णश (Naza)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishShabdartha Kaustubha
Kannadaणश - अदर्शने (दिवा० पर० अक० से०) नश्यति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಅದರ್ಶನ ಹೊಂದು /ಕಾಣದೆ ಇರು /ಮರೆಯಾಗು
प्रयोगाः - > "ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च"
उल्लेखाः - > हितो०
कन्नडार्थः - > ಬಂಧಿಸು /ಕಟ್ಟು
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुपाठः (Krishnacharya)
Sanskrit नश्
णश
अदर्शने
दिवादिः
अकर्मकः
सेट्
परस्मैपदी
नश्यति
पुषादिः
धातुप्रदीपः
Sanskritणशँ णश अदर्शने
- नश्यति प्रणश्यति ननाश नेशतुः नंष्टा नशिता नङ्क्ष्यति नशिष्यति अनशत् नष्ट्वा नंष्ट्वा नशित्वा प्रणश्य नश्वरः जीवनाशं नश्यति प्रनष्टः 88
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritणश अदर्शने ध्वंसे च दिवा० अक० सेट् । नश्यति प्रणश्यतिअनेशत् पा० अन्यमते नशत् अशान्तत्वे न णत्वम्प्रनष्टः । “फलभोग्यो न नश्यति” “प्रनष्टखामिकं द्रव्यम्”याज्ञ० । “चेष्टा वय्नेशन्निखिलास्तदास्याः स्मरेषुपातैरिवताविधूताः” नैषध० “एतेन लुङुत्तमपुरुष एव नेशादेशोक्ति-श्चिन्त्या “ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च”हितो० “आ पाप! स्वयं नष्टः परानपि नाशयितु-मिच्छसि” प्रबो० च० ।
क्षीरतरङ्गिणी
Sanskritणशँ णश अदर्शने
- (अर्थविवरणम्) अदर्शनमनुपलब्धिः
प्रणश्यति नशेः षान्तस्य (8436) इति णो नास्ति-प्रनष्टः, प्रनङ्क्ष्यति मस्जिनशोर्झलि (7160) इति नुम्-नंष्टा, नशिता (द्र0 7245) नशेर्वा (8263) कुत्वम्-नश्यतीति नक् नट् जीवो नश्यति-जीवनग् आहुतिः, जीवनट् बुधयुध (1386) इति नाशयति, नन्द्यादौ (गण0 31134) वित्तनाशनः निन्दहिंस (3 2146) इति विनाशकः इण्नश्जि (32163) इति क्वरप्-नश्वरः कर्त्रोर्जीवपुरुषयोः (3443) इति णमुल्-जीवनाशं नष्ट, 82
धातुवृत्तिः
Sanskritणशँ णश (अर्थः) अदर्शने
( नश्यति ननाश, नेशतुः, नेशिथ, ननंष्ठ, नेशिव, नेश्व, नेशिम, नेश्म ) एत्वाभ्यासलोपौ, पूर्ववदिड्विकल्पः अनिट्पक्षे "मस्जिनशोर्झलि'' इति थलि, नुमि एवमन्यस्मिन्नपि झलादौ ( नाशिता, नंष्टा नश्यति नङ्क्षयति नश्यतु अनश्यत् नश्येत, नश्यात्, लिङौ अनशत्, अनशः, अनशम् ) "अत एवहल्'' इत्यत्र भाष्यम्--
नशिमन्योरलिट्येत्वं छन्दस्यभिपचोरपि अनेशं मेनकेत्येतद् व्येमानं लिङि पेचिरन्
इति अत्र कैयटः अनशमिति मिपोऽम्भावः ) पुषादित्वादङादेशः "छन्दसि'' इति पूर्वेणापि सम्बन्धाद् भाषायामेत्वाभावः एवं तु मेनकेत्यपि भाषायां न प्राप्नोति यदित्विष्यते पृषोदरादित्वाद्भविष्यतीति हरदत्तोऽपि "अलिटि' इति पादपूरणार्थोऽनुवादः अनेशन्निति झेरन्तादेशः "अनेशन्नस्वेषवः अनेशमिति तु प्रायेण पाठः तत्र मिपोऽम्भावः "छन्दसि' इति वचनाद् मेनकेति च भाषायां न प्राप्नोति यदीष्यते [पृषोदरादिषु द्रष्टव्यम्] इति वृत्तौ तु [नशिमन्योरलिट्येत्वं वक्तव्यम्] अनेशत् मेनकाम् ( अनेशन् ) इति नशेर्लुङि पुषादित्वादङ् ( मेनका ) इति "मनेराशिषि च'' इति वुन् क्षिपकादिषु प्रक्षेपाद् इत्वं न क्रियते [ छन्दस्यमिपचोरलिट्येत्वं वक्तव्यम् ] इति वाक्यभेदेन छन्दोग्रहणमपिपचिशेषतया व्याख्यातम् दुर्गोऽपि सामान्येन "नश एत्'' इत्यङि परत एत्वमाह ( प्रणश्यति ) "उपसर्गादसमासेऽपि'' इति णत्वम् ( प्रनष्टा ) इत्यादौ "नशेःषान्तस्य'' इति णत्वनिषेधः अत्रान्तग्रहणस्य भूतपूर्वषान्तत्वाश्रयणार्थत्वात् प्रनङ्क्ष्यतीत्यादावपि न णत्वम् ( निनशिषति, निनङ्क्षति नानश्यते नानंष्टि नाशयति, अनीनशत् ) "बुधयुधनश'' इति नित्यं परस्मैपदम् ( नश्वरः, नश्वरी, ) "इण्नश्जी'' इति क्वरप् स्त्रियाम् "टिड्ढाणञ्'' इत्यादिना ङीप् प्रणश्यतीति ( प्रनट्, प्रनक्, ) "नशेर्वा'' इति पदान्तस्य वा कुत्वम् "नशेष्षान्तस्य'' इति णत्वनिषेधः भूतपूर्वगत्या षान्तत्वम् सा चान्तग्रहणात् तत्राश्रिता ( नष्टः ) "यस्य विभाषा'' इत्यनिट्त्वे "मस्जिनशोः'' इति नुम् "अनिदिताम्'' इति नलोपः दुःखेन नाशवितव्यो ( दूणाशः ) "ईषत्'' इत्यादिना खल दुरो "दाशनाशदभध्येषु'' इति पृषोदरादिपाठाद् दुर उत्वम्, उत्तरपदादेष्टुत्वं च ( नंशुकः ) रेणुश्चन्द्रमाश्च, "पचिनश्योर्नुकन्कनुमौ च'' इति नुकन्प्रत्ययो नुमागमश्च 86
कृदन्तरूपमाला
Sanskrit1 {@“णश अदर्शने”@} 2 रधादिः।
नाशकः-शिका, नाशकः-शिका, 3 निनशिषकः-षिका- 4 निनङ्क्षकः-क्षिका, नानशकः-शिका
5 नशिता-त्री-प्रनंष्टा-ष्ट्री, नाशयिता-त्री, निनशिषिता-त्री-निनङ्क्षिता-त्री, नानशिता-त्री
नश्यन्- 6 प्रणश्यन्-न्ती, नाशयन् 7 -न्ती, निनशिषन्-निनङ्क्षन्-न्ती
-- नशिष्यन्- 8 प्रनङ्क्ष्यन्-न्ती-ती, नाशयिष्यन्-न्ती-ती, निनशिषिष्यन्, निनङ्क्षिष्यन्-न्ती-ती
-- -- -- -- नानश्यमानः, नानशिष्यमाणः
9 प्रनट्-प्रनक्-प्रणशौ-प्रणशः
-- -- -- 10 11 प्रनष्टम्- 12 प्रनष्टः-नष्टवान्, प्रणाशितः, निनशिषितः, निनङ्क्षितः-नानशितः, तवान्
नशः, 13 विनाशी, 14 कृतनाशी, 15 विनाशकः, 16 नश्वरः 17 -नश्वरी, नाशः, 18 चितविनाशनः-वित्तनाशनः-निनङ्क्षुः, नानशः
नशितव्यम्-नंष्टव्यम्, नाशयितव्यम्, निनशिषितव्यम्-निनङ्क्षितव्यम्, नानशितव्यम्
नशनीयम्, नाशनीयम्, निनशिषणीयम्, निनङ्क्षणीयम्, नानशनीयम्
नाश्यम्, नाश्यम्, निनशिष्यम्-निनङ्क्ष्यम्, नानश्यम्
ईषन्नशः-दुर्नशः-सुनशः, 19 दूणाशः
-- -- नश्यमानः, नाश्यमानः, निनशिष्यमाणः-निनङ्क्ष्यमाणः, नानश्यमानः
नाशः, नाशः, निनशिषः-निनङ्क्षः, नानशः
नशितुम्-नंष्टुम्, नाशयितुम्, निनशिषितुम्-निनङ्क्षितुम्, नानशितुम्
नष्टिः 20 जीवनक्, नाशना, निनशिषा-निनङ्क्षा, नानशा
21 नशनम्, नाशनम्, निनशिषणम्-निनङ्क्षणम्, नानशनम्
नशित्वा-नंष्ट्वा- 22] नष्ट्वा, नाशयित्वा, निनशिषित्वा, निनङ्क्षित्वा, नानशित्वा
प्रणश्य, प्रणाश्य, प्रणिनशिष्य-प्रणिनङ्क्ष्य, प्रणानश्य
23 अजकनाशं 24, विद्युत्प्रणाशं 25, 26 जीवनाशं 27 28, नाशम् २, नशित्वा-नंष्ट्वा-नष्ट्वा-२, नाशम् २, नाशयित्वा २, निनशिषम् २-निनशिषम् २-निन्ङ्क्षम् २, निनशिषित्वा २-निनङ्क्षित्वा २, नानशम् २
नानशित्वा २।
01 (६६७)
02 (४-दिवादिः-११९४। अक। सेट्। पर।)
03 [[४। ‘रधादिभ्यश्च’ (७-२-४५) इति वलादेरार्धधातुकस्येटो वैकल्पिकत्वात् इट्पक्षे रूपम्। एवम् इट्पक्षे सन्नन्ते सर्वत्र ज्ञेयम्।]]
04 [[५। इडभावपक्षे, ‘मस्जिनशोर्झलि’ (७-१-६०) इति नुमागमे, ‘व्रश्च--’ (८-२-३६) इत्यादिना शकारस्य षत्वे, ‘षढोः कः सि’ (८-२-४१) इति कत्वे, ‘नश्चा- पदान्तस्य झलि’ (८-३-२४।) इत्यनुस्वारे, ‘इण्कोः’ (८-३-५७) इति सनः सकारस्य षत्वे, ‘अनुस्वारस्य ययि--’ (८-४-५८) इति परसवर्णे च रूपम्। एवम् इडभावपक्षे सन्नन्ते प्रक्रिया सर्वत्र बोध्या।]]
05 [[६। रधादित्वादिड्विकल्पः। इडभावपक्षे, ‘नशेः षान्तस्य’ (८-४-३६) इति णत्व- निषेधः। एवं तव्यदादिष्वपि ज्ञेयम्।]]
06 [[आ। ‘प्रणश्यन्नपि नाशक्नोदत्येतुं बाणगोचरम्।’ भ। का। ९। १३४।]]
07 [[७। ‘बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः’ (१-३-८६) इति ण्यन्तात् शतृप्रत्यय एव भवति। न त्वात्मनेपदं शानच्।]]
08 [[८। ‘नशेः षान्तस्य’ (८-४-३६) इत्यत्र अन्तग्रहणसामर्थ्यात् भूतपूर्वषकारान्तस्यापि प्रहणमिति, णत्वमत्रापि न।]]
09 [[९। क्विपि, ‘व्रश्च--’ (८-२-३६) इति षत्वे, ‘नशेर्वा’ (८-२-६३) इति कुत्वविकल्पः। भूतपूर्वगत्या षकारान्तत्वात् णत्वं न।]]
10 [पृष्ठम्०६२०+ २७]
11 [[१। वलादेरार्धधातुकस्य ‘रधादिभ्यश्च’ (७-२-४५) इतीड्विकल्पनात् निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधः।]]
12 [[आ। ‘विद्युत्प्रणाशं स वरं प्रनष्टो यद्वोर्ध्वशोषं तृणवद्विशुष्कः।’ भ। का। ३। १४।]]
13 [[२। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
14 [[B। ‘कुर्मश्च जीविते बुद्धिं धिक् तृष्णां कृतनाशिनाम्।।’ भ। का। १८। ३२। (मल्लिनाथसम्मतपाठानुसारेण णिनिप्रत्ययान्ततया लिखितम्।)]]
15 [[३। ‘निन्दहिंसक्लिशखादविनाश--’ (३-२-१४६) इत्यादिना तच्छीलतद्धर्मतत्साधु- कारिषु वुञ्। अकादेशः।]]
16 [[४। ‘इण्नशिजि--’ (३-२-१६३) इति तच्छीलादिषु कर्तृषु क्वरप्। स्त्रियां ‘टिड्ढा--’ (४-१-१५) इति ङीप्।]]
17 [[C। ‘रद्धारये सोऽयमनश्वराय तृप्यन्मना दृप्तजनद्रुहेऽस्मै।’ धा। का। २। ६४।]]
18 [[५। चित्तं विनाशयतीति, वित्तं नाशयतीति च चित्तविनाशनः, वित्तनाशनः। नन्द्यादित्वात् (३-१-१३४) ण्यन्तात् कर्तरि ल्युः। कर्मण्यणोऽपवादः।]]
19 [[६। दुःखेन नाशयितव्यः = दूणाशः। ‘ईषत्--’ (३-३-१२६) इत्यादिना ण्यन्तात् खल्। ‘दुरो दाशनाशदभध्येषु उत्त्वम्, उत्तरपदादेः ष्टुत्वं च’ (वा। ६-३-१०९) इति वचनेन उपसर्गान्त्यस्योत्वम्, सवर्णदीर्घः, उत्तरपदादेः ष्टुत्वं च।]]
20 [[७। जीवो नश्यतीति, जीवं नाशयति, इति वा जीवनक् = आहुतिविशेषः। बाहुलकादत्र स्त्रियाम् अर्थविशेषे क्विप उपपत्तिः।]]
21 [पृष्ठम्०६२१+ २६]
22 [[१। ‘रधादिभ्यश्च’ (७-२-४५) इतीड्विकल्पः। इट्पक्षे नशित्वा इति रूपम्। इडभावपक्षे ‘मस्जिनशोर्झलि’ (७-१-६०) इति नुमि, नंष्ट्वा इति रूपम्। ‘जान्तनशां विभाषा’ (६-४-३२) इति क्त्वायां नकारस्य विकल्पेन लोपे नष्ट्वा इति रूपम्।]]
23 [[२। ‘उपमाने कर्मणि च’ (३-४-४५) इति णमुल्। ‘कषादिषु यथाविध्यनुप्रयोगः’ (३-४-४६) इति णमुलन्तस्य धातोः अनुप्रयोगः। अजकश्व नष्ट इत्यर्थः। विद्युत्प्रणाशं नष्टः इत्यत्राप्येवमेव।]]
24 [नष्टः]
25 [नष्टः]
26 [[३। ‘कर्त्रोर्जीवपुरुषयोर्नशिवहोः’ (३-४-४३) इति णमुल्। ‘कषादिषु--’ (३-४-४६) इति अनुप्रयोगः। जीवो नश्यतीत्यर्थः।]]
27 [[आ। ‘चकम्पेऽतीव चुक्रोश जीवनाशं ननाश च।।’ भ। का। १४। ३१।]]
28 [नष्टः]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
