णट (NaTa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishShabdartha Kaustubha
Kannadaणट - नृत्तौ (भ्वा० पर० अक० से०)
पदविभागः - > धातुः
कन्नडार्थः - > ನಾಟ್ಯವಾಡು /ಅಭಿನಯಿಸು
णट - नृत्तौ (भ्वा० पर० अक० से०)
पदविभागः - > धातुः
कन्नडार्थः - > ನರ್ತನ ಮಾಡು /ಕುಣಿದಾಡು
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुपाठः (Krishnacharya)
Sanskrit नट्
णट
नृत्तौ
भ्वादिः
अकर्मकः
सेट्
परस्मैपदी
नटति
धातुप्रदीपः
Sanskritणटँ णट नृतौ
- नटति । प्रणटति । नटः । नाटः । नाटकः । नाटिका ।। 308 ।।
णटँ णट नृत्तौ
- नटति । प्रणटति । प्राणाटि । प्राणाटि । नटिका । णट गतावित्येके । नतावित्यन्ये । नटयतीति नट नृत्तावित्यनेन । नट अवस्यन्दन इति चुरादौ नाटयतीति ।। 785 ।।
शब्दकल्पद्रुमः
Sanskritणट, नृत्यहिंसयोः । इति कविकल्पद्रुमः ॥
(भ्वां-परं-अकं-सकं च-सेट् ।) प्रणटति । णोपदेश-विधौ वर्ज्जनेऽपि अस्य परस्य चेह पाठःकेषाञ्चिदनुरोधात् । अत्र नृत्यं साभिनयनर्त्तनम् ।इति दुर्गादासः ॥
णट, म नृतौ । इति कविकल्पद्रुमः ॥
(भ्वां-परं-अकं-सेट् ।) म, प्रणटयति । नृताविति नृत्यते-रौणादिककिप्रत्यये रूपम् । अत्र मिकारानु-बन्धेनैवेष्टसिद्धे पूर्व्वे नृत्यग्रहणमर्थभेदार्थम् ।तेन पूर्व्वे नृत्यं साभिनयनर्त्तनम् इह तु नृति-रभिनयरहितनर्त्तनमिति । यथा पूर्व्वस्य ।स्फटिककटकभूतिर्नाटयत्येव शैलः । इति माघः ।अस्य तु । नाट्येन केन नटयिष्यति दीर्घ-मायुरिति मुरारिः । इति दुर्गादासः ॥
वाचस्पत्यम्
Sanskritणट नृत्ये साभिनये नटकार्य्ये हिंसायामयं न णोपदेशीभ्वा० षर० अक० सेट् । नटति प्रणटति अनाटीत् अन-टीत् । ननाट नेटतुः । हिंसायात् प्रनटति । नटःनाट्यम् ।
णट नटकृत्ये अक० सेट् । नटति प्रणटति अनाटीत्-अनटीत् ननाट नेटतुः घटा० । नटयति अनीनटत् ।“नट नृत्ये । इत्थमेव पूर्वमपि पठितम् । तत्रायंविवेकः । पूर्वपठितस्य नाट्यमर्थो यत्कारिषु नटव्यप-देशो वाक्यार्थाभिनयो नाट्यम् । घटादौ तु नृत्तं नृत्यंचार्थो यत्कारिषु नर्त्तकव्यपदेशः पदार्थाभिनयो नृत्यम्गात्रविक्षेपमात्रं नृत्तम् । केचित्तु घटादौ णटनतावितिपठन्ति । मतावित्यन्ते । णोपदेशपर्य्युदासवाक्ये भाष्य-कृता नाटीति दीर्थपाठात् घटादिर्णोपदेश एव” सि० कौ०
क्षीरतरङ्गिणी
Sanskritणटँ नट नृतौ
- नटति नटः नतावित्येके घटादित्वात् (1528) नटयति, अनीनटत् चुरादौ नट अवस्यन्दने (1012) उन्नाटयनि नाटकम् 302
णटँ नट नतौ
- नटति नटयति शाखाम् नृतौ तु (द्र0 1 209) नाटयति चुरादौ नट अवस्यन्दने (1012)अस्माच् चौरस्योन्नाटयति 760
धातुवृत्तिः
Sanskritणटँ णट (अर्थः) नृतौ
अत्र पुरुषकारे णट नृत्तावित्यपि क्षीरस्वामी, इत्युभयथापि नर्तनमेवार्थ इति, अयं णोपदेशः नृतिनन्दीति णोपदेशपर्युदासवाक्ये नाटीति सवृद्धिकस्य ग्रहणादस्य घटादित्वान्मित्त्वात् नाटिरूपाभावादग्रहणम् यदाह हरदत्तः "जासिनिप्रहण'' इत्यत्र नट नृतावित्यस्य घटादिपठितस्याग्रहणं, विकृतनिर्देशादिति, अत एव णोपदेशपर्युदासविवरणेपि न्यासपदमञ्जरीपुरुषकारादिभिरवस्यन्दनार्थस्य चौरादिकस्य ग्रहणं कृतम् ननु क्षीरस्वामी घटादौ नट नृताविति पठित्वा नटयति शाखा इत्युदाहृत्य नृत्तौ नाटयतीति वक्ष्यति, अवश्यं हरदत्तादिभिरप्युभत्र पाठसामर्थ्यादस्य नाटयतीत्यङ्गीकार्यं, तत्कथमुक्तं विकृतनिर्देशादिति उच्यते द्वयोर्ग्रहणे नटीत्येव निर्दिशेत् न नाटीति विकृतं, तत्सामर्थ्यात् यस्य नाटीत्येव रूपं तस्यैव पर्युदासो विज्ञास्यते न तु यस्य नटिरूपं नाटिरूपं च ननु योऽस्ति घटादिधातुर्नित्यं नटिरूपमापन्नः स एव विकृतनिर्देशेन व्यावर्त्त्यते, मैवम् ये ऽप्यत्र पठिता घटादौ पठ्यन्ते न ते पृथग् धातवः, किन्तु मित्त्वार्थमेव तेषामनुवाद इति तत्र स्थितत्वात् इह नृत्तिर्नर्त्तनं, यत्कारिषु नटव्यपदेशः न तु मार्गदेशीशब्दाभ्यां प्रसिद्धं नृत्तं नृत्यं च, यत्कारिषु नर्त्तकव्यपदेशः तत्र वाक्यार्थाभिनयो नाट्यं, पदार्थाभिनयस्तु नृत्यम् अभिनयशून्यः पुनः शास्त्रोक्ताङ्गभङ्गः स्वगात्रविक्षेपो नृत्त इति तद्विदः, नैघण्टुकानां तु ताण्डवं नटनं नाट्य लास्यं नूत्यं च नर्त्तनमिति अभेदव्यवहारो निरूढलक्षणया नेयः ( प्रणटतीत्यादि नटी ) गौरादित्वान् ङीष् 307
णटँ नट (अर्थः) नृतौ
पूवत्र नृनिर्नाट्यमित्युक्तत्वात् इइ नृतिशब्दोन ततोन्योर्थो नृत्तनृत्यलक्षणः चलनादिलक्षणश्चोच्यते अत्र मैत्रेयः गतावित्येके नतावित्येके स्वामी च नताविति पठित्वा नटयति शाखामित्युदाहृतृय नृत्तौ नाटयतीति ( नटयति अनटि अनाटीत्यादि ) अयं णोपदेश इति प्रागुक्तम् 769
कृदन्तरूपमाला
Sanskrit1 {@“णट नृत्तौ”@} 2 अक।
सेट्।
पर।) 3 घटादौ ‘णट नृत्तौ’ इति पठ्यते।
भ्वादावेव पूर्वमपि एवमेव पठितम्।
अत्र घटादिपठितस्य धातोः नृत्यं, नृत्तं चार्थः।
पदार्थाभिनयो नृत्यम्।
अभिनयशून्यः शास्त्रोक्ताङ्गभङ्गरूपः गात्रविक्षेपो नृत्तम्
यत्कारिषु नर्तकव्यपदेशः प्रसिद्धः।
अनयोरर्थयोर्मित्त्वप्रयुक्तं कार्यं भवति।
णोपदेशत्वमप्यस्मिन्नेवार्थे।
अवस्पन्दनरूपार्थे तु मित्त्वं न।
णोपदेशकारिकायाम्, ‘अणाटि’ इति दीर्घघटितनिर्देशेन, दीर्घार्हस्य णोपदेशत्वं प्रतिषिध्यते।
क्षीरस्वामी तु ‘नतौ’ इति पठित्वा, ‘नटयति’ शाखाम्’ इत्युदाहृत्य, ‘नृतौ तु नटति, नाटयति।’ इत्युक्तवान्।
‘नृत्तौ’ इत्यस्य, नाट्यमित्यर्थोऽभिमत इति वक्तव्यम्
नृत्तनृत्ययोस्त्वर्थयोर्मित्संज्ञायाः सर्वाभिमतत्वात्।
‘नट गतौ’ इत्यन्ये पठन्ति।]] घटादिः।
‘नृतौ नटत्यवस्पन्दे चुरादेर्णिचि नाटयेत्।’ 4 इति देवः।
नाटकः-टिका, 5 प्रणटकः-प्रनाटकः-टिका, निनटिषकः-षिका, नानटकः-टिका
नटिता-त्री, प्रणटयिता-प्रनाटयिता-त्री, निनटिषिता-त्री, नानटिता-त्री
नटन्, न्ती, 6 प्रणटयन्-नटयन्, प्रनाटयन्-न्ती, निनटिषन्-न्ती
-- नटिष्यन्-न्ती-ती, प्रणटयिष्यन्-प्रनाटयिष्यन्-न्ती-ती, निनटिषिष्यन्-न्ती-ती
व्यतिनटमानः, व्यतिनटिष्यमाणः, -- नानट्यमानः, नानटिष्यमाणः
नट्-नड्-नटौ-नटः
-- -- -- नटितम्-तः, नटितः-नाटितः, निनटिषितः, नानटितः-तवान्
7 नटः, 8 नटी, नटः-नाटः, निनटिषुः, नानटः
नटितव्यम्, नटयितव्यम्-नाटयितव्यम्, निनटिषितव्यम्, नानटितव्यम्
नटनीयम्, नटनीयम्-नाटनीयम्, निनटिषणीयम्, नानटनीयम्
नाट्यम्, नट्यम्, नाट्यम्, निनटिष्यम्, नानट्यम्
ईषन्नटः- 9 दुर्नटः-सुनटः
-- -- -- नट्यमानः, नट्यमानः-नाट्यमानः, निनटिष्यमाणः, नानट्यमानः
नाटः, नटः-नाटः, निनटिषः, नानटः
नटितुम्, नटयितुम्-नाटयितुम्, निनटिषितुम्, नानटितुम्
10 नट्टिः, नटना-नाटना, निनटिषा, नानटा
नटनम्, नटनम्-नाटनम्, निनटिषणम्, नानटनम्
नटित्वा, नटयित्वा-नाटयित्वा, निनटिषित्वा, नानटित्वा
प्रणट्य, 11 प्रणटय्य-प्रनाट्य, निनटिष्य, नानट्य
नटम् २, नटित्वा २, 12 नटम् २ -नाटम् २, नटयित्वा २ -नाटयित्वा २, निनटिषम् २, निनटिषित्वा २, नानटम् २
नानटित्वा २।
01 (६५७)
02 (१-भ्वादिः-३१०। (७८१)
03 [[[अ]
04 (श्लो। ७६)
05 [[१। नृत्तनृत्ययोरर्थयोः मित्त्वात् णौ परतः, ‘मितां ह्रस्वः’ (६-४-९२) इत्युप- धाया ह्रस्वो भवति। णोपदेशत्वाच्च णत्वमपि भवति। अन्यत्र तु मित्त्वं, णोपदेशत्वं च न। अत एव ण्यन्ते सर्वत्र रूपद्वयं प्रदर्शितम्।]]
06 [[२। ‘अणावकर्मकाच्चित्तवत्कर्तृकात्’ (१-३-८८) इति ण्यन्तात् परस्मैपदमेव, न शानच्।]]
07 [पृष्ठम्०६११+ २२]
08 [[१। पचाद्यचि गौरादिपाठात् (४-१-४१) स्त्रियां ङीष्।]]
09 [[२। ‘दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वाच्यः’ (वा। १-४-६०) इति वचनात् णत्वं न। एवं णोपदेशधातुषु सर्वत्र ज्ञेयम्।]]
10 [[३। ‘तितुत्र--’ (७-२-९) इतीण्णिषेधे, ‘ष्टुना ष्टुः’ (८-४-४१) इति ष्टुत्वम्।]]
11 [[४। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
12 [[५। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ दीर्घविकल्पः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
