| YouTube Channel

णल (Nala)

 
शब्दसागरः
English
णल r. 1st cl. (नलति प्रणलति)
1. To smell.
2. To bind.
Wilson
English
णल r. 1st cl. (नलति प्रणलति)
1 To smell.
2 To bind.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
नल्
मूलधातुः:
णल
धात्वर्थः:
गन्धने (सूचनं), बन्धने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
नलति
धातुप्रदीपः
Sanskrit
णलँ णल गन्धे
- नलति प्रणलति प्रणालः प्रणलः प्रणालः - करणे गत्यर्थाद् घञ् ।। 840 ।।
शब्दकल्पद्रुमः
Sanskrit
णल, बन्धे इति कविकल्पद्रुमः
(भ्वां-परं-सकंसेट् ।) ज, नालः नलः नलति केशं लोकःबध्नाति इत्यर्थः गन्धे इति केचित् गन्धो-ऽदर्शनमिति गोविन्दभट्टः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
णल बन्धे
भ्वा०
पर०
सक०
सेट् नलति प्रणलति ।अनालीत् ज्वला० नलः नालः
क्षीरतरङ्गिणी
Sanskrit
णलँ णल गन्धे
- (अर्थविवरणम्) गन्धोऽर्दनम्
प्रणलति नालम् नाला पद्मादीनां वृन्तम् नाली, नाडी प्रणालः, प्रणाली, प्रणाडिका नलः, नडः 808
धातुवृत्तिः
Sanskrit
णलँ णल (अर्थः) गन्धे
बन्धनइति काश्यपः (प्रणलीतत्यादि नालः, नलः नली प्रणाली )गौरादिः डलयोरकत्वत्वस्मरणात् ( नङः ) व्यूत्पन्नं प्रातिपदिकमिति हरदत्तः नडानां समूहो (नड्या) "पाशादिभ्यो यः'' इति यः नडा अस्मिन्देशेसन्ततीति (नड्वलः नड्वान्)"कुमुनउवेतसेभ्यो ड्मतुप्'' "नडशादाड्वलच'' इति चातुरर्थिको ङ्मतुप् डच्लच्च (नली ) नन्ददक्षिभ्यामिनन्निति इनन् बाहुलकादस्मादपि ( नलिनी ) गौरादिषु दर्शनात् "जातेरस्त्रीविषया'' इति वा ङीष् यद्वा नलशब्दात् "पुष्करादिभ्यो देशे''इति मत्वर्थीय इनौ ङीपि द्रष्टव्यः नलं गन्धं ददातीति नलदं त्वामज्जकम् 823
कृदन्तरूपमाला
Sanskrit
1 {@“णल गन्धे”@} 2 ज्वलादिः।
‘--बन्धने’ इति काश्यपः।
गन्धः = हिंसनं वासना व।
नालकः-लिका, प्रणालकः-लिका, निनलिषकः-षिका, नानलकः-लिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकचलतिवत् 3 ज्ञेयानि।
घटादि- 4 कार्यं तु नास्य भवतीति विशेषः।
5 नलः, 6 नालः, 7] नलः।
प्रासङ्गिक्यः
01
=>
(६६६)
02
=>
(१-भ्वादिः-८३८। अक। सेट्। पर।)
03
=>
(५१०)
04
=>
[पृष्ठम्०६१९+ २६]
05
=>
[[१। शत्रून् नलति = बध्नातीति नलः = नृपतिविशेषः। कर्तरि पचाद्यच्।]]
06
=>
[[२। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। नालः = बिसतन्तुः।]]
07
=>
[[३। नल्यते इति नलः = गन्धविशेषः। [नलदम् = लामज्जकम्।]]