| YouTube Channel

डेपकः-पिका (DepakaH-pikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“डिप क्षेपे”@} 2 ‘सङ्घाते डेपयेतेति, क्षेपे डिपति डिप्यति।’ 3 इति देवः।
4 डेपकः-पिका, डेपकः-पिका, डिडेपिषकः-डिडिपिषकः-षिका, डेडिपकः-पिका
इत्यादीनि सर्वाण्यपि रूपाणि दैवादिककुप्यतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(६४७)
02
=>
(४-दिवादिः-१२३२। सक। सेट्। पर।)
03
=>
(श्लो० १३४)
04
=>
[[C। ‘रुष्यद्रिष्यदरातिडेपक विभो कोपादिगोपो ते किञ्चायोप्यविरोपिलोपक वा लोभादिसंक्षोभिता।’ धा। का। २। ६७।]]
05
=>
(२२४)
1 {@“डिप क्षेपे”@} 2 डेपकः-पिका, डेपकः-पिका, डिडिपिषकः-षिका, डेडिपकः-पिका
3 डिपन्-न्ती-ती, डिपित्वा, इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककुटतिवत् 4 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(६४८)
02
=>
(६-तुदादिः-१३७१। सक। सेट्। पर। कुटादिः।)
03
=>
[[ड्। ‘ततोऽतिकुटिलाशयैः प्रपुटितैः कुचज्जीवितै- र्गुजद्भिरपि सैनिकैः सुगुडितां डिपद्भिर्जनान्।’ धा। का। २-८०।]]
04
=>
(२०४)
1 {@“डिप क्षेपे”@} 2 ‘डेपयेदिति चत्वारि णिचि शे श्यनि णौ डिपेः।।’ 3 इति देवः।
डेपकः-पिका, डिडेपयिषकः-षिका
डेपयिता-त्री, डिडेपयिषिता-त्री
डेपयन्-न्ती, डिडेपयिषन्-न्ती
डेपयिष्यन्-न्ती-ती, डिडेपयिषिष्यन्-न्ती-ती
डेपयमानः, डिडेपयिषमाणः
डेपयिष्यमाणः, डिडेपयिषिष्यमाणः
डेप्- डेपौ-डेपः
डेपितम्-तः, डिडेपयिषितः-तवान्
डेपः, 4 प्रतिमल्लडेपी, 5 6 डिडेपयिषुः
डेपयितव्यम्, डिडेपयिषितव्यम्
डेपनीयम्, डिडेपयिषणीयम्
डेप्यम्, डिडेपयिष्यम्
ईषड्डेपः-दुर्डेपः-सुडेपः
डेप्यमानः, डिडेपयिष्यमाणः
डेपः, डिडेपयिषः
डेपयितुम्, डिडेपयिषितुम्
डेपना, डिडेपयिषा
डेपनम्, डिडेपयिषणम्
डेपयित्वा, डिडेपयिषित्वा
प्रडेप्य, प्रडिडेपयिष्य
डेपम् २, डेपयित्वा २, डिडेपयिषम्
डिडेपयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(६४९)
02
=>
(१०-चुरादिः-१६७२। सक। सेट्। उभ।)
03
=>
(श्लो। १३४)
04
=>
[[१। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
05
=>
[[E। ‘इत्थं वदत्यसुरजासिनि पिण्डितायः- स्थेमाऽथ रोषितमतिः प्रतिमल्लडेपी।’ धा। का। ३-३२।]]
06
=>
[पृष्ठम्०६०६+ २७]