| YouTube Channel

णभ (Nabha)

 
शब्दसागरः
English
णभ r. 1st cl. (नभते प्रणभते) 4th cl. (नभ्यति) and 9th cl. (नम्नाति)
1. To kill,
to injure.
2. To be annihilated, to cease to be.
Wilson
English
णभ r. 1st cl. (नभते प्रणभते) 4th cl. (नभ्यति) and 9th
cl. (नभ्नाति)
1 To kill, to injure.
2 To be annihilated, to cease to be.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
नभ्
मूलधातुः:
णभ
धात्वर्थः:
हिंसायाम्, अभावेपि
गणः:
भ्वादिः
कर्मकत्वं:
हिंसायां सकर्मकः, अभावे अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
नभते
अनुबन्धादिविशेषः:
द्युतादिः
धातुः:
नभ्
मूलधातुः:
णभ
धात्वर्थः:
हिंसायाम्
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
नभ्यति
अनुबन्धादिविशेषः:
पुषादिः
धातुः:
नभ्
मूलधातुः:
णभ
धात्वर्थः:
हिंसायाम्
गणः:
क्र्यादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
नभ्नाति
धातुप्रदीपः
Sanskrit
णभँ णभ
मानकरूपान्तरम् - तुभँ
तुभ हिंसायाम्
- नभते प्रणभते नेभे तोभते तुतुभे नभ्यति तुभ्यतीति गणान्तरे पाठात् ।। 755, 756 ।।
णभँ णभ
मानकरूपान्तरम् - तुभँ
तुभ हिंसायाम्
- नभ्यति प्राणभत् नभः नभते नभ्नातीति गणान्तरपाठात् तुभ्यति अतुभत् 133, 134
णभँ णभ
मानकरूपान्तरम् - तुभँ
तुभ हिंसायाम्
- नभ्नाति प्रणभ्नाति प्रणनाभ प्रणेभतुः प्राणभ्नात् तुभ्नाति नभते नभ्यति तोभते तुभ्यतीति गणान्तरपाठात् 51, 52
शब्दकल्पद्रुमः
Sanskrit
णभ, हिंसे इति कविकल्पद्रुमः
(भ्वां-आत्मं-सकं-सेट् ।) ऌ, अनभत् ङ, नभते ।इति दुर्गादासः
णभ, हिंसे इति कविकल्पद्रुमः
(दिवां-क्र्यां-च-परं-सकं-सेट् ।) य, नभ्यति गनभ्नाति इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
णभ हिंसे
भ्वा०
आत्म०
सक०
सेट् नभते प्रणभते ल्तृदित्अनभत् अनभिष्ट नेभे “नभन्तामन्यकेषां ज्याकाअधिधन्वसु” ऋ० १० १६३ “नभन्तां हिंसयन्ताम्”भा० आर्षस्तङ् “नाभाकस्य प्रशस्तिभिः” निरुक्तधृताऋक् वेदेऽस्य क्वचित् नुम् “उन्नम्भय पृथिवीं भिन्धीदंदिव्यं नभः” तैत्ति० स०
णभ हिंसे दिवा० क्य्रा०
पर०
सक०
सेट् नभ्यतिप्रणभ्यति नभ्राति अनाभीत्--अनभीत् ननाभ नेभतुः
क्षीरतरङ्गिणी
Sanskrit
णभँ णभ
मानकरूपान्तरम् - तुभँ
तुभ हिंसायाम्
- नभते तोभते क्र्य्यादौ (953) नभ्नाति, तुभ्नाति असुन् (दश0 उ0 949) नभः 731
णभँ णभ
मानकरूपान्तरम् - तुभँ
तुभ हिंसायाम्
- प्रणभ्यति अनभत् भ्वादौ (1500) नभते क्र्य्यादौ (950) नभ्नाति अत्यविचमि (उ0 3117) इत्यसच्-नभसम् अदन्तम् नभो नञि बभस्तेः (द्र0 धा0 सू0 319) नह्रे 319) नभिः (तु0 द0 उ0 154) तुभ्यति अतुभत् 128, 129
णभँ णभ
मानकरूपान्तरम् - तुभँ
तुभ हिंसायाम्
- प्रणभ्नाति दिवादौ (4131) नभ्यति द्युतादौ (1500) नभते तुभ्नाति तुभ्यति (4131) तोभते (1500) 47, 48
धातुवृत्तिः
Sanskrit
णभँ णभ
मानकरूपान्तरम् - तुभँ
तुभ (अर्थः) हिंसायाम्
( प्रणभते ने भे नभिता अनभिष्ट तोभते तुतुभे तोभिता अतुभत् अतोभिष्ट) णभिरयमभावेपि वर्त्तते नभन्तामन्यके सम इत्यत्र मा भूवन्नन्यके सर्वे इति निरुक्तम् तथा नभन्तामन्यके मा ज्याका अधिधन्वसु' इत्यत्र भाष्येषु अन्यकेषां शत्रूणां धन्वसु स्थितां ज्याकाः छिन्ना मा भवन्त्विति नभः समुद्रमाकशश्च असुन्नित्यादिना असुन्प्रत्ययः इमौ दिवादी क्र्यादी 740
णभँ णभ
मानकरूपान्तरम् - तुभँ
तुभ (अर्थः) हिंसायाम्
( नभ्यति, प्रणभ्यति ननाभ, नेभतुः, नेभिथ नेभिव नभिता तुभ्यति तुतोभ ) अनयोरपीह पाठः क्षुभेरिव इमावपि द्युतादौ क्र्यादौ पठ्यते 131 132
णभँ णभ
मानकरूपान्तरम् - तुभँ
तुभ (अर्थः) हिंसायाम्
( नम्नाति तुभ्नाति ) इत्यादि पूर्ववत् लुङि ( अनभात् अनाभीत् ) "अतो हलादेः'' इति वृद्धिविकल्पः ( प्रणिनभ्नाति प्रनिनभ्नाति ) "शेषे विभाषा'' इति णत्वविकल्पः नभ्यति तुभ्यतीति दिवादौ नभते तोभत इति शपि 48-49
कृदन्तरूपमाला
Sanskrit
1 {@“णभ हिंसायाम्”@} 2 ‘नभ्येन्नभ्नाति नभते हिंसायां तत्तुभेः समम्।’ 3 इति देवः।
‘णभिरयमभावेऽपि वर्तते।
‘नभन्तामन्यके समे’ इत्यत्र, ‘मा भूवन् अन्यके सर्वे’ इति निरुक्तम् 4।’ इति मा।
धा।
वृत्तिः।
नाभकः-भिका, नाभकः-भिका, निनभिषकः-षिका, नानभकः-भिका
नभिता-त्री, नाभयिता-त्री, निनभिषिता-त्री, नानभिता-त्री
-- नाभयन्-न्ती, नाभयिष्यन्-न्ती-ती
-- नभमानः, 5 प्रणिनभमानः-प्रनिनभमानः, 6 प्रणभमानः, नाभयमानः, निनभिषमाणः, नानभ्यमानः
नभिष्यमाणः, नाभयिष्यमाणः, निनभिषिष्यमाणः, नानभिष्यमाणः
प्रणप्-प्रणब्-प्रणभौ-प्रणभः
-- -- नभितः-तम्, नाभितः, निनभिषितः, नानभितः-तवान्
नभः, नाभः, निनभिषुः, नानभः
नभितव्यम्, नाभयितव्यम्, निनभिषितव्यम्, नानभितव्यम्
नभनीयम्, नाभनीयम्, निनभिषणीयम्, नानभनीयम्
7 नभ्यम् 8, नाभ्यम्, निनभिष्यम्, नानभ्यम्
ईषन्नभः-दुर्नभः-सुनभः
-- -- 9 नभ्यमानः, नाभ्यमानः, निनभिष्यमाणः, नानभ्यमानः
नाभः, नाभः, निनभिषः, नानभः
नभितुम्, नाभयितुम्, निनभिषितुम्, नानभितुम्
10 नब्धिः, नाभना, निनभिषा, नानभा
नभनम्, नाभनम्, निनभिषणम्, नानभनम्
नभित्वा, नाभयित्वा, निनभिषित्वा, नानभित्वा
प्रणभ्य, प्रणाभ्य, प्रणिनभिष्य, प्रणानभ्य
नाभम् २, नभित्वा २, नाभम् २, नाभियित्वा २, निनभिषम् २, निनभिषित्वा २, नानभम्
नानभित्वा २।
प्रासङ्गिक्यः
01
=>
(६६१)
02
=>
(१-भ्वादिः-७५२। सक। सेट्। आत्म।)
03
=>
(श्लो। १४५)
04
=>
(५-२३)
05
=>
[[१। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति णत्वविकल्पः।]]
06
=>
[[२। ‘उपसर्गादसमासेऽपि णोपदेशस्य’ (८-४-१४) इति नित्यं णत्वम्।]]
07
=>
[[३। ‘पोरदुपधात्’ (३-१-९८) इति यत्।]]
08
=>
[[B। ‘अनभ्यसन्तोभककंसजीवस्रंसाय पापध्वदयं प्रतस्थे।।’ धा। का। २। २।]]
09
=>
[पृष्ठम्०६१५+ २२]
10
=>
[[१। ‘झषस्तथोर्धोऽधः’ (८-२-४०) इति धत्वम्। भकारस्य जश्त्वम्।]]
1 {@“णभ हिंसायाम्”@} 2 ‘नभ्येन्नभ्नाति नभते हिंसायां तत्तुभेः समम्।’ 3 इति देवः।
नाभकः-भिका, नाभकः-भिका, निनभिषकः-षिका, नानभकः-भिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकणभ 4 धातुवद् ऊह्यानि।
अस्य दिवादौ पाठात् परस्मैपदित्वाच्च शतरि नभ्यन्-न्ती, नभिष्यन्-न्ती-ती, इत्या- दीनि रूपाणि भवन्ति, इति विशेषः।
5 नभ्यम्।
प्रासङ्गिक्यः
01
=>
(६६२)
02
=>
(४-दिवादिः-१२४०। सक। सेट्। पर।)
03
=>
(श्लो। १४५)
04
=>
(६६१)
05
=>
[[आ। ‘नभ्यान् तुभ्य विभो जयेति नुवते क्लिद्यन् प्रमेद्यद्रुजं क्ष्विद्यन् ऋद्धिमगृध्नवेऽपि विमृश्याक्षीयमाणां ददौ।।’ धा। का। २। ६७।]]
1 {@“णभ हिंसायाम्”@} 2 ‘नभ्येन्नभ्नाति नभतेः हिंसायां तत्तुभेः समम्।’ 3 इति देवः।
नाभकः-भिका, नाभकः-भिका, निनभिषकः-षिका, नानभकः-भिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकणभतिवत् 4 ज्ञेयानि।
अस्य धातोः क्र्यादौ परस्मैपदिषु पाठात् शतरि-नभ्नन्-ती, नभिष्यन्-न्ती-ती
इति रूपाणि, इति विशेषः।
5
प्रासङ्गिक्यः
01
=>
(६६३)
02
=>
(९-क्र्यादिः-१५२०। सक। सेट्। पर।)
03
=>
(श्लो। १४५)
04
=>
(६६१)
05
=>
[पृष्ठम्०६१६+ २५]