोणिषकः-तुतुणिषकः-षिका, तोतुणकः- णिका
इत्यादीनि सर्वाण्यपि रूपाणि गुफधातुवद् 3 बोध्यानि।
क्विपि-प्रतूण्-प्रतूणौ-प्रतूणः
इति।
शतरि तु -- तुणन्-ती-न्ती
इति रूपाणीति विशेषः।
घञि- 4 तोणः।
प्रासङ्गिक्यः
01
=>
(७३९)
02
=>
(६-तुदादिः-१३३२। सक। सेट्। पर।)
03
=>
(४०९)
04
=>
[[आ। ‘नार्यः संमृडदालिकेलिपृडिता यस्मिन् पृणन्त्यः प्रियान् नित्यं तैर्वृणिता मूणालकमनीयाङ्ग्यो वितोणाशयाः।।’ धा। का। २। ७५।]]
1 {@“द्रुण हिंसागतिकौटिल्येषु”@} 2 3 द्रोणकः-णिका, द्रोणकः-णिका, दुद्रुणिषकः-दुद्रोणिषकः-षिका, दोद्रुणकः- णिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकघोणतिवत् 4 ज्ञेयानि।
अस्य धातोः परस्मैपदित्वात् तुदादित्वाच्च शतरि द्रुणन्-ती इति रूपमिति विशेषः।
द्रुणः = खर्जूरः।
इगुपधलक्षणः कप्रत्ययः।
गौरादिषु 5 पाठात् ङीषि द्रुणी = कच्छपी।
पचादिषु पाठात् कर्तर्यच्प्रत्यये द्रोणः।
6 विद्रोणनम्।
‘परिमाणाख्यायां सर्वेभ्यः’ 7 इति घञि द्रोणः = परिमाणविशेषः।
प्रासङ्गिक्यः
01
=>
(८८४)
02
=>
(६-तुदादिः-१३३७। सक। सेट्। पर।)
03
=>
[पृष्ठम्०७८२+ २४]
04
=>
(४६६)
05
=>
(४-१-४१)
06
=>
[[आ। ‘विद्रोणनेष्वघुणिता मदघूर्णदक्षा युद्धे सुरानपि खरोत्कुरिताः खुरन्तः।।’ धा। का। २। ७६।]]
07
=>
(३-३-२०)
1 {@“धण शब्दे”@} 2 ‘ध्वण’ इत्यस्य पाठभेदोऽयम्।
धाणकः-णिका, धाणकः-णिका, दिधणिषकः-षिका, दन्धणकः-दंधणकः- णिका
इत्यादीनि सर्वाणि रूपाणि कणतिवत् 3 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(८९२)
02
=>
(१-भ्वादिः-४५३। अक। सेट्। पर।)
03
=>
(१५७)
1 {@“भ्रण शब्दार्थः”@} 2 भ्राणकः-णिका, भ्राणकः-णिका, बिभ्रणिषकः-षिका, बम्भ्रणकः-बंभ्रणकः- णिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकक्वणतिवत् 3 ज्ञेयानि।
4 भ्रणितम्।
प्रासङ्गिक्यः
01
=>
(११८०)
02
=>
(१-भ्वादिः-४५२। अक। सेट्। पर।)
03
=>
(२९३)
04
=>
[[आ। ‘वनात् कुमाराः क्वणिताग्र्यवेणवो व्रणद्विषाणभ्रणिताब्भ्रमाययुः।।’ धा। का। १। ५८।]]
1 {@“मण शब्दार्थः”@} 2 माणकः-णिका, माणकः-णिका, मिमणिषकः-षिका, मम्मणकः-मंमणकः- णिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककणतिवत् 3 ज्ञेयानि।
‘रण मण क्वणां गतौ मित्त्वं स्मर्यते।’ इति क्षीरस्वाम्याह।
क्षीरस्वामिनं विना अन्ये सर्वेऽपि धटादिषु पठन्ति।
प्रकरणान्तरे अर्थान्तरे पठितानां धातूनामर्थविशेषे धटादिषु पाठस्य सर्वैर्यथाप्रमाणमभ्युपगमात्, अस्यापि घटादिपाठः स्यान्नाम।
घटादिपाठपक्षे णौ ‘मितां ह्रस्वः’ 4 इति मित्त्वेन उपधाया ह्रस्वः।
तेन मणकः-णिका, मणयिता-त्री, मणम् २- माणम् २, मणयित्वा २, इत्यादीनि रूपाणि ण्यन्ते यथायथमूह्यानि।
5 मणितम्, 6 7 मणिः, 8 मणिकम्, मणिकः इत्यादीनि रूपाण्यस्माद् भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१२१०)
02
=>
(१-भ्वादिः-४४८। अक। सेट्। पर।)
03
=>
(१५७)
04
=>
(६-४-९२)
05
=>
[[३। धातोरस्य शब्दार्थत्वेऽपि शब्दविशेष एव रूढिः। “मणितं सुरतकूजिते रूढम्, एवं कणितम् आर्ते…” इत्यादि सुदूरं शब्दार्थकानामेव धातूनां अर्थभेदं निरूप्य “इत्यादि प्रतिधातुस्थं कियद् व्याचक्ष्महे वयम्। लोकात् सूरिभिरित्यूह्यं लक्ष्यमूलं हि लक्षणम्।।” इति क्षीरस्वामिना प्रति- पादितमिहानुसन्धेयम्। एवमेव धातुपाठे कस्मिंश्चिदर्थविशेषे पठितानामपि धातूनां लोकप्रयोगतोऽर्थान्तरे वृत्तिरित्यूह्यमिति प्रदर्शनायास्माभिरेतदत्रोपात्तम्।]]
06
=>
[पृष्ठम्०९९३+ २४]
07
=>
[[१। ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति भावादौ स्त्रियाम् इक्प्रत्यये रूपमेवम्।]]
08
=>
[[२। मणिरेव, मणिरिव इत्यादिष्वर्थेषु तद्धिते कन्प्रत्यये रूपमेवम्। ‘मणिकः = महा- कुम्भः।’ इति क्षीरस्वामी।]]
1 {@“मुण प्रतिज्ञाने”@} 2 मोणकः-णिका, मोणकः-णिका, मुमोणिषकः-मुमुणिषकः-षिका, मोमुणकः- णिका
मोणिता-त्री, मोणयिता-त्री, मुमोणिषिता-मुमुणिषिता-त्री, मोमुणिता-त्री
इत्यादीनि सर्वाणि रूपाणि प्रातिस्विकरूपाणि विना तौदादिकपुणतिवत् 3 ज्ञेयानि।
शतरि- 4 मुणन् इति।
प्रासङ्गिक्यः
01
=>
(१२८४)
02
=>
(६-तुदादिः-१३३४। सक। सेट्। पर।)
03
=>
(१०१७)
04
=>
[[आ। ‘ईशस्य पुण्यसुगमस्य वधं मुणन्तो मल्लाश्च यत्र चुकुणुः शुनका इवोच्चैः।’ धा। का। २। ७६।]]