| YouTube Channel

णद (Nada)

 
शब्दसागरः
English
णद r. 1st cl. (नदति प्रणदति) To sound Inarticulately, to roar as a river
or a wild beast, to ring as a bell, &c. r. 10th cl.
(नादयति-ते) To speak or tell, to shine. भासे चुरा-उभ-सक-सेट् भ्वा-पर-अक-सेट्
णद (इ) णिदि r. 1st cl. (निन्दति-ते प्रणिन्दति) also (ऋ) णिदृ r. 1st cl. (नेदति-
ते, प्रणेदति)
1. To abuse. to censure, to reproach, to reprove or revile,
to despise or condemn, &c. (The second root means also)
2. To
approach, to come near. The change of after a preposition is op-
tional in the derivatives of the first of these roots.
E.
कुत्सने भ्वादि-
पर-सक-सेट् इदित् सन्निधाने अक-निन्दने सक-भ्वा-उभ-सेट्
Wilson
English
णद r. 1st cl. (नदति प्रणदति) To sound inarticulately, to roar as
a river or a wild beast, to ring as a bell, &c. r. 10th cl. (नादयति)
1 To speak or tell, to shine.
Shabdartha Kaustubha
Kannada
णद - अव्यक्ते शब्दे (भ्वा० पर० अक० से०) नदति
पदविभागः - > धातुः
कन्नडार्थः - > ಶಬ್ದ ಮಾಡು
णद - अव्यक्ते शब्दे (भ्वा० पर० अक० से०) नदति
पदविभागः - > धातुः
कन्नडार्थः - > ಅರಚು /ಕಿರುಚು
प्रयोगाः - > "ननाद हर्षाद्घनतुल्यनिःस्वनः" "वासवश्चानदद्घोरं रुधिरं चाभ्यवर्षत"
उल्लेखाः - > रामा०, हरिवं०
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
नद्
मूलधातुः:
णद
धात्वर्थः:
अव्यक्ते शब्दे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
नदति
धातुः:
नद्
मूलधातुः:
णद
धात्वर्थः:
भाषायाम्
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
नादयति-ते
धातुप्रदीपः
Sanskrit
णदँ णद अव्यक्ते_शब्दे
- नदति प्रणदति प्रणिनदति निनदः निनादः पचादिषु पठ्यते तत्सामर्थ्याददन्तादपि टिड्ढा (4/1/15)इति ङीप् नदी शैषिकेषु नद्यादिभ्यो ढक् (4/2/97) नद्यां भवं नादेयं जलम् गोदावर्य्याश्च नद्याश्चेत्यनेनाच् समासान्तः पञ्चनदम् नदीपौर्णमासी (5/4/120) इत्यादिनाव्ययीभावे टच् उपनदम् परिनदनमिति क्षुभ्नादिः ।। 53 ।।
शब्दकल्पद्रुमः
Sanskrit
णद, म्लिष्टोक्तौ इति कविकल्पद्रुमः
(भ्वां-परं-अकं-सेट् ।) म्लिष्टोक्तिरव्यक्तशब्दः नदतिघण्टा इति दुर्गादासः
णद, भाषि इति कविकल्पद्रुमः
(चुरां-परं-सकं-सेट् ।) क, नादयति इति दुर्गा-दासः
वाचस्पत्यम्
Sanskrit
णद अव्यक्तशब्दे
भ्वा०
पर०
अक० सेट् नदति प्रणदतिअनादीत् अनदीत् ननाद नेदतुः नेदतुः नादः नदन्नदितुम् सति निमित्ते एतत्पूर्ववर्त्तिनः न्युपसर्गस्यणत्वम् प्रणिनदति परिणिनदति ।“वासवश्चानदद्घोरम् रुधिरञ्चाभ्यवर्षत” हरिवं० १८३ अ० ।“नदति मही गम्भीरम्” वृ० स० ५४ अ० “शब्दं घोरंनदन्ति” भा० व० २६७ अ० “शिवाश्चैवाशिवान्नादान्नदन्ते”हरिवं० १९३ अ० आर्षस्तङ् णिचि नादयति “नदय-न्नेति पृथिवीमुत द्याम्” ऋ०९ ९७ १३ “आ सानु-शुष्मैर्नदयन् पृथिव्याः” ऋ० छान्दसो ह्रस्वः ।लोके तु ह्रस्वः “नादयन्रथघोषेण सर्वाः सविदिशोदिशः” भा० व० २५३३ श्लो० अन्तर्भूतण्यर्थे तु अस्यसकर्मकता “नृत्याबसाने नटरजराजो ननाद ढक्कांनव पञ्च वारान्” शब्दे न्दुशेखरधृतवाक्यम् ।अनु + नादेनानुकरणे
सक०
“तथा तेषां रुदतां महा-त्मनां दिशं खञ्चानुननाद निस्वनः” रामा० १११ अ० ।अभि + आभिमुख्येन शब्दकरणे “पुत्रेति तन्मयतया तर-वोऽभिनेदुः” भाग० ।उद् + उच्चैःशब्दकरणे “कालमेघैवोन्नदन्” भा० द्रो० ६८१४प्रति + प्रतिशब्देन अनुकरणे
सक०
“वयं प्रति नदन्तस्तान्”भा० भी० ४५१८
णद भाषे
चु०
उभ०
सक़् सेट् नादयति ते प्रणादयतिअनीनदत्--त ननाद नेदतुः
क्षीरतरङ्गिणी
Sanskrit
णदँ णद अव्यक्ते_शब्दे
नदति उपसर्गादसमासेऽपि (8414) इति णत्वम् - प्रणदति नौ गदनद (3364) इति वा अप् - निनदः, निनादः पचादौ (द्र031134) नदट् - नदः, नदी अनुङ् नदेश्च (उ0352) नदनुः चुरादौ (10223) भासार्थः - नादयति 52
धातुवृत्तिः
Sanskrit
णदँ णद (अर्थः) शब्दे
"णो नः'' धात्वादेरिति शेषः ( प्रणदति प्रणनाद प्रणेदतुः, प्रणेदिथेत्यादि गदिवत्) ( सूत्रम्) उपसर्गादसमासे ऽपि णोपदेशस्य (इति सूत्रम्) इति उपसर्गस्थान्निमित्तात्परत्वेन नकारस्य णत्वम् प्रणिनदतीत्यादौ "नेर्गद''इति णत्वम् इदमप्यड्व्यवायेईति प्रण्यनददित्यादावपि भवति धातुनकारस्य निशब्देन व्यवधानादुपसर्गादिति णत्वं भवति अशब्दकारकत्वे ऽपि "अणावकम्रक''इति प्रयोज्यस्य कर्मत्वं घटं नादयतीति (नदी) पचादौ नदडिति पाठातृ टित्त्वात् ङीप् ( नद्यां भवा नादेयाः ) "नद्यादिभ्यो ढक्'' इति शैषिको ढक्, तस्यैयादेशः पञ्चानां नदीनां समाहारः ( पञ्चनदम् ) "नदीभिश्च'' इति नदीवचनैः सहसंख्याया अव्ययीभावः अभिधानस्वभावादयं समासः समाहार इत्युक्तम् अजिति योगविभागादच् समासान्तः उक्तं
कृष्णोदक्पाडुपूर्वाया भूमेरच् प्रत्ययः स्मृतः गोदावर्याश्च नद्याश्च संख्याया उत्तरे यदि
इति ( निनदः ) "नौ गदनद'' इति पक्षे अप् तदभावे घञ् निनादः हदित्समृर्ध्यर्थो ऽग्रे, णद भाषार्थश्चुरादौ 54
कृदन्तरूपमाला
Sanskrit
1 {@“णद अव्यक्ते शब्दे”@} 2 ‘नदत्यव्यक्तशब्दार्थे, भाषार्थे नादयेदिति।।’ 3 इति देवः।
नादकः-दिका, नादकः-दिका, निनदिषकः-षिका, नानदकः-दिका
नदिता-त्री, नादयिता-त्री, निनदिषिता-त्री, नानदिता-त्री
4 प्रणिनदन् 5 -न्ती, नादयन्-न्ती, निनदिषन्-न्ती
-- नदिष्यन्-न्ती-ती, नादयिष्यन्-न्ती-ती, निनदिषिष्यन्-न्ती-ती
-- -- नादयमानः, नादयिष्यमाणः, नानद्यमानः, नानदिष्यमाणः
प्रणत्-प्रणद्-प्रणदौ-प्रणदः
-- -- -- नदितः- 6 प्रणदितः- 7 तम्, नादितः, निनदिषितः, नानदितः-तवान्
8 नदः- 9 नदी, 10 कलहंसनादिनी, 11 अम्भोदनादी-खरनादी, अर्णवधीरनादिनी, 12 नदितव्यम्, नादयितव्यम्, निनदिषितव्यम्, नानदितव्यम्
नदनीयम्, नादनीयम्, निनदिषणीयम्, नानदनीयम्
नाद्यम्, नाद्यम्, निनदिष्यम्, नानद्यम्
ईषन्नदः-दुर्नदः-सुनदः
-- -- नद्यमानः, नाद्यमानः, निनदिष्यमाणः, नानद्यमानः
नादः, 13 निनदः- 14 निनादः, नादः, निनदिषः, नानदः
नदितुम्, नादयितुम्, निनदिषितुम्, नानदितुम्
नत्तिः, नादना, निनदिषा, नानदा
नादः, नादः, निनदिषुः, नानदः
नदनम्, नादनम्, निनदिषणम्, नानदनम्
नदित्वा, नादयित्वा, निनदिषित्वा, नानदित्वा
प्रणद्य, प्रणाद्य, प्रणिनदिष्य, प्रणानद्य
15 सिंहनादं विनद्य, नादम् २, नदित्वा २, नादम् २, नादयित्वा २, निनदिषम् २, निनदिषित्वा २, नानदम्
नानदित्वा २। 16 नदनुः, 17
प्रासङ्गिक्यः
01
=>
(६५९)
02
=>
(१-भ्वादिः-५४। अक। सेट्। पर।)
03
=>
(श्लो। ११०)
04
=>
[[२। ‘नेर्गदनद--’ (८-४-१७) इति उपसर्गस्थान्निमित्तात् परस्य नेर्नित्यं णत्वम्।]]
05
=>
[[B। ‘प्रण्यगादीत् प्रणिघ्नन्तं घनः प्रणिनदन्निव।’ भ। का। ९। ९९।]]
06
=>
[[३। ‘उपसर्गादसमासेऽपि णोपदेशस्य’ (८-४-१४) इति णत्वम्।]]
07
=>
[[C। ‘निपपात सम्भ्रमभृतः श्रवणादसितभ्रुवः प्रणदितालिकुलम्।’ शि। व। ९। ७१।]]
08
=>
[पृष्ठम्०६१३+ २४]
09
=>
[[१। पचादिषु (३-१-१३४) नदट् इति पाठात् टित्त्वम्। तेन स्त्रियां ङीप्।]]
10
=>
[[२। ‘कर्तर्युपमाने’ (३-२-७९) इति णिनिः। कलहंस इव नदतीति कलहंसनादिनी। एवं अम्भोदनादी, खरनादी इत्यत्रापि ज्ञेयम्।]]
11
=>
[[आ। ‘पयोऽवगाढुं कलहंसनादिनी समाजुहावेव वधूः सुरापगा।।’ किरातार्जुनीये ८। २७।]]
12
=>
[[B। ‘ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीरनादिनीम्।’ रघुवंशे ३। ५९।]]
13
=>
[[३। ‘नौ गदनदपठस्वनः’ (३-३-६४) इति निपूर्वकात् अब्विकल्पः। पक्षे घञ्।]]
14
=>
[[C। ‘श्रुत्वा विस्फूर्जथुप्रख्यं निनादं परिदेविनी।’ भ। का। ५। ५३।]]
15
=>
[[४। ‘उपमाने कर्मणि च’ (३-४-४५) इति णमुल्प्रत्ययः। ‘कषादिषु यथाविध्यनु- प्रयोगः’ (३-४-४६) इति पूर्वप्रयुक्तस्यैव धातोर्णमुल्प्रयोजकस्यानुप्रयोगः।]]
16
=>
[[५। ‘चनुक् नदेश्च’ (द। उ। १-१३९) इति चनुक्प्रत्यये रूपम्। नदनुः = मेघः।]]
17
=>
[पृष्ठम्०६१४+ २५]
1 {@“णद भाषार्थः”@} 2 आस्वदीयः।
‘नदत्यव्क्तशब्दार्थे, भाषार्थे नादयेदिति।।’ 3 इति देवः।
नादकः-दिका, निनादयिषकः-षिका, नादयिता-त्री, निनादयिषिता-त्री
4 नादयन्-न्ती, इत्यादीनि सर्वाण्यपि रूपाणि अवस्पन्दनार्थकनट 5 धातुवत् ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(६६०)
02
=>
(१०-चुरादिः-१७७९। सक। सेट्। उभ।)
03
=>
(श्लो। ११०)
04
=>
[[आ। ‘अलोचि चान्यैः समरेऽत्र कष्टतामलोकयन् दुष्यति नादयन्नपि।’ धा। का। ३। ४५।]]
05
=>
(६५८)