| YouTube Channel

ढुण्ढिः (DhuNDhiH)

 
Apte
English
ढुण्ढिः [ḍhuṇḍhiḥ], An epithet of Gaṇeśa.
Apte Hindi
Hindi
ढुण्ढिः
पुं*
- ढुण्ढ्+इन्
गणेश का विशेषण
Tamil
Tamil
டு4ண்டி4: : விநாயகர்.
शब्दकल्पद्रुमः
Sanskrit
ढुण्ढिः,
पुं,
(ढुढ्यतेऽसौ भक्तैरिति ढुण्ढ अन्वे-षणे + इन् ।) गणेशः तन्नामकरणं यथा, --गणेशं प्रति शिववाक्यम् ।“अन्वेषणे ढुढिरयं प्रथितोऽस्ति धातुःसर्व्वार्थढुण्ढिततया भव ढुण्ढिनामा ।काशीप्रवेशमपि को लभतेऽत्र देहीतोषं विना तव विनायक ! ढुण्ढिराज !
”तन्माहात्म्यं यथा, --“ढुण्ढे ! प्रणम्य पुरतस्तव पादपद्मंयो मां नमस्यति पुमानिह काशिवासी ।तत्कर्णमूलमधिगम्य पुरादिशामितत्किञ्चिदत्र पुनर्भवतास्ति येन
”“यः प्रत्यहं नमति ढुण्ढिविनायक ! त्वांकाश्यां प्रगे प्रतिहताखिलविघ्नसङ्घः ।नो तस्य जातु जगतीतलवर्त्ति वस्तुदुष्प्रापमत्र परत्र किञ्च नापि
”“प्रथमं ढुण्ढिराजोऽसि मम दक्षिणतो मनाक् ।आढुण्ढ्य सर्व्वभक्तेभ्यः सर्व्वार्थान् संप्रयच्छसि
”तस्य यात्राविधानं यथा, --“माघशुक्लचतुर्थ्यान्तु नक्तं व्रतपरायणाः ।ये त्वां ढुण्ढेऽर्च्चयिष्यन्ति तेऽर्च्च्याः स्युरसुरद्बि-षाम्
विधाय वार्षिकीं यात्रां चतुर्थीं प्राप्य तापसीम् ।शुक्लां शुक्लतिलैर्ब्बद्धान् प्राश्नीयाल्लड्डुकान् व्रती
कार्य्या यात्रा प्रयत्नेन क्षेत्रसिद्धिमभीप्सुभिः ।तस्यां चतुर्थ्यां त्वत्प्रीत्यै ढुण्ढे ! सर्व्वोपसर्गहृत्
तां यात्रां नात्र यः कुर्य्यान्निवेद्य तिललड्डु-कान् ।उपसर्गसहस्रैस्तु हन्तव्यो ! ममाज्ञया
होमं तिलाज्यद्रव्येण यः करिष्यति भक्तितः ।तस्यां चतुर्थ्यां मन्त्रज्ञस्तस्य मन्त्रः प्रसेत्स्यति
”इति काशीखण्डे ५० अध्याये