णम (Nama)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishणम r. 1st cl. (नमति)
1. To salute with reverence or respect.
2. To
bow down or bent, to bow down in homage or worship.
3. To
sound. With अव or आङ् or or सम् prefixed, To bend down, to
decline. With प्र, to bow, to salute. With उत्, To lift up, to raise,
to make straight or erect. शब्दे अक-नतौ सक भ्वा-पर-अनिट् ।
Wilson
EnglishShabdartha Kaustubha
Kannadaणम - प्रह्वत्वे शब्दे च (भ्वा० पर० सक० शब्दे० अक० अनि०) नमति ।
पदविभागः - > धातुः
कन्नडार्थः - > ನಮಸ್ಕರಿಸು /ಗೌರವದಿಂದ ಬಗ್ಗು /ವಿಧೇಯತೆಯಿಂದ ತಲೆತಗ್ಗಿಸು
प्रयोगाः - > "इयं नमति वः सर्वान् त्रिलोचन वधूरिति"
उल्लेखाः - > कुमा० ६-८९
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुपाठः (Krishnacharya)
Sanskrit नम्
णम
प्रह्वत्वे शब्दे च
भ्वादिः
अकर्मकः
सेट्
परस्मैपदी
नमति
धातुप्रदीपः
Sanskritणमँ णम प्रह्वत्वे, शब्दे च
- नमति । प्रणमति । नमते स्वयमेव । नन्ता । अनंसीत् । अनंस्त दण्डः स्वयम् । नतः । नम्रः ।। 989 ।।
शब्दकल्पद्रुमः
Sanskritणम, औ शब्दे । नतौ । इति कविकल्पद्रुमः । (भ्वां-परं-अकं-नतौ सकं अकं च अनिट् ।) औ, नन्ता । शब्दार्थो न भाषायाम् । नतिरिहनमस्कारो नम्रीभावश्च । नमति गुरुं लोकः ।नमन्ति फलिनो वृक्षाः । अमन्तेऽप्यस्य ज्वल-ह्वलह्मलेत्यादिना केवलस्य ह्नस्वविकल्पनात्सोपसर्गस्यैव नित्यं ह्नस्वः । नमयति नामयतिप्रणमयति । श्वपुच्छमवनामितं बधिरकर्णजापःकुतः । इत्यादौ अवनमनं अवनामः घञ् ततोअवनामं करोतीति ञौ रूपम् । इति दुर्गा-दासः ॥
वाचस्पत्यम्
Sanskritणम शब्दे अक० नतौ अनिट् । नमतिप्रणमति अनं सीत् । ननाम नेमतुः नेमिथ नमन्थ ।नतः नतिः नामः नत्वा नन्ता नम्यः आनाम्यः । अस्यअमन्तत्वेन घटादित्वे प्राप्तेऽपि अनुपसर्गाद्वेति नियमात्वा तथात्वम् । नमयति नामयति उपसर्गात्तु उन्नमय-तीत्येव । नतिश्च स्वाकर्षबोधकव्यापारभेदः स च करशिरःसंयोगादिः स्वापकर्षबोधशालिनः कर्मता । नमति गुरुम्ढुण्ढिशब्दे उदा० । ण्यग्भावे (नोया) अकर्म्म० । ततःकर्मकर्त्तरि न यक्चिणौ नमते अनंस्त । “सुम्नेभिरस्मेवसवो नमध्वम्” ऋ० ७ । ५६ । १७ । “एवे द्यूने युवतयोऽनमन्त” १० । ३० । ६ । न्यग्भावे “अनंसीद्भूर्भरेणास्य” भट्टिः ।“उन्नमति नमति वर्षति गर्ज्जति मेघः करोति तिमि-रौघप्त् । प्रथमश्रीरिव पुरुषः करोति रूपाण्यनेकानि”मृच्छ० “नतभ्रुवो नव्यजनापनेयः” उद्भटः “पुष्पभारनतालता” रामा० २ । ९६ अ० । “तवाभिधानाद् व्यथतेनताननः” किरा० । यङि नंनम्यते । “नंनम्यमानाफलदित्सयेव” भट्टिः ।अभि + आभिमुख्येन नमने । “देवान् वै यज्ञो नाभ्यनमत्”अव + न्यग्भावे अधोभवने (नीचे नोअओया) अक० । “त्व-य्यादातुं जलमवनते” मेघ० । णिच् अवनमयति“अवनामितमेढ्रस्य मेढ्रे” सुश्रु० । “शिरः सुकृष्णोजग्राह स्वहस्तेनावनाम्य च” हरिवं० ६९ अ० ।केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे” भ० आ० १३४ अ० ।आर्षो न ह्रस्वः आम्बभावश्चार्षः ।उद् + ऊर्द्धगतौ उच्चभवने उत्थाने च अक० । “उन्नम्योन्नम्यतत्रैव दरिद्राणां मनोरथाः । हृदयेषु विलियन्ते विध-वास्त्रीस्तनाविव” पञ्चत० । “स्थितः सर्वोन्नतेनोर्वीम्” रघुःअभि + उद् + आभिमुख्ये नोन्नतौ अक० । “अभ्युन्नताङ्गुष्ठ-नखप्रभाभिः” कुमा० । “अभ्युन्नता परस्तादवगाढाजघनगौरवात् पश्चात्” शुकु० ।उप + प्राप्तौ स्वयमुपस्थितौ अक० । “यं सत्रियादीक्षोपनमेत” । अभ्याशो ह यदेनं साधवो धर्माआ च गच्छेयुरुपच नमेयुः” छा० उ० । “यदा तु पर-बाधयान्ध आत्मने नोपनमति” भाग० ५ । १४ । १४ श्लो० ।“मत्संयोगः कथमुपनमेत् स्वप्नजोऽपि प्रियायाः”मेघ० । “परलोकोपनतं जलाञ्जलिम्” कुमा० ।परि + तुल्यरूपसत्तया वस्तुनोऽन्यथाभवने अक० आत्म० । यथादुग्धपरिणामः दधि मृत्परिणामः घटादिः । “तथातैजसमन्तःकरणमपि चक्षुरादिद्वारा घटादिविषयदेशम्गत्वा घटादिविषयाकारेण परिणमते” “समसत्ताककार्य्योत्पादः परिणामः इति” वेदा० प० । कर्मकर्त्तरि आत्मनेपद-मित्यन्ये “परिणामस्वभावा हि गुणा नापरिणम्यक्षणमवतिष्ठन्ते” सा० त० कौ० । गजानां तिर्य्यग्धन्तप्रहारेसक० । “विष्के नागः पर्य्यणंसीत् स्व एव” माघः । पर्य्यणं-सीत् तिर्य्यक् प्रजहारेत्यर्थः । “तिर्य्यग्दन्तप्रहारैस्तु गजःपरिणतो मतः” वैजयन्ती । शेषताप्राप्तौ अक० ।“दिवसा परिणामरमणीयाः” शकु० । “ता एवौषधयःकालपरिणामात् परिणतवीर्य्या भवन्ति” सुश्रु० । परि-पाके च “आहारस्य सम्यक्परिणतस्य” सुश्रु० सम्यक्नमनेसक० । “यस्तं परिणमेच्च तत्” भा० उ० ११०७ ।प्र + प्रकर्षेण नतौ । “प्रणमेद्दण्डवड्मूमौ” भाग० ६ । १९ । ९ ।“प्रणेमुर्भुवि मूर्द्धभिः” भाग० ३ । ३ । २८ । “उरसाशिरसा दृष्ट्या वचसा मनसा तथा । पद्भ्यां कराभ्यांजानुभ्यां प्रणामोऽष्टाङ्ग इष्यते” नृसिह उक्तेनतिभेदे च ।प्रति + प्रतीपनतौ ।वि + विशेषेण नतौ ।वि + परि + भावस्य विकारभेदे अक० आत्म० “घट्भावविकाराभवन्तीति वार्द्धायणिः । जायतेऽस्ति विपरिणमत वर्द्धतेअपक्षीयते नश्यतीति, जायत इति पूर्वभावस्यादिमाचष्टेनापरभावमाचष्टे नो प्रतिषेधति । अस्तीत्युत्पन्नस्य सत्त्व-स्यावधारणं, विपरिणमत इत्यप्रच्यवमानस्य तत्त्वाद्विकारं, वर्द्धत इति स्वाङ्गाभ्युच्चगं, सांयौगिकानां वाङ्गानां, वर्द्धतेविजयेनेति वा, वर्द्धते शरीरेणेति वा । अपक्षीयत इत्ये-तेनैव व्याख्यातः प्रतिलोमं, विनश्यतीत्यपरभावस्यादिमा-चष्टे न पूर्वभावमाचष्टे न प्रतिषेधति” निरु० १ । २ ।अन्यविभक्त्यन्ततया श्रुतस्य शब्दस्य अन्यविभक्त्यन्ततयापरिकल्पने “कर्त्तरि शबित्यतः कर्तृग्रहणमनुवर्तते । तच्चप्रथमया विपरिणम्यते” पा० सू० व्याख्या । “अर्थवशात्विभक्तेर्विपरिणामः” परिभाषा ।सम् + सम्यग्नतौ । “धीरः संनमेत बलीयसे” भा० उ०११३० । “संनताः फलभारेण पुष्पभारेण च द्रुमाः”रामा० आ० ३ । १६ अ० ।
क्षीरतरङ्गिणी
Sanskritणमँ णम प्रह्वत्वे
- (अर्थविवरणम्) प्रह्वत्वं नम्रत्वम्
प्रणमति कर्मकर्तरि न दुहस्नुनमां यक्चिणौ (3189) नमते दण्डः स्वयमेव, अनंस्त यमरमनमातां सुक् (तु0 7273) अनंसीत् ज्वलह्वलह्मलचलनमाम् 91555) इति वा मित्-नामयति, नमयति उपसर्गान्नित्यम् प्रणमयति नमिकम्पि (32167) इति रः नम्रः फलिपाटि (उ0 128) इति नाकुर्बल्मीकम् 952
धातुवृत्तिः
Sanskritणमँ णम (अर्थः) प्रह्वत्वे शब्दे
नमति (ननाम नेमतुःनेमिथ ननन्थ नन्ता नंस्यतिनमतु अनमत् नमेत् नम्यात् अनंसीत् अनंसिष्टाम् ) "यमरमनमाताम्'' इति सगिटौ, परस्मैपदे ( निनंसति नंनंम्यते नंनमीति नंनन्ति नंनन्तः नंनमति नंनन्वः, नन्नन्मः ) "म्वोश्च'' इति नत्वम् अनंनन् अनन्नताम् "मो नो धातोः"इति पदान्ते नत्वम् ( नमयति नामयति ) "ज्वलह्वलह्मलनमामनुपसर्गाद्वा'' इति मित्त्वविकल्पः सोपसर्गात्तु अमन्त्वान्नित्यमित्त्वम् (प्रणमयति) "उपसर्गादसमासेऽपि''इति णत्वम् ( अनीनमत् ) नमते दण्डः स्वयमेव अनंस्त दण्डः स्वयमेव "न दुहस्नुनमाम्'' इति यक्चिणोर्निषेधः ( नम्रः ) "नमिकम्पि'' इति रः ( नेमिः ) भाषायां "धाञ्कृसृगमिजनिनमिभ्यः'' इति किकिनोरन्यतरः तस्य लिड्वद्भावादेत्वाभ्यासलोपौ भवतः "अनुदात्त'' इत्यनुनासिकलोपः (प्रणत्य प्रण्म्य) "वा ल्यपि''इत्यनुनासिकलोपतिविकल्पः नृन् नमयति नृनमो नाम कश्चित् "क्षुभ्नादिषु च''इति पाठाण्णत्वाभावः नमः असुन् नमस्यति देवान् पूजयतीत्यर्थः "नमोवरिवश्चित्रङः क्यच्''इति क्यच् नमसः पूजायामिति तत्र वृत्तिः ( नमस्कृत्य नमस्कृत्वा ) "साक्षात्प्रभृतीनि च'' इति कृञो योगे पक्षे गतिसज्ञा, गतित्वे"कुगति'' इति समासः "नमस्पुरसोर्गत्योः'' इति विसर्जनीयस्य सत्त्वं च नमो देवेभ्यः "नमः स्वस्तिस्वाहास्वधालंवषढ्योगाच्च''इति नमो युक्ताच्चतुर्थी नाकुर्वल्मीकः "फलपाटिनमि'' इत्यादिना उप्रत्ययो नाकादेशश्च ( नप्ता ) "नप्तृनेष्टृ'' इत्यादिना तृनि मकारस्य पकारो निपात्यते नप्तारावित्यादौ असम्बुद्धौ सर्वनामस्थाने "अप्तृन्'' इत्यादिना उपधादीर्घः 962
कृदन्तरूपमाला
Sanskrit1 {@“णम प्रह्वत्वे, शब्दे च”@} 2 ‘--शब्दे च’ इत्यर्थः क्षीरस्वामिना न पठ्यते।
नामकः-मिका, 3 नमकः-नामकः- 4 प्रणमकः-मिका, 5 निनंसकः-सिका, 6 नंनमकः-नन्नमकः-मिका
7 नन्ता-त्री, नमयिता-नामयिता-प्रणमयिता-त्री, निनंसिता-त्री, नंनमिता-नन्नमिता-त्री
नमन्-न्ती, नमयन्-नामयन्-प्रणमयन्-न्ती, 8 उन्नामयन्, निनंसन्-न्ती
-- नंस्यन्-न्ती-ती, नमयिष्यन्-नामयिष्यन्-प्रणमयिष्यन्-न्ती-ती, निनंसिष्यन्-न्ती-ती
-- -- नमयमानः-नामयमानः-प्रणमयमानः, -- नंनम्यमानः
-- नमयिष्यमाणः-नामयिष्यमाणः-प्रणमयिष्यमाणः, -- नंनमिष्यमाणः
9 10 प्रणान्-प्रणामौ-प्रणामः
-- -- -- 11 नतम्-नतः-नतवान्, नमितः-नामितः-प्रणमितः, निनंसितः, नंनमितः-तवान्
नमः, 12 नृनमः, 13 प्रणामी, 14 नप्ता, 15 नेमिः, 16 नमनः, 17 नम्रः, -प्रणम्रः, 18 नमः-नामः-प्रणमः, निनंसुः, नंनमः
नन्तव्यम्, नमयितव्यम्-नामयितव्यम्-प्रणमयितव्यम्, निनंसितव्यम्, नंनमितव्यम्
नमनीयम्, नमनीयम्-नामनीयम्-प्रणमनीयम्, निनंसनीयम्, नंनमनीयम्
19 नम्यम्, नम्यम्-नाम्यम्-प्रणम्यम्, निनंस्यम्, नंनम्यम्
ईषन्नमः- 20 दुर्नमः-सुनमः
-- -- -- नम्यमानः-नम्यमानः-नाम्यमानः-प्रणम्यमानः, निनंस्यमानः, 21 नंनम्यमानः
22 उन्नामः-प्रणामः, नामः, नमः-नामः-प्रणमः, निनंसः, नंनमः
नन्तुम्, नमयितुम्-नामयितुम्-प्रणमयितुम्, निनंसितुम्, नंनमितुम्
नतिः, नमना-नामना-प्रणमना, निनंसा, नंनमा
नमनम्, नृनमनम्, नमनम्-नामनम्-प्रणमनम्, निनंसनम्, नंनमनम्
नत्वा, नमयित्वा-नामयित्वा, निनंसित्वा, नंनमित्वा
23 प्रणत्य-प्रणम्य, 24 प्रणमय्य, प्रणिनंस्य, प्रणंनम्य
नामम् २, नत्वा २, 25 नमम् २ -नामम् २ -नामम् २ -प्रणमम् २ -प्रणामम् २, नमयित्वा २ -नामयित्वा २, निनंसम् २, निनंसित्वा २, नंनमम् २
नंनमित्वा २।
01 (६६४)
02 (१-भ्वादिः-९८१। सक। अनि। पर। घटादिः।)
03 [[१। ‘ज्वलह्वलह्मलनमामनुपसर्गाद्वा’ (ग। सू। घटादौ) इति, उपसर्गसमभिव्या- हाराभावे मित्संज्ञा विकल्प्यते। मित्त्वपक्षे उपधाह्रस्वः। एवं ण्यन्ते सर्वत्रोपसर्ग- समभिव्याहाराभावे रूपद्वयं बोध्यम्।]]
04 [[२। उपसर्गसमभिव्याहारे तु ‘जनीजॄष्क्रसुरञ्जोऽमन्ताश्च’ (ग। सू। घटादौ) इत्यनेनामन्त- त्वात् नित्यं मित्त्वम्। तेन णौ उपधाह्रस्वः। ‘उपसर्गादसमासेऽपि णोपदेशस्य’ (८-४-१४) इति णत्वम्। एवम् उपसर्गसमभिव्याहारे सर्वत्र ज्ञेयम्।]]
05 [[३। सन्नन्तात् ण्वुलि, ‘नश्चापदान्तस्य झलि’ (८-३-२४) इति अनुस्वारः। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
06 [[४। ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति नुगागमः। ‘नुकाऽनुस्वारो लक्ष्यते’ इति भाष्ये उक्तम्। ‘स च पदान्तवद्वाच्यः’ (वा। ७-४-८५) इति वचनात् पक्षे ‘वा पदान्तस्य’ (८-४-५९) इति परसवर्णविकल्पः। एवं यङन्ते सर्वत्र रूपद्वयं बोध्यम्।]]
07 [[५। अस्य घातोरनुदात्तत्वात् ‘एकाच उपदेशेऽनुदात्तात्’ (७-२-१०) इतीण्णिषेधः। वलाद्यार्धधातुके सर्वत्र एवं बोध्यम्।]]
08 [[६। उपसर्गसमभिव्याहारे नित्यं मित्त्वात्, उन्नामयन् इत्यस्य साधुत्वाय घञन्ता- दुन्नामशब्दात् ‘तत्करोति तदाचष्टे’ (वा। ३-१-२६) इति णिजन्तात् शता कल्पनीयः इति सिद्धान्तकौमुदी।]]
09 [पृष्ठम्०६१७+ २६]
10 [[१। क्विपि, ‘अनुनासिकस्य क्विझलोः--’ (६-४-१५) इति उपधादीर्घे, ‘मो नो धातोः’ (८-२-६४) इति नत्वे, णत्वे च रूपम्।]]
11 [[२। ‘अनुदात्तोपदेशवनतितनोत्यादीनाम्--’ (६-४-३७) इत्यनुनासिकलोपः। एवं नतिः नत्वा इत्यात्रापि नलोपो बोध्यः।]]
12 [[३। नॄन् नमयतीति नृनमः। ण्यन्तात्, अन्तर्भावितण्यन्तात् शुद्धाद्वा धातोः पचाद्यच्। ‘क्ष्नुभ्नादिषु च’ (८-४-३९) इत्यत्र पाठात् णत्वं न। एवं नृनमनमित्यत्रापि ज्ञेयम्।]]
13 [[४। ताच्छील्ये णिनिः। णत्वम्।]]
14 [[५। ‘तृन्’ (३-२-१३५) इति ताच्छीलिके तृनि, ‘अप्तृन्तृच्स्वसृनप्तृ--’ (६-४-११) इति सूत्रे निपातनात् मकारस्य पकार इति माधवधातुवृत्तिः। संज्ञाशब्दत्वान्ना- वयवार्थेऽभिनिवेशः कार्यः। पौत्रस्य अपत्यम् = नप्ता।]]
15 [[६। ‘भाषायां धाञ्कृञ्सृजनिगमिनमिभ्यः--’ (वा। ३-२-१७१) इति किः किन् वा प्रत्ययः। तस्य लिड्वद्भावातिदेशात् द्वित्वे, एत्वाभ्यासलोपयो रूपम्। नेमिः = रथनाभिः।]]
16 [[७। शब्दार्थकत्वादस्य ‘चलनशब्दार्थादकर्मकात्--’ (३-२-१४८) इति ताच्छी- लिको युच्।]]
17 [[८। ‘नमिकम्पि--’ (३-२-१६७) इति ताच्छीलिको रप्रत्ययः।]]
18 [[आ। ‘द्रुतविगमितविप्रयोगचिह्नामपि तनयां नृपतिः पदप्रणम्राम्।’ नैषधे ४। १८।]]
19 [[९। ‘पोरदुपधात्’ (३-१-९८) इति यत्।]]
20 [[१०। ‘दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधः--’ (वा। १-४-६०) इति वचनान्न णत्वम्।]]
21 [[B। ‘नंनम्यमानाः फलदित्सयेव चकाशिरे तत्र लता विलोलाः।।’ भ। का। २। २५।]]
22 [पृष्ठम्०६१८+ २१]
23 [[१। ‘वा ल्यपि’ (६-४-३८) इति अनुनासिकलोपविकल्पः। अनुनासिकलोपपक्षे ‘ह्रस्वस्य पिति--’ (६-१-७१) इति तुक्।]]
24 [[२। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
25 [[३। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ दीर्घविकल्पः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
