णह (Naha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
Englishधातुपाठः (Krishnacharya)
Sanskrit नह्
णह
बन्धने
दिवादिः
सकर्मकः
अनिट्
उभयपदी
नह्यति-ते
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुप्रदीपः
Sanskritणहँ णह बन्धने
- नह्यति नह्यते प्रणह्यति ननाह नेहे नेहतुः नेहाते नद्धा नत्स्यति नत्स्यते समनात्सीत् समनद्ध समनाद्धाम् समनत्साताम् समनात्सुः समनत्सत निनत्सति निनत्सते नानह्यते नद्ध्री उपानत् उपानहौ सन्नह्यतेऽनेनेति सन्नाहः नद्धम् नद्धुम् नद्ध्वा प्रणह्य 60
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritणह बन्धने दिवा० अनिट् । नह्यति--ते प्रणह्य-ति--ते । अनात्सीत् अनद्ध ननाह नेहे । नद्ध्वा नद्धः नद्ध्री ।“यथा युगं वरत्रया नह्यन्ति” ऋ० १० । ६० । ८ “खर्जूरी-स्कन्धनद्धानाम्” रघुः । “अमृतोत्पादने नद्धो भुज-गेनेव मन्दरः” रामा० सुन्द० २४ अ० ।अपि + धारणे वा आदेरल्लोपः । पिनह्यति अपिनह्यति ।“वितत्या शार्ङ्गं कवचं पिनह्य” भट्टिः । “आमुच्यकम्बूपरिहाटके शुभे विमुच्य वेणीमपिनह्य कुण्डले”भा० वि० ११ अ० । विशेषेण बन्धने निबन्धने च ।“पिनद्धां धूमजालेन प्रभामिव विभावसोः” भा० व० ६८ अ०“बहुध तु पिनद्धार्ङ्गैर्हिमवच्छिखरैरिव” भा० आ०१८५ अ० ।अव + समन्ताद्बन्धने । “चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरी-षयोः” मनुः ।आ + सम्यग्बन्धने “वरत्रायां दार्व्यानह्य मानः” ऋ० १० । १०२ । ८“आनद्धावरणैः कामैः” भा० भी० ११९ अ० । “आनह्यतेयस्य विधूप्यते च पापच्यते क्लिद्यति चापि नासां” सुश्रु०परि + आ + परितो बन्धे । “सोमपर्य्याणहनेन पर्य्या-णह्यति” शत० व्रा० ३ । ३ । ४ । ६उद् + उत्तोल्य बन्धने । “अस्थ्यवयवोऽस्थिमध्यमनुप्रविश्यमज्जानमुन्नह्यति” “सास्रावमुन्नह्यति मांसपिण्डम्”सुश्रु० अतिवन्धने च । “ते नेह शक्याः सहसा विजेतुंवीर्य्योन्नद्धाः कृतवैरास्त्वया ते” भा० भी० ८१ अ० ।सम् + उद् + समुग्बन्धने । “बल्मीकवत् सभन्नद्धमन्तः कुर्बन्तिविद्रधिम्” सुश्रु० । पण्डित्याभिमाने गर्वे च “अतस्त्रिषुसमुन्नद्धौ पण्डितम्मन्यगर्वितौ” अमरः । तत्र पाण्डित्यमाने“अश्रुतश्च समुन्नद्धौ डरिद्रश्च महामनाः” भा० उ० ३२ अ० ।गर्वे “अर्थं महान्तमासाद्य विद्यामैश्वर्य्यमेव वा ।विचरत्यसमुन्न्द्धो यः स पण्डित उच्यते” भा० उ०३२ अ० । समुद्नवे च “परोक्षेण समुन्नद्धप्रणयोतकण्ठ्यकातरः” भाग० १ । १५ । ४उप + उपरिबन्धने । “विस्रावयेत् स्विन्नमतन्त्रितश्च शुद्धं व्रणंचाप्युपनाहयेत्तु” सुश्रु० । उपानद् क्विपि पूर्वस्वरदीर्घः ।नि + निवन्धने । “इषधिः पृष्ठे निनद्धः” ऋ० ६ । ७५ । ५परि + परितो बन्धने । “न तां बध्री परिणहेच्छतचर्माभहातनुम्” भा० आ० २९ अ० । विस्तारे “परिणाहोविशाकता” अमरः । “कपाटवक्षाः परिनद्धकन्धरः”रघुः । क्विपि घञि परे वा दीर्थः परी(रि) णाहः ।सम् + सम्यग्बन्धने कवचादिधाऋअणे च ।“श्लथद्दुकूलं कवरीं च विच्युतां संनह्यतीं वामकरेणवलगुना” भाग० ८ । १२ । १६ । “कवचेन महार्हेण सम-नह्यद्वृहन्नलाम्” भा० वि० ३७ अ० ।
क्षीरतरङ्गिणी
Sanskritणहँ णह बधने
- नह्यते नह्यति नद्धा, नहो धः (8234) नहिवृति (63116) इति क्वौ दीर्घः-उपानत् वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोरिति-पिनह्यति, अपिनह्यति ष्ट्रन् (द्र0 32182) नद्ध्री चर्मरज्जुः ऋनहिभ्याम् उषच् (द0 उ0 913 कपाठः)-नहुषः नहो भ च (तु0 द0 उ0 971 गपाठः) नभस् संनाहः 57
धातुवृत्तिः
Sanskritणहँ णह (अर्थः) बन्धने
( प्रणह्यते ) "उपसर्गात्'' इत्यादिना णत्वम् (पिनह्यते, अपिनह्यते) "वष्टि भागुरिः' इत्युल्लोपः ( नेहे नद्धा ) नहो धः'' इति झलि पदान्ते च हकारस्य धत्वम् "झषस्तथोर्धोधः'' इति धत्वे जश्त्वम् ( नत्स्यते ) धत्वे तस्य "खरि च'' इति चर्त्वम् ( नह्यताम् अनह्यत नह्येत, नत्सीष्ट ) लिङौ ( अनद्ध ) "झलो झलि'' इति सिज्लोपः ( अनत्साताम् ) इत्यादि ( नह्यति ननाह, नेहतुः ननद्ध, नेहिथ ) थलि भारद्वाजनियमादिड्विकल्पः "थलि च सेटि'' इत्येत्वाभ्यासलोपौ ( नेहिव ) क्रादिनियमादिट् ( नद्धा नत्स्यति नह्यतु ( अनह्यत् नह्येत् अनात्सीत् ) "वदव्रज'' इति नित्यवृद्धिः ( निनत्सते निनत्सति नानह्यते नानद्धि नाहयति अनीनहत् नध्री ) "दाम्नी'' इत्यादिना करणे ष्ट्रन् षित्वान् ङीष् ( उपानत् ) पादुकाशिक्यविशेषश्च क्विपि धत्वे "झलां जशोऽन्ते'' इति जश्त्वे "वावसाने'' इति चर्त्वविकल्पः "नहिवृति'' इत्यादिना क्विबन्ते नह्यतौ पूर्वपदस्य दीर्घः, ( प्राणत् ) पूर्ववत् क्वौ दीर्घः ( औपानह्यः ) मुञ्जः "ऋषभोपानहोर्ञ्यः'' इति विकृतिवाचिनस्तदर्थायां प्रकृतौ विवक्षितायां ञ्यप्रत्ययः चर्मण्यपि प्रकृतित्वेन विवक्षिते "वर्मणोऽञ्'' इत्यञं बाधित्वा पूर्वविप्रतिषेधेन ञ्य एव भवति (औपानह्यं) चर्म इति (नाभिः) "नहेर्भ च'' इतीञ्प्रत्ययः, हस्य च भः नाभये हितं (नाभ्यं) तैलम् "शरीरावयवाद्यत्'' इति यत् एवं नाभौ भवमपि यस्तु रथावयववाची नाभिशब्दस्तस्य "उगवादिभ्यः'' इत्यत्र "नाभि नभं च'' इति पाठाद्यतिनभभावे ( नभ्यो अक्षः, नभ्यमञ्जम् ) इति भवति पद्मनाभः) "अच्'' इति योगविभागात्समासान्तोऽच् 58
कृदन्तरूपमाला
Sanskrit1 {@“णह बन्धने”@} 2 नाहकः-हिका, नाहकः-हिका, 3 निनत्सकः-त्सिका, नानहकः-हिका
4 5 नद्धा-द्ध्री, नाहयिता-त्री, निनत्सिता-त्री, नानहिता-त्री
6 नह्यन्-न्ती, नाहयन्-न्ती, निनत्सन्-न्ती
-- नत्स्यन्-न्ती-ती, नाहयिष्यन्-न्ती-ती, निनत्सिष्यन्-न्ती-ती
-- नह्यमानः, नाहयमानः, निनत्समानः, नानह्यमान
नत्स्यमानः, नाहयिष्यमाणः, निनत्सिष्यमाणः, नानहिष्यमाण
7 उपानत्-उपानद्-उपानहौ-उपानहः, प्राणत्-प्राणद्-प्राणहौ-प्राणहः
-- अपिनद्धम्- 8 पिनद्धः- 9 सुनद्धम्-नद्धवान्, नाहितः, निनत्सितः, नानहितः-तवान्
नहः, प्रणाही, नाहः, निनत्सुः, नानह
नद्धव्यम्, नाहयितव्यम्, निनत्सितव्यम्, नानहितव्यम्
नहनीयम्, नाहनीयम्, निनत्सनीयम्, नानहनीयम्
नाह्यम्, नाह्यम्, निनत्स्यम्, नानह्मम्
ईषन्नहः-दुर्नहः-सुनहः
-- -- -- नह्यमानः, नाह्यमानः, निनत्स्यमानः, नानह्यमानः
नाहः, संनाहः-परिणाहः- 10 परीणाहः, नाहः, निनत्सः, नानहः
नद्धुम्, नाहयितुम्, निनत्सितुम्, नानहितुम्
नद्धिः, नाहना, निनत्सिषा, नानहा
नहनम्, 11 प्रणिनहनम्-प्रनिनहनम्, नाहनम्, निनत्सनम्, नानहनम्
नद्ध्वा, नाहयित्वा, निनत्सित्वा, नानहित्वा
12 प्रणह्य- 13 पिनह्य, प्रणह्य, प्रणाह्य, प्रणिनत्स्य, प्रणानह्य
नाहम् २, नद्धवा २, नाहम् २, नाहयित्वा २, निनत्सम् २ निनत्सित्वा २, नानहम् २
नानहित्वा २।
01 (६६९)
02 (४-दिवादिः-११६६। सक। अनि। उभ।)
03 [[५। ‘णो नः’ (६-१-६५) इति नत्वे, धातोरनुदात्तत्वात् सन इण्णिषेधे, ‘नहो धः’ (८-२-३४) इति हकारस्य धकारे, ‘खरि च’ (८-४-५५) इति चर्त्वे च रूपम्। एवं सन्नन्ते सर्वत्र प्रक्रिया बोध्या।]]
04 [पृष्ठम्०६२२+ २७]
05 [[१। ‘एकाच उपदेशेऽनुदात्तात्’ (७-२-१०) इतीण्णिषेधे, धत्वचर्त्वयोश्च रूपम्। एवं तव्यदादिष्वपि बोध्यम्।]]
06 [[२। ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन् विकरणप्रत्ययः।]]
07 [[३। उपनह्यते = बध्यते इति उपानत् = पादुका’ शिक्यविशेषश्च। ‘नहिवृति--’ (६-३-११६) इति क्विबन्ते परतः पूर्वपदस्य दीर्घो भवति। एवं प्राणत् इत्यत्रापि। णत्वं प्राणदित्यत्राधिकमिति विशेषः।]]
08 [[४। ‘वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः। आपं चैव हलन्तानां यथा वाचा निशा दिशा।।’ इति वचनात् अपिशब्दघटका- कारस्य लोपः।]]
09 [[आ। ‘तन्मृष्यमाणास्त्वथ शुच्यदङ्गका भूत्याः सुनद्धं बहुरक्तमंशुकम्।’ धा। का। २। ६१।]]
10 [[५। ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ (६-३-१२२) इति पूर्वपदस्य दीर्घः। णत्वम्।]]
11 [[६। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति णत्वम्।]]
12 [पृष्ठम्०६२३+ २३]
13 [[आ। ‘दृष्ट्वोर्णुवानान् ककुभो बलौघान् वितत्य शार्ङ्गं कवचं पिनह्य।’ भ। का। ३। ४७।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
